"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

formate
भाषानुबन्धः योजनीयः using AWB
पङ्क्तिः २४:
उत्तरभारते [[झान्सी|झान्सीपट्ट्णस्य]] समीपे मालवा इति प्रदेशः अस्ति । मालवीयस्य पूर्वजाः तत्र आसन् । नाम्नः अन्ते निवासप्रदेशस्य योजनम् एकः सम्प्रदायः । मालवीयस्य पितामहः प्रेमधरः उत्तमां ख्यातिम् अर्जितवान् आसीत् ।
 
१८५७ तमे वर्षे आङ्ग्लेयान् एतस्मात् देशात् प्रेषयितुं [[झांसी लक्ष्मीबाई|झान्सीराज्ञी लक्ष्मीबाई]],[[नाना साहेब्|नानासाहेबः]], [[तात्याटोपे|तात्याटोपे]] इत्यादयः वीराः अत्यन्तं साहसं प्रदर्श्य युद्धं कृतवन्तः । तेषां प्रयत्नाः सफलाः न जाताः । भारतदेशः आङ्ग्लसाम्राज्यस्य कश्चन भागः अभवत् । तेन भारतीयजीवने महान् परिणामः जातः । धनिनः, मध्यमवर्गीयाः जनाः आङ्ग्लेयान् अनुकुर्वन्ति स्म । वेषभाषासु, जीवनविधाने च एते परिणामाः स्पष्टं दृष्टाः ।
 
[[आङ्ग्लभाषा|आङ्ग्लभाषाभाषणम्]], आङ्ग्लेयवस्त्रधारणं, तत्पद्धतीनाम् अनुसरणम् अत्यन्तं गौरवास्पदमिति भावयन्तः आसन् जनाः । किन्तु स्वीयपूर्वजानां सम्प्रदायानां, सिद्धान्तानां विषये मालवीयानाम् अत्यन्तगौरवभावना, विश्वासश्च आसीत् । देशे उच्चलतां पाश्चात्यसमुत्तुङ्गतरङ्गाणाम् अभिमुखं गच्छन्तः आसन् ते ।
पङ्क्तिः ७१:
सामाजिकजीवने असाधारणभारेण पीडितोऽपि १८९२तमे संवत्सरे [[इलाहाबाद|अलहाबादस्य]] उन्नतन्यायालये न्यायवादिरूपेण स्थानं प्राप्तवान् मदनमोहनः । अल्पसमये एव सः उत्त्मन्यायवादी इति ख्यातिम् अपि अर्जितवान् । उत्तेजकराणि भाषणानि, अत्यन्तसाधारणाः, सरलाः, विश्लेषणात्मकाः च तस्य वादाः न्यायालये सभासु समावेशेषु च बहून् प्रभावितान् अकुर्वन् । अत्यल्पकाले एव प्रजासु विशिष्टं स्थानं प्राप्तवान् मदनमोहनः । असामान्या मेधासम्पद्, अनर्गला वाक्, सहनशीलता, श्रमं कर्तुं सामर्थ्यं च तं जन्मतः एव प्राप्ताः गुणाः । न्यायवादिरूपेण अधिकं धनार्जनं कृतवान् । स्वजीवने न कदापि अपराधिनाम् अभियोगान् स स्वीकृतवान् । निर्धनानाम्, असहायकानां कृते एव स्वीयं समयं रक्षति स्म सः ।
 
भारतीयस्वातन्त्र्यसङ्ग्रामोद्यमे [[मोहनदास करमचन्द गान्धी|महात्मागान्धिः]],[[नेताजी सुभाषचन्द्र बोस|सुभाषचन्द्रबोसः]] इत्यादयः इव मान्यः जातः मदन्मोहनमालवीयः । गान्धिमहोदयः यथा राष्ट्रपिता, तथा मालवीयः राष्ट्रस्य अध्यापकः इति गण्यते स्म । मालवीयः इति वंशनाम्नैव तं सम्मानयन्ति स्म जनाः । १८५७ तमे वर्षे भारतसर्वकारेण कोलकत्ता, [[मुम्बई|मुम्बई]], चेत्रै नगरेषु विश्वविद्यालयाः स्थापिताः । एते सर्वे आङ्ग्लविश्वविद्यालयसमाः एवेति घोषिताः ।
 
