"भक्तिः" इत्यस्य संस्करणे भेदः

भाषानुबन्धः योजनीयः using AWB
पङ्क्तिः २९:
:::'''सन्मार्गानपवर्गसाधनविधौ सद्वारकाद्वारकान् ।
:::'''एकद्वयाकृतियोगस्म्भृतपृथग्भावानुभावानिमान्
:::'''सम्यक् प्रेक्ष्य शरण्यसारथिगिरामन्ते रमन्ते बुधाः ॥ (र.त्र. सा.)

(कर्मयोगज्ञानयोगयोः अपवर्गोपायभूतयोः परम्परयैव साधनत्वमित्येकस्यैवाकारस्य योगः सम्बन्धः, भक्तियोगस्य तु साक्षादेव मोक्षाङ्गत्वमेवं प्रपत्तेरपीति उभयोरपि पृथक् स्वातन्त्र्येण मुक्तिहेतुत्वमिति पादत्रयकारिकार्थः ।)
पङ्क्तिः ४३:
एवं भक्तिप्रपत्ती स्वातन्त्र्येण मुक्तिहेतू । तत्र कर्मयोगज्ञानयोगौ पुनर्भक्त्यङ्गौ । भक्तियोगो नाम- यमनियमाद्यष्टङ्गविशिष्ट अविच्छिन्नस्मृतिसन्तान एव साधनसप्तकजन्य इत्युक्तम् । तदुक्तम्- ‘भक्तियोगो नाम यम- नियम- आसन-प्राणायाम-प्रत्याहार-ध्यान-धारणा-समाधिरुपाष्टाङ्गवान् तैलधारावदविच्छिन्नस्मृतिसन्तानरुपः । स च विवेक –विमोक – अभ्यास क्रिया-कल्याण-अनवसाद् –अनुध्दर्षरुपसाधनसप्तकजन्यः’ इति (य.म.दी. पृ. २८ )
तत्र
#विवेकः – अदुष्टान्नात् कायशुध्दिः

#विमोकः – कामानभिष्वङ्गः

#अभ्यासः – पुनः पुनरालम्बनसंशीलनम्

#क्रिया –पञ्चमहायज्ञानुष्ठानम्

#कल्याणम् –सत्यार्जवदयाऽहिंसादिरुपम्

#अनवसादः – दैन्याभावः

#अनुध्दर्षः – तुष्ट्यभावः

एवमनेन भक्तियोगेन भगवान् लभ्यते ।

==प्रपत्तेः असाधारण्वैशिष्ट्यम्==
प्रपत्तिर्नाम शरणागतिः न्यास इत्यनर्थान्तरम् । सेयं शरणागतिः षडङ्गयुता इत्युक्तमहिर्गुध्नसंहितायाम्-
#आनुकूल्यस्य सङ्कल्पः

#प्रातिकूल्यस्य वर्जनम्

#रक्षिष्यतीति विश्वासः

#गोप्तृत्ववरणं तथा ।

#आत्मनिक्षेप

#कार्पण्ये षड्विधा शरणागतिः ॥ ( अ. स. ३७. २८-२९) इति ।

पङ्क्तिः ९६:
४.आर्तानां तु मतो न्यासः प्रारब्धस्यापि नाशकः ।

विद्वद्भिः सम्मतो न्यासेऽधिकारः सकलात्मनाम् ॥ इति ॥ (सि. सा.)

एवं च भक्तिमार्गात् अष्टाङ्गपरिनिष्ठि तयोगसाध्यात् प्रपत्तिमार्ग एव श्रेयस्करः ।

==विमर्शः ==
#शरणागतिरुपप्रपत्तेः भक्त्यङ्गत्वमेवाभ्युपेयम् । न स्वातन्त्र्येण मोक्षसाधनत्वम् । ‘शरणमहं प्रपद्ये’ इत्यादिवाक्यानां ज्ञानादपवर्गप्रतिपादकवाक्यानामिव ज्ञान-शरणागतिसाध्यमक्त्या मुक्तिरित्येवार्थः ।

