"जम्बूफलरसः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः २:
[[चित्रम्:Kalo jaam.JPG|thumb|left|150px|शाखायां लम्बमानानि अपक्वानि, अर्धपक्वानि, पक्वानि च जम्बूफलानि]]
 
जम्बूफलस्य रसः एव '''जम्बूफलरसः''' । एतत् जम्बूफलम् आङ्ग्लभाषायां Jambul इति उच्यते । अस्य रसः Jambul Juice इति उच्यते । जम्बूफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य जम्बूफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि जम्बूफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । [[भारतम्|भारते]] तु अयं जम्बूफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । जम्बूफलानि बहुविधानि सन्ति । तदनुगुणं फलरसस्य अपि वर्णः रुचिः च परिवर्तते ।
 
 
===फलरसस्य निर्माणम्===
 
अस्य जम्बूफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् जम्बूफलं प्रक्षाल्य बीजं निष्कासनीयम् । तदनन्तरं फलखण्डेषु [[शर्करा|शर्करां]] योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र [[जलम्|जलं]] वा [[दुग्धम्|दुग्धं]] वा योजनीयम् । अपेक्षितं चेत् तत्र [[एला|एलायाः]] [[मरीचम्|मरीचस्य]] च चूर्णम् अपि योजयितुं शक्यते ।
 
 
[[वर्गः:पेयानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/जम्बूफलरसः" इत्यस्माद् प्रतिप्राप्तम्