==विश्वविद्यालयस्वप्नः==
पङ्क्तिः ७८:
 
गौरवाध्यक्षस्थानमलङ्कर्तुं गोपालकृष्णगोखले महोदयम् आहूतवन्तः । मालवीयः एतस्मिन् अवसरे काङ्ग्रेस्-पक्षस्य ज्येष्ठैः नायकैः सह अमिलत् । हिन्दूविश्वविद्यालयस्य स्थापनविषये स्वीयां तीव्राम् इच्छां प्रकटितवान् । तस्य आशयं श्रुत्वा सर्वे तम् अभिनन्दितवन्तः । काङ्ग्रेस्-पक्षस्य प्रमुखः सुरेन्द्रनाथबेनर्जीमहोदयः उत्तमानाम् अध्यापकानां प्राप्तिपर्यन्तं विश्वविद्यालये आङ्ग्लप्राचार्यरूपेण विना वेतनं कार्यं करोमि इति वचनं दत्तवान् ।
[[काशी|काशी]]हिन्दुविश्वविद्यालयस्य कृते स्थानं प्राप्तुं मालवीयः महान्तं प्रयत्नं कृतवान् । यत् स्थलं विश्वविद्यालयस्य कृते उपयुक्तम्आसीत्, तत् स्थलं काशीमहाराजस्य आसीत् । काशीराजः मालवीयम् अवदत्, 'हे भूदेव ! यावत् धनम् आवश्यकं, तावद् दातुं शक्नोमि । किन्तु तत् स्थलं तु मा याच्यताम् । तेन स्थलेन सह मम अनुबन्धः अस्ति’ इति । ततः भगवतः दयया [[मकरसङ्क्रान्तिः|मकरसङ्क्रान्तेः]] पर्वदिने मालवीयः उपायनरूपेण तदेव स्थलं राज्ञः सकाशात् सम्पादितवान् ।
 
आर्थिकसमस्या उद्भूता । धनसंग्रहणाय समग्रे देशे पर्यटनं करणीयमिति चिन्तितवान् । प्रत्यहं कथञ्चित् कोशः पूर्णः भवति स्म । अस्मिन्नेव सन्दर्भे सः भाग्यनगरम् (हैदराबाद्) आगतवान् । तस्मिन् काले निजामपदवाच्यः शासकः तं प्रदेशं पालयति स्म । हिन्दुविश्वविद्यालयाय धनं दातुं तस्य महम्मदीयमनः नाङ्ग्यकरोत् । तं विषयमेव मालवीयं स्पष्टं सूचितवान् सः । रिक्तहस्तः सन् ततः निर्गन्तुं मालवीयः सुतरां नेच्छति स्म ।
पङ्क्तिः ८८:
==काशीहिन्दुविश्वविद्यालयः==
 
१९१६ फेब्रवरीमासस्य चतुर्थदिनांकः शुभप्रदा वसन्तपञ्चमीतिथिः । वाराणस्यां सर्वत्र उत्सववातावरणं दृश्यते स्म । [[भागीरथी|गङ्गानद्याः]] तीरे तदानीन्तनः वैसराय्-गवर्नर्-जनरल् हरटिञ्च महाशयः हिन्दुविश्चविद्यालयस्य शिलास्थापनम् अकरोत् । बहवः प्रमुखाः राष्ट्रनायकाः, विविधमतनेतारः च तस्मिन् महोत्सवे भागं गृहीतवन्तः । तस्मिन् कार्यक्रमे भाषमाणः मालवीयः [[वेदः|वेदाः]],[[उपनिषदः|उपनिषदः]],
[[भगवद्गीता|भगवद्गीता]],[[महाभारतम्|महाभारतं]],[[रामायणम्|रामायणम्]] इत्यादीनां पवित्रग्रन्थानां पठनस्य आवश्यकता, भारतीयसंस्कृतेः, संस्कृतभाषायाश्च श्रेष्ठता इत्यादिषु विषयेषु अबोधयत् । तेषां साधनायै एव अयं विश्वविद्यालयः संस्थापितः इति अवदत् । सः एव तस्य जीवनश्वासः जातः ।
 
