"रागीपानीयम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः २:
 
एतत् रागीपानीयं [[भारतम्|भारते]] अपि पीयमानं किञ्चित् पेयम् अस्ति । एतत् रागीपानीयम् कदाचित् उष्णं, कदाचित् शीतलं पीयते । एतत् रागीपानीयम् अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । [[रागीधान्यम्|रागीधान्यं]] स्वच्छीकृत्य [[रागीपिष्टम्|रागीपिष्टं]] निर्मीयते । ततः तेन पिष्टेन रागीपानीयं निर्मीयते । रागीपानीयं [[काफीपेयम्|काफीपेयस्य]], [[चायम्|चायस्य]] स्थाने अपि पीयते । आरोग्यार्थम् अपि रागीपानीयं काफीपेयस्य चायस्य वा अपेक्षया उत्तमम् । रागीपानीयस्य निर्माणम् अपि अतीव सुलभम् । रागीपिष्टं [[दुग्धम्|दुग्धं]], [[जलम्|जलं]], [[गुडः|गुडं]], [[शर्करा|शर्करां]] वा योजयित्वा सम्यक् क्वथनीयं तावदेव । अनन्तरं पातुं शक्यते । कुत्रचित् रागीधान्यं भर्जयित्वा अपि पिष्टं निर्मान्ति । शैत्यकाले, शैत्यप्रदेशे च एवम् उष्णं रागीपानीयं निर्मातुं शक्यते । घर्मकाले घर्मप्रदेशे च भर्जितस्य रागीधान्यस्य पिष्टं, गुडम्, [[एला|एलां]] च जले योजयित्वा पातुं शक्यते । एतत् रागीपानीयम् अत्यन्तं लेखनम् अपि । उष्णजन्यानां रोगाणां निवारणार्थम् अत्युत्तमम् औषधम् अपि ।
 
 
[[वर्गः:पेयानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/रागीपानीयम्" इत्यस्माद् प्रतिप्राप्तम्