"काफीसस्यम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः २२:
[[चित्रम्:Detail of Coffea canephora branch and leaves.jpg|thumb|left|200px|काफीसस्यस्य शाखा, पुष्पं चापि]]
 
एतत् काफीसस्यं [[भारतम्|भारते]] अपि वर्धमानः कश्चन सस्यविशेषः । इदं काफीसस्यम् आङ्ग्लभाषायां Coffee Plant इति उच्यते । एतत् काफीसस्यं द्विविधं भवति । अराबिकं तथा रोबस्टं चेति । अराबिकवंशस्य काफीसस्यस्य वर्धनं प्रथमम् [[इतियोपिया]] मध्ये कृतम् । तथैव रोबस्टवंशस्य वर्धनम् अद्यतन-उगाण्डदेशे कृतम् । रोबस्टवंशस्य [[काफीबीजम्|काफीबीजानि]] अत्यधिकप्रमाणेन "केफीन्"-अंशयुक्तानि भवन्ति । एतेषां रोबस्टवंशस्य काफीबीजानां भर्जनावसरे कश्चन विभिन्नः गन्धः अपि उत्पद्यते । अराबिकवंशस्य काफीबीजानि एव प्रसिद्धानि जनप्रियाणि च ।
 
एतत् काफीसस्यं गुल्मरूपेण वर्धते । अस्य काफीसस्यस्य फलनाम् अन्तः विद्यमानैः बीजैः एव [[काफीचूर्णम्|काफीचूर्णं]] निर्मीयते । ततः तेन काफीचूर्णेन [[काफीपेयं]] निर्मीयते । तत् पेयं सर्वदा उष्णं कदाचित् शीतलं चापि पीयते । अनेन काफीचूर्णेन निर्मीयमाणं काफीपेयं जगति एव अत्यन्तं जनप्रियं पेयम् अस्ति । अनेन काफीचूर्णेन २००३ तमे वर्षे निर्यातवस्तुषू विश्वे एव षष्ठं स्थानं प्राप्तम् अस्ति । आरम्भस्य पञ्चस्थानानि क्रमशः [[गोधूमः|गोधूमेन]], [[रागीधान्यम्|रागीधान्येन]], [[निष्पावः|सोयाधान्येन]] (निष्पावप्रभेदः), [[तालतैलम्|तालतैलेन]], [[शर्करा|शर्करया]] च प्राप्तम् अस्ति ।
पङ्क्तिः ३४:
[[वर्गः:पेयानि]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/काफीसस्यम्" इत्यस्माद् प्रतिप्राप्तम्