"स्वदेशीयाः निर्धनाः न भवेयुः इत्येतदर्थं प्रयत्नः सर्वेणाऽपि कर्तव्यः । कृषिक्षेत्रमात्रे अभिवृद्धिः सर्वतोमुखाभिवृद्धिः न भवति । आर्थिकाभिवृद्धेः अपेक्षया व्यक्तिविकासः शीलनिर्माणं च अत्यन्तं प्रमु्खम् । सर्वोऽपि देशजनः स्वीयधर्मं रक्षेत् । युवानः हिन्दुधर्मस्य रक्षकाः भवेयुः । ते यदि तम् अंशं विस्मरेयुः तर्हि संस्कारहीनाः भवेयुः । प्राप्ता विद्या व्यर्था भवेत् । धर्मग्लानिः स्म्भवेत् । धर्मस्य ज्ञानार्थं विशालं लक्ष्यम् आवश्यकम् । हिन्दुधर्मं ये सम्यक् जानन्ति तेषां सः धर्मः जीवनमार्गदर्शकः दीपः इव भवति । अद्यतनयुवजनाः अस्माकं संस्कृतिं सम्यग् अवगच्छेयुः" एवम् आसीत् मालवीयस्य विचारसरणिः । हिन्दुधर्मेण प्राप्तानाम् जीवनमौलिकांशानां संरक्षणं, तदर्थं योग्यायाः विद्यायाः बोधनमिति लक्ष्यं स्वीकृतं काशीहिन्दुविश्वविद्यालयेन । 'यूनां कृते विशाललक्ष्यप्रदः हिन्दुविद्यासुगन्धः दातव्यः । तेन सह अन्यधर्माणाम् अवगमनस्य आवश्यकता अपि बोधनीया’ इत्येतस्य मदनमोहनमालवीयस्य सदाशयस्य साकारितरूपम् एव 'काशीहिन्दुविश्वविद्यालयः’ इति चेत्, अतिशयोक्तिः न ।
पङ्क्तिः ९५:
==आदर्शपुरुषः==
 
वैविध्यरूपेण मातृभूमेः सेवां कृतवान् मालवीयः । विद्याविषये कृता सेवा तु तदीया अतुला शाश्वतकीर्तिप्रदा जाता । पत्रिकाविषये तेन कृता सेवा अपि अविस्मरणीया । 'पत्रिकायाः सम्पादकत्वस्य निर्वहणे अन्येषां हस्तक्षेपम् अत्यल्पप्रमाणेन अपि न सहे, तत्र मम सम्पूर्णं स्वातन्त्र्यम् आवश्यकम्’ इत्युक्तवान् आसीत् मालवीयः । एतं नियमम् अङ्गीकृत्यैव राजा रामपालसिंहः तस्मै पत्रिकायाः स्वामित्वं समर्पितवान् । तेषु दिनेषु पण्डितप्रतापनारायणः, श्रीबालमुकुन्दगुप्तश्च पत्रिकाप्रकाशने असाधारणौ पुरुषौ । ताभ्यां द्वाभ्यां सह अविभाज्यम् अनुबन्धं रक्षितवान् मालवीयः । अनेकासां लघुपत्रिकाणां कृते एतस्य सहकारः आसीत् । देहलीतः मुद्राप्यमाणायाः 'कोपाल’साप्ताहिकपत्रिकायाः प्रकाशने एतस्य साहाय्यम् आसीत् । बाबू [[पुरुषोत्तमदास टण्डन|पुरुषोत्तमदासटाण्डन्]]-महोदयेन चाल्यमानायाः 'अभ्युदय' पत्रिकायाः प्रकाशने च सम्पूर्णसहकारं यच्छति स्म मालवीयः ।
 
