"मधुपाकफलरसः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ५:
 
मधुपाकफलस्य रसः एव मधुपाकफलरसः । एतत् [[मधुपाकफलम्]] आङ्ग्लभाषायां Sweet Lemon इति उच्यते । अस्य रसः Sweetlemon Juice इति उच्यते । मधुपाकफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य मधुपाकफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि मधुपाकफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । [[भारतम्|भारते]] तु अयं मधुपाकफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति ।
 
 
===फलरसस्य निर्माणम्===
 
अस्य मधुपाकफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् मधुपाकफलं प्रक्षाल्य त्वक् निष्कास्य बीजानि पृथक् करणीयानि । अनन्तरं तत्र [[शर्करा|शर्करां]] योजयित्वा सम्यक् पेषणं करणीयम् । अनन्तरं शोधनीयम् । तदनन्तरं तत्र [[जलम्|जलं]] वा [[दुग्धम्|दुग्धं]] वा योजनीयम् । अपेक्षितं चेत् तत्र [[एला|एलायाः]] चूर्णम् अपि योजयितुं शक्यते ।
 
 
[[वर्गः:पेयानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/मधुपाकफलरसः" इत्यस्माद् प्रतिप्राप्तम्