"अयोध्याकाण्डम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
==अयोध्याकाण्डस्य कथा==
[[रामः|राम]][[सीता|सीतयोः]] विवाहोत्सवस्य अनन्तरं द्वादशवर्षाणि अतीतानि । [[दशरथः]] रामस्य पट्टाभिषेकं कर्तुम् इष्टवान् । तन्निमित्तं सभासदः प्रजाश्च आनन्देन सम्मतिम् असूचयन् । किन्तु दुष्टसेविकया मन्थरया दुष्प्रेरिता सती [[कैकेयी]] दशरथम् उद्दिश्य बहु पूर्वम् अङ्गीकृतं वरद्वयं प्रदातुं प्रार्थितवती । रामः चतुर्दशवर्षाणि यावत् अरण्यवासं कुर्यात् [[भरतः|भरत]]स्य पट्टाभिषेकः कर्तव्यः इति आसीत् तस्याः अपेक्षाः । एतस्य श्रवणेन नितरां खिन्नः दशरथः दत्तं वचनमपि निराकर्तुं न अशक्नोत् । <br />
रामः पितृवाक्यपरिपालनाय शान्तभावेन स्वसहज-आत्मनिग्रहेण च सिद्धः जातः । तेन सह गमनाय पत्नी सीता अनुजः [[लक्ष्मण|लक्ष्मण]]श्च सज्जौ जातौ । रामस्य विरहं सोढुम् अशक्नुवन् दशरथः अचिरादेव इहलोकम् अत्यजत् । अत्रान्तरे मातुलगृहं गतवता भरतेन अयोध्यायां प्रवृत्तं सर्वम् अवगता भवति । भरतः मातुः दुराग्रहं कटुवचनैः खण्डयन् रामस्य दर्शनाय वनं प्रति गमिष्यति । रामस्य चरणौ गृहीत्वा प्रत्यागत्य राज्यभारः क्रियताम् इति बहुधा प्रार्थयति । किन्तु पितृवाक्यपरिपालने बद्धादरः रामः वनवासस्य स्माप्तिपर्यन्तं न प्रत्यागमिष्यामि इति अवदत् । भरतः रामस्य पादुके एव स्वीकृत्य प्रतिगच्छति । रामस्य प्रतिनिधिरूपेण तस्य पादुकयोः एव राज्याभिषेकं कारयति ।
==अयोध्याकाण्डस्य केचन नीतिश्लोकाः==
<poem>
पङ्क्तिः २४:
Pls. see details here - http://sa.wikisource.org/wiki/रामायणम्/अयोध्याकाण्डम्
{{रामायणम्}}
 
[[वर्गः:रामायणस्य काण्डानि]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/अयोध्याकाण्डम्" इत्यस्माद् प्रतिप्राप्तम्