"पाण्डुः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १३:
'''पाण्डुः''' [[महाभारतम्|महाभारतस्य]] किञ्चित् प्रमुखं पात्रम् अस्ति । अयं पाण्डुः [[चन्द्रवंशः|चन्द्रवंशस्य]] राजा । अस्य पिता [[विचित्रवीर्यः]], माता च [[अम्बालिका]] । वस्तुतः विचित्रवीर्यस्य मरणसमये अम्बालिका पुत्रवती एव न आसीत् । तस्य मरणानन्तरं [[सत्यवती|सत्यवत्याः]] प्रार्थनानुसारं मुनिः [[व्यासः]] अम्बालिकायाः कृते पुत्रदानं करोति । अतः मुनिः व्यासः एव पाण्डोः वास्तविकः पिता । अयं पाण्डुमहाराजः पाण्डुरोगेण पीडितः आसीत् जन्मना एव । अस्य द्वे पत्न्यौ [[कुन्ती]], [[माद्री]] च । सुप्रसिद्धानां पञ्चपाण्डवानं पिता एषः पाण्डुमहाराजः । मृगयावसरे [[शब्दवेधी]]प्रयोगेण व्याघ्रं मारयितुम् उद्युक्तः सपत्नीकम् ऋषिकुमारं मारयति । तदा सः ऋषिकुमारः "यस्मिन् क्षणे भवान् स्त्रीसङ्गं करोति सः एव भवतः अन्तिमः क्षणः भवति" इति पाण्डुं शप्तवान् । तदनन्तरं कुन्त्या विवाहात् पूर्वं [[दूर्वासाः|दूर्वासेभ्यः]] प्राप्तस्य वरस्य बलेन पुत्रमान् सञ्जातः पाण्डुमहाराजः ।
 
[[वर्गः: महाभारतस्य पात्राणि]]
{{महाभारतम्}}
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
 
[[वर्गः: महाभारतस्य पात्राणि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/पाण्डुः" इत्यस्माद् प्रतिप्राप्तम्