"अखण्डार्थवादः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
श्रीमनन्यायसुधायां जन्माधिकरणे उभयलिङ्गाधिकरणे [[ब्रह्मा|ब्रह्मणः]] निर्विशेषत्वं निराकृत्य अनन्त गुणपूर्णत्वं [[विष्णुः|विष्णोः]] समर्थितम् । प्रकृते श्रीसुधां तत्वोद्योतटीकां च उपजीव्य ब्रह्मणः अखण्डार्थत्वं निराक्रियते । तत्र प्रथमतया अद्वैतविचारक्रमः[[अद्वैतवेदान्तः|अद्वैत]]विचारक्रमः प्रस्तूयते ।
[[वेदान्तः|वेदान्ते]] किल ब्रह्मस्वरुपनिरुपणावसरे द्वेधा वाक्यानि दृश्यन्ते । तत्र ‘अशब्दमस्पर्शमरुपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’ ‘केवलो निर्गुणश्च ’ (श्वे.६.११) ‘निष्कलं निष्क्रियं शान्तम्’ (श्वे.६.१९) ‘अस्थूलमनणु (बृ.३.१.१) ‘नेति नेति’ (बृ.२.३.६) इत्यादौ अरुपमगुणं निष्क्रियं ज्ञानादिरुपं चैतन्यमात्रं ब्रह्मेति प्रतिपादितं दृश्यते ।
एवं ‘यः सर्वज्ञः’ (आथर्व. १-९) ‘कविर्मनीषी परिभूः’ (ईश. १-८) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै.उ. २) ‘सत्यकामः सत्यसङ्कल्पः स विजिज्ञासितव्यः’ इत्यादौ जगज्जन्मादिकारणमनन्तकल्याणगुणपरिपूर्णं च ब्रह्मावगम्यते ।
पङ्क्तिः ११:
==अद्वैतनये सगुणनिर्गुणश्रुतिव्याख्याक्रमः==
'''अत्राहुरद्वैतवादिनः''' –द्विरुपं हि ब्रह्मावगम्यते, नामरुपविकारभेदोपाधिविशिष्टं तद्विपरीतं च सर्वोपाधिविवर्जितम् ’ । तत्र निरुपाधिके ब्रह्मण्येव श्रुतीनामैदम्पर्यम् [[वेदः|श्रुती]]नामैदम्पर्यम् । सगुणब्रह्मपराणि वचनानि तु न तत्त्वावेदकान्यथ च निर्गुणोपासनाऽशक्तानां मन्दाधिकारिणां मनोनिग्रहसाधन तयैवावेदितानि । उक्तं च कल्पतरौ –
:::'''निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।
पङ्क्तिः २१:
 
==अखण्डार्थत्वोपपादनक्रमः==
द्विविधा वेदान्तवाक्यप्रवृत्तिः । एका पदार्थपरा । अपरा तस्यात्मतादात्म्यरुपवाक्यार्थपरा । तत्र ‘सत्यं ज्ञानम्’ इत्यादि तु ‘तत्’ पदार्थपरम् ।‘योऽयं विज्ञानमय’[[विज्ञानम्|विज्ञान]]मय’ इति तु ‘त्वं’ पदार्थपरम् । अपरमैक्यरुपवाक्यार्थनिष्ठं यथा तत्त्वमसीत्यादि । द्वयमप्यखण्डार्थनिष्ठम् ।
तत्र पदार्थनिष्ठस्य वाक्यस्याखण्डार्थत्वे ‘सत्यादिवाक्यं अखण्डार्थनिष्ठं लक्षणवाक्यत्वात् प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवत् ’ इति , तथा ‘सत्यादिवाक्यं ब्रह्मप्रातिपदिकार्थमात्रनिष्ठं तन्मात्रप्रश्नोत्तरत्वात् वा’ इत्यनुमानं मानम् ।
 
'''अयमाशयः'''- ‘ब्रह्मविदाप्नोति परम्’ इति ब्रह्मज्ञानिनो तत्प्राप्तिरभिहिता । तत्र कीदृशलक्षणकं तद् ब्रह्मेति ब्रह्मस्वरुपमात्रजिज्ञासायां प्रवृत्तं ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति वचनम् । स्वरुपमात्रविषयकप्रश्ने सति ब्रह्म सत्यत्वादिगुणविशिष्टमिति विशिष्टविषयकोत्तरदाने ‘आम्रान् पृष्टः कोविदारानाचष्ट’ इति वदनुपादेयं स्यात् । ‘अस्मिन् ज्योतिर्मण्डले कश्चन्द्र’ इति चन्द्र स्वरुपाज्ञाननिवृत्तये प्रकृष्टप्रकाशश्चन्द्र इत्यनभिधाय ‘चन्द्र’ इत्येवोक्ते न चन्द्रस्वरुपप्रतिपत्तिः स्यात् । नाऽपि संशयविपर्ययनिवृत्तिः । अतः प्रकृष्टप्रकाशश्चन्द्र इत्युक्तम् । तेन च [[चन्द्रः|चन्द्रे]] प्रकृष्टप्रकाशादितादात्म्यबोधानन्तरम् अस्य वाक्यस्य नैतावन्मात्रे तात्पर्यम्, आप्तस्य मदजिज्ञासितबोधकत्वापत्तेः । किन्तु प्रकृष्टादिपदानां मज्जिज्ञासितस्वरुपमात्र एव तात्पर्यम् इति प्रतिसन्धानेन चन्द्रादिपदलक्षणया स्वरुपमात्रशाब्दबोधो जायते ।
न चैवं सति लक्षणवाक्येन स्वरुपमात्रस्य प्रतिपाद्यत्वे स्वरुपमात्रार्थकानां गगनाकाशादिपदानामिव प्रकृष्टादिपदानां पर्यायत्वं स्यादिति वाच्यम् । मुख्यया वृत्त्या प्रातिपदिकार्थमात्रनिष्ठत्व एव पर्यायत्वम्, न तु लक्षणादिनाऽपि तन्निष्ठत्वे । अर्थवादगतानां लक्षणयैक प्राशस्त्य निष्ठानामप्यपर्यायत्वदर्शनात् । न च मुख्यार्थेऽनुपपत्त्यभावात् लक्षणैव न सम्भवतीति वाच्यम् । तात्पर्यानुपपत्त्या तदुपपत्तेः ।
"https://sa.wikipedia.org/wiki/अखण्डार्थवादः" इत्यस्माद् प्रतिप्राप्तम्