"कन्दुकक्रीडा" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
{{Merge from|कन्दुकक्रीडा}}
विश्वस्मिन् सर्वासु क्रीडासु ‘कन्दुकक्रीडा’ परमेणानुरागेण क्रीडयते । अस्माकं प्राचीने साहित्येऽपि कन्दुकक्रीडनस्यैव वर्णनं भूयोभूय आगच्छति । संस्क्तृतकाव्येषु नाटकेषु मुक्तकेषु च कन्दुकाश्रयेण बहुविधं वर्णनं प्राप्यते । प्राचीनकाले कन्दुकं प्रति नारीणां नृणां बालानां बालिकानां च रुचिरतीवाधिकाऽवर्तत । स्त्रियोऽन्तःपुरे तथा पुरुषा बालाश्व गृहनिकटस्थे प्राङ्गणे क्रीडन्ति स्म । महर्षिणा व्यासेन पुराणेषु तथा कालिदासादिभिः कविवरैः काव्येषु नाटकेषु वर्णितेयं क्रीडा बहुविधा विद्यते अतोऽत्र पूर्वं वर्णितानां क्रीडातानामतिरिक्तमपि काश्चन क्रीडा दिङ्निर्देशभावनया प्रस्तूयन्ते । यथा -
:१- जालिका -कन्दुक-क्रीडा (नेट बाल)(Netball)
करण्डक -कन्दुक -क्रीडेव किञ्चित् साम्यं भजन्तीयं क्रीडा महिलाभ्यः प्रमुखरुपेण् प्रवृत्ताऽस्ति ।
:२-कोमल-कन्दुक -क्रीडा (सोफ्ट-बाल)(Softball)
चतुरस्रे क्रीडाङ्गणे महिला बालक -बालिकाश्च क्रीडामिमां रमन्ते ।
:३-कन्दुक-प्रक्षेप-क्रीडा (थ्रो-बाल)(Throwball)
मुख्यत्वेन महिला १८ (९*२) अष्टादशसंख्यया दलद्वयं विभज्य करकन्दुकवदेवेमां क्रीडामाचरन्ति ।
:४-कन्दुक-ताडनी (डौज-बाल)(Dodgeball) (प्रथमा)
अस्यां मण्डलं विधाय स्थितं दलमन्तः क्रीडकान कन्दुकेन साक्षात् ताडयित्वा क्रीडकं बहिर्गतं विधत्ते । इयं ‘कन्दुकताडनी (दडामार) इत्यपि निगद्यते ।
:५- कन्दुक-ताडनी (द्वितीया)
इयं टेनिस्-कन्दुकेन क्रीडत्सु क्रीडकेषु यं कमपि यः कोऽपि क्रीडकः स्वहस्तागां कन्दुकं गृहित्वा क्रीडनेन सम्पद्यते । एवमेवान्या अपि काश्चन क्रीडाः प्रादेशिकरुपेण प्रचलिताः स्युरिति तत्र न विवादः ।
::उत्पतन्तमथवा प्रपतन्तं, ताडयन्तमथ ताडनमाप्तम् ।
::कन्दुकं विविध्खेलनरीत्या, क्रीडयन्ति मनुजा मतिमन्तः ॥
==आधारः==
Line ३८ ⟶ २४:
[[वर्गः:कन्दुकक्रीडाः]]
[[वर्गः:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
|