"बिजापुरम्" इत्यस्य संस्करणे भेदः

प्रथमशब्दः using AWB
पङ्क्तिः ६०:
'''बिजापुरं''' (Bijapur) [[कर्णाटक]]प्रान्ते [[बिजापुरमण्डलम्|बिजापुरमण्डले]] स्तिथं नगरं मण्डलकेन्द्रं च। विजयपुर इति एतस्य नगरस्य पुरातनं नाम ।
 
[[बिजापुरम्|'''बिजापुरं]]''' दक्खनप्रान्तस्य राजधानी आसीत् । दक्षिणभारते बिजापुरनगरे अनेकवर्षाणि यावत् आदिलशाहीवंशीयाः प्रशासनं कृतवन्तः । बिजापुरनगरस्य विजापुरम् इत्यपि अपरं नाम अस्ति। । एतत् नगरं कर्णाटके उत्