"असम्प्रज्ञातसमाधिः" इत्यस्य संस्करणे भेदः

न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः using AWB
No edit summary
पङ्क्तिः १:
यस्यामवस्थायां सकलवृत्तीनां निरोधः भवति, तस्याः अवस्थायाः '''असम्प्रज्ञातसमाधिरित्युज्यते''' अस्यां दशायां न कापि वृत्तिः अवशेषत्वेन तिष्ठति । सम्प्रज्ञातासम्प्रज्ञातयोः अयं विशेषः यत् सम्प्रज्ञाते तावत् प्रकृति-पुरुषयोः भिन्नताख्यातिलक्षणात्मिका विशुद्धसत्वप्रधाना वृत्तिः तिष्ठति, तस्याः निरोधः न भवति । असम्प्रज्ञाते तु तस्याः वृत्तेरपि निरोधः उत्पद्यते । सुषुप्तिः -प्रलययोः योगलक्षणस्य[[योगः|योग]]लक्षणस्य अतिव्याप्तिनिवारणाय सम्प्रज्ञातसमाधौ अव्याप्तिदोषनिवारणाय असम्प्रज्ञातसमाधौ निरोध विशेषणत्वेन क्लेशादिपरिपन्थी इति पदं दत्तम् । क्लेशाः पञ्च प्रकाराः भणितं च पतञ्जलिना -" अविद्याऽस्मितारगद्वेषाभिनिवेशाः क्लेशाः" (यो० सू० २-३) इति । अविद्या, अस्मिता, राग द्वेषः, अभिनिवेशः इति ते भवन्ति पञ्च ।
 
[[वर्गः:योगदर्शनम्]]
"https://sa.wikipedia.org/wiki/असम्प्रज्ञातसमाधिः" इत्यस्माद् प्रतिप्राप्तम्