"अन्नप्राशनसंस्कारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:AnnaPrashan (Anna Prashan) - Hindu First Rice Eating Ceremony.JPG|250px|thumb|right|अन्नप्राशनस्य चित्रम्]]
अन्नं प्राश्यते येन कर्मणा '''तदन्नप्राशनम्''' । षष्ठे मासि अथवा कुलधर्मत्वेन माङ्गल्यकालविशेषे मासेऽन्नप्राशनं करणीयमिति [[मनुस्मृतिः|मनुना]] प्रोक्तम् । 'षष्ठे मासेऽन्नप्राशनम्' इति पारशगृह्यसूत्रम् । घृतोदनं[[घृतम्|घृतो]]दनं तेजस्कामः दधिमधु[[दधि|दधि]][[मधु|मधु]] घृतमिश्रमन्नं प्राशयेत्' इति आश्वलायनगृह्यसूत्रम् । सामान्यतः दधिमधुघृतमिश्रितमन्नं शिशवेऽन्नप्राशनाय प्रदीयते । काठकगृह्यसूत्रानुसारेण शिशोः दन्तजननानन्तरमन्नप्राशनं [[दन्तः|दन्त]]जननानन्तरमन्नप्राशनं विधेयम् । तस्मिन् दिवसे सिध्दं सुमिष्टं चान्नमिष्टदेवेभ्यः उत्सर्गीकृत्य पिता पुत्रं मन्त्रपाठपूर्वकं[[मन्त्रः|मन्त्र]]पाठपूर्वकं भोजयेत् ।

== व्युत्पत्तिः ==
अन्नस्य प्राशनं भोजनं यस्मिन् तत्। अन्न + प्र + अश + भावे ल्युट्।

== अर्थाः ==
षष्ठे मासि अष्टमे वा बालकस्य पञ्चमे मासि सप्तमे वा बालिकायाः प्रथमान्नभक्षणरूपसंस्कारः।
'''अवलम्बः''' स्मृतिः॥

तस्य क्रमः। शोभनदिने कृतस्नानः कृतवृद्धिश्राद्धः पिता शुचिनामानमगि्न ंसंस्थाप्य
विरूपाक्षजपान्तां कुशण्डिकां समाप्य प्रकृतकर्मारम्भे प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ
हुत्वा महाव्याहृतिहोमं कुर्यात्। ततः आज्येन तत्तन्मन्त्र्ौ पञ्चाहुतीर्जुहुयात्। ततः पञ्चप्राणानां होमः।
ततो महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ हुत्वा प्रकृतं कर्म समाप्य
उदीच्यं शाट्यायन होमादिवामदेव्यगानान्तं कर्म निर्वर्त्य मन्त्र्ोण कुमारस्य मुखे अन्नं दद्यात्।
ततः कर्मकारयितृब्राह्मणायकर्मकारयितृ[[ब्राह्मणः|ब्राह्मणाय]] दक्षिणां दद्यात्।
'''अवलम्बः''' भवदेवभट्टः॥ तस्य विहितदिनादि यथा-

== उद्धरणम् ==
पङ्क्तिः १६:

===तत्प्रयोगः ===
पिता सपत्नीकः कृताभ्यंगस्नानः आचम्य देशकालौ स्मृत्वा ममास्य शिशोर्बींजगर्भसमुद्भवैनोविनाशद्वारा बलायुर्वर्चोभिवृद्ध्यर्थं अन्नप्राशनाख्यं कर्म करिष्ये । ( अत्रैव सह तंत्रेण निष्क्रमणोपवेशनकरणपक्षे पूर्वमुभयोः पूर्वोक्तसंकल्पौ कृत्वा ततोऽन्नप्राशनसंकल्पः ) तदंगतयादौ गणपतिपूजनं[[गणेशः|गणपति]]पूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य गणेशपूजनादिनांदीश्राद्धांतं कृत्वा पीठे प्रतिमासु पूगीफलेषु वा नाममंत्रैर्देवताः स्थापयेत् ।

यथा - इंद्राय नमः इंद्रमावाहयामि । ( एवमग्रेपि ) अग्नये न० यमाय न० निऋतये० वरुणाय न० वायवे० सोमाय० ईशानाय० आकाशाय० भूम्यै० चंद्राय० सूर्याय० वासुदेवाय० गगनाय० वराहाय० पृथिव्यै नमः पृथिवीमावाहयामि एवं संस्थाप्य तथैव तत्र - ब्रह्मणे न० शंकराय न० विष्णवे० कुलदेवतायै० प्राच्यै० अग्नेय्यै० दक्षिणायै० नैऋत्यै० प्रतीच्यै० वायव्यै० उदीच्यै० ईशान्यै न० । इत्यावाह्य इंद्राद्यावाहितदेवताभ्यो नमः इति षोडशोपचारैः संपूज्य पूर्वोक्तप्रकारेण शंखादिमंगलनिस्वनैः सूर्याद्यवलोकनादिप्रार्थनाश्लोकपठनांतं निष्क्रमणकर्म कृत्वा ततो देवताग्रे शिशूपवेशनकर्म प्रागुक्तप्रयोगप्रकारेण कृत्वा अन्नप्राशनं कुर्यात् । अत्र होमः कृताकृतः । होमपक्षे उपवेशनकर्म कृत्वा अद्येत्यादि० अस्य शिशोः अन्नप्राशनहोमं कर्तुं स्थंडिलादि करिष्ये इति संकल्प्य स्थंडिले शुचिनामानमग्निं प्रतिष्ठाप्यान्वादध्यात् । समिव्दृयमादाय देशकालौ स्मृत्वा क्रियमाणे अन्नप्राशनहोमे देवतापरिग्रहार्थमित्यादि चक्षुष्यंतमुक्त्वा अत्र प्रधानं - अग्निं इंद्रं प्रजापतिं विश्वेदेवान् ब्रह्माणं च एता देवता एकैकयाऽऽज्याहुत्या यक्ष्ये शेषेणेत्यादि होमं सामाप्यान्नं प्राशयेत् । तद्यथा - देवतापुरस्तस्य धात्र्युत्संगगतस्यालंकृतस्य शिशोः प्राड्मुखस्थं कांचने नवे कांस्यपात्रे वा दधिमधुघृतमिश्रमन्नं गृहीत्वा सुवर्णहस्तोऽन्नपात्रात् किंचिदादाय प्राशनं कारयेत् । तत्र मंत्रः - नमोस्त्वन्नपते तुभ्यमस्य बालस्य संततम् । तेजः पुष्टिं श्रियं चान्नं देह्यारोग्यायुषी बलम् ॥ इति मंत्रेण प्राशयित्वा तांबूलं दत्त्वा तदग्रे रत्नमणिभाजन - हेमभाजन - पुस्तक - शस्त्र - वस्त्र - शिल्पादीनि निधाय यब्दालः स्वेच्छया स्पृशेत्साऽस्य जीविकेति परीक्षेत् । ततो द्विजान्संपूज्य दक्षिणां दत्त्वाऽऽशिषो गृहीत्वा यथाशक्ति ब्राह्मणेभ्यः आमान्नानि दत्त्वा कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीत ॥
"https://sa.wikipedia.org/wiki/अन्नप्राशनसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्