विश्वपत्रिकाप्रकाशकेषु पत्रिकाकाररूपेण अत्यधिकां ख्यातिं प्राप्तवान् मालवीयः । स्वीयं पत्रिकाप्रकाशनकौशलं देशाय समर्पितवान् च ।
पङ्क्तिः ११३:
 
मालवीयः यद्यपि प्राचीनसम्प्रदायानुसारी तथापि क्रान्तिकारीमनोभाववान् अपि आसीत् । १९१९ तमे वर्षे एप्रिलमासस्य त्रयोदशदिनाङ्के
[[अमृतसर|अमृतसरनगरस्थे]] [[जलियन्-वालाबाग्|जलियन्-वालाबाग्]] स्थाने अत्यन्तं विषादकरी घटना प्रवृत्ता । सभायां भागिनः निस्सहायाः श्रोतारः विदेशीयानां गोलकास्त्रैः निहताः । स्त्रियः पुरुषाः बालाः वृद्धाः इति भेदं विना क्षयं गताः शतशः । एतस्य प्रधानकारणम् आसीत्
[[जनरल् डय्यरः|जनरल् डय्यरः]] । भारतजनता चकिता जाता । सर्वकारीयप्रतिनिधयः सिमलायां समाविष्टाः । समावेशे श्रीमालवीयः अत्यन्तम् उद्वेगभरस्वरेण षड्घण्टां यावत् नरवधमधिकृत्य भाषितवान् । प्रेरणायुतायाः तस्य भाषणस्य कारणतः समाविष्टाः आङ्ग्लेयाः अपि प्रभाविताः ।
१९४७तमे वर्षे भारतदेशः स्वतन्त्रतां प्राप्तवान् । स्वतन्त्रतायाः एकवर्षात् पूर्वम् अतिविषादकर्यः घटनाः अभवन् । भारतीयजनतया कदापि न विस्मरणीयाः घटनाः ताः । तासां स्थानमासीत् वङ्गप्रदेशः । अत्यधिकसङ्खायां हिन्दवः पीडिताः । [[नवकाली|नवकालीपट्ट्णे]] दीनमारणम् अभवत् । निस्सहायाः जनाः बहूनि कष्टानि अनुभूतवन्तः । सर्वकारः तूष्णीं पश्यन् आसीत् ।
 
घटनाः ज्ञात्वा मालवीयः स्थाणुः अभवत् । महम्मदीयमते परिवर्तितानां हिन्दूनां पुनः स्वधर्मे आनयनाय 'रामनाम-पवित्रगङ्गाजलं च पर्याप्तम्’ इति हिन्दून् प्रति उक्तवान् सः । हिन्दून् सर्वान् एकसूत्रे संयोक्तुं महान्तम् अविरतं च प्रयत्नं कृतवान् सः । हिन्दु- महम्म्दीयसख्यस्य कृते अपि अधिकं प्रयत्नं कृतवान् । 'हरिजनोद्धरणेनैव हिन्दुदेशः अभिवृद्धिं प्राप्नोति’ इति वदन् आसीत् श्रीमालवीयः । [[दलित|दलित]]सहोदराणां, निर्धनानां महिलानाम्, अक्षरज्ञानशून्यानां जनानाम् च सेवां कुर्वन् आसीत् सः । सर्वथा भारतदेशः पुरोगामी भवेदिति मालवीयस्य काङ्क्षा आसीत् ।
 
==अन्तिमयात्रा==
पङ्क्तिः १४४:
[[वर्गः:भारतीयन्यायवादिनः]]
[[वर्गः:हिन्दीपत्रिकासम्पादकाः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्