"कामसूत्रम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ६:
कामसूत्राणि वात्स्यायननाम्ना प्रसिद्धानि । सः न कर्ता । मल्लनागाचार्य इति कश्चित् विद्वान् वत्सराजस्य पुत्रान् संस्कृतवानिति कारणतः तस्येव वात्स्यायन इति नामागतमिति कथ्यते । मल्लनागः स्वस्मात्प्राक् स्थितान् कामशास्त्रग्रन्थान् उत्सन्नप्रायान् सङ्गृहीतवानिति कथ्यते । दत्तकः बाभ्रव्यः चारायणः सुवर्णनाभः औद्दालकिः घोटकमुखः गोनर्दीयः गोणिकापुत्रः कूचुमारः इत्यादयः कामशास्त्रविस्तारकाः आसन् । एतेषां पुस्तकानि सर्वाण्यपि वात्स्यायनबिरुदभाक् मल्लनागाचार्यः सङ्गृहीतवान् । अतः मल्लनागाचार्योऽपि सङ्ग्रहकर्तेति सन्धातेति ज्ञातव्यं भवति । कामसूत्राणि तु वात्स्यायननाम्ना प्रसिद्धिङ्गतानि ।
== कालः ==
क्रीस्तोः प्राक् १५० वत्सरकालीनस्य पतञ्जलिमहर्षेः महाभाष्यस्थितव्याकरणशास्त्ररचनावश्यकतादिविषयाः वात्स्यायनकामसूत्रग्रन्थे त्रिवर्गप्रतिपत्त्यध्याये दृश्यन्ते । अतः वात्स्यायनोऽयं पतञ्जलिसमीपकालीनत्वेन क्रीस्तोः प्रागेव द्वितीयशताब्दीय इति निश्चीयते प्रसिद्धविद्वद्भिः श्री पञ्चाग्नुल आदिनारायणशास्त्रिमहोदयैः स्वकीये यशोधरीयजयमङ्गळव्याख्यानस्य आन्ध्रविवरणग्रन्थे ।
 
==ग्रन्थस्वरूपम्==
वात्स्यायनकामसूत्राणां "जयमङ्गळ"मिति नाम्ना यशोधरपण्डितः व्याख्यामकरोत् । तद्व्याख्यानस्य आन्ध्रविवरणम् पञ्चाग्नुल आदिनारायणशास्त्रिमहोदयाः कृतवन्तः । तद्ग्रन्थादेव उद्धृत्य एष लघुपरिचयः क्रियते । अस्मिन्ग्रन्थे साङ्घिक, राजकीय, आर्थिक, सांस्कृतिक, विविधशास्त्रीयविषयाः बहवः सन्ति ।
वात्स्यायनकामसूत्रग्रन्थस्य विभागः एवमस्ति<br />
# साधारणाधिकरणम्----अस्मिन्नध्यायाः सूत्राणि च एवं सन्ति------- - १.शास्त्रसङ्ग्रहाध्यायः-----सूत्राणि--१ तः ८७ ।
# त्रिवर्गप्रतिपत्त्यध्यायः (सूत्राणि---८८ तः १३९),
पङ्क्तिः २६:
# पुरुषोपसृप्ताध्यायः-(सू-५५७ तः ५५८),
# औपरिष्टकाद्यध्यायः--(सू ५८९ तः ६२९),
# रतारम्भावसानिकाध्यायः-(सू ६३२ तः ६८५)<br />
ग्रन्थे ७२८ पृष्ठानि १७०० सूत्राणि, विषयास्तु प्रत्यध्याये बहवस्सन्ति ।
 
[[वर्गः:संस्कृतग्रन्थाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/कामसूत्रम्" इत्यस्माद् प्रतिप्राप्तम्