#‘सर्वधर्मान् परित्यज्य’ ‘दैवी ह्येषा गुणमयी’ इत्यादौ रामानुजैः प्रपत्तेः भक्त्यङ्गत्वमेवोक्तं भाष्ये, न तु स्वातन्त्र्येण मोक्षसाधनत्वम् ।

#मोक्षे आनन्दतारतम्याभावात् ‘अर्के चेदिति’ न्यायेन प्रपत्त्या मोक्षो सम्भवति कुतो वा भक्तिमार्गानुसरणम् ।

#ऋष्याद्युत्तमानां सत्य-शम-दम-दान-धर्म –प्रजनन- अग्निहोत्रयज्ञाद्यष्टाङ्गसम्पन्नानामेव भक्तावधिकारः । अन्येषां प्रपत्ताविति तु प्रमाणविरुध्दम् । भक्तावधिकारः सर्वेषामस्ति, उक्तं च भगवते- ‘आभीकङ्कायवनाः शकादयः’ ‘भक्त्या तुतोष भगवान् ननु यूथपाय’ ‘नालं द्विजत्वं देवत्वं ऋषित्वं वासुरात्मजाः । प्रीणनाय मुकुन्दस्य…. । प्रीयतेऽमलया भक्त्या हरिरन्यद् विडम्बनमिति’ इति प्रह्लादोक्तेश्च भक्तौ न सर्वेऽधिकारिण इति शास्त्रविरुध्दं वचः ।

#प्रपत्तेः प्रारब्धनाशकत्वं बहुप्रमाणविरुध्दम् ‘अनारब्धे एव तु पूर्वे तदवधेः (४. १.१५) इति सूत्रे अनारब्धकार्ये एव पूर्वे पुण्यपापे नश्यत इति प्रतिपादितत्वात् । उक्तं च नारायणतन्त्रे –‘यदनारब्धपापं स्यात् तद्विनश्यति निश्चयात् । तस्याप्यारब्धकार्यस्य न विनाशोऽस्ति कुत्रचित् ॥’ तस्य तावदेव चिरम्’ इति श्रुतिरपि एतमेवार्थमवबोधयति ।

पङ्क्तिः १११:
:::'''स्नेहो भक्तिरिति प्रोक्तः तया मुक्तिर्न चान्यथा ॥’ इति '''।भ(म.ता.नि. १.८५.पृ.८)

अस्याः कारिकाया आशयविशेष आविष्कृतः श्रीमट्टीकाकृत्पादैः –

‘परमेश्वरे भक्तिर्नाम अनवधिकानन्तकल्याणागुणत्वज्ञानपूर्वकः स्वात्मात्मीयसमस्तवस्तुभ्यः अनेकगुणाधिकः अन्तरायसहस्रेणाप्यप्रतिबध्दः निरन्तरप्रेमप्रवाहः । (न्या. सु.पृ. २४४) इति ।
पङ्क्तिः १३४:

क्षीरादौ स्वादुत्वादितद्गुणकीर्तनेनैव स्नेहोत्पत्तिदर्शनात् स्नेहरुपभक्तेः प्रकारान्तरेणोत्पादयितुमशक्यत्वात् भक्त्यर्थं भगवन्महिमोच्यते इति ।’ (त.प्र.गु.दी. ३२. १- पृ. १३०)
उक्तोऽयमर्थः श्रीमद्भागवतेऽपि –

१.श्रुण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः

पङ्क्तिः १४७:
वैराग्यसारं प्रतिलभ्य बोधं यथाऽञ्जसा त्वापुरकुण्ठ धिष्ण्यम् ॥( भाग. ३.६.२४)

४.मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।

मनोगतिरविच्छि न्ना यथा गङ्गाम्भसोऽम्बुधौ ॥(भाग. ३. २६. ११)

==भक्तिर्नवविधद्वेषरहिता ==
पङ्क्तिः १८८:

[[वर्गः:पूजाविधयः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/भक्तिः" इत्यस्माद् प्रतिप्राप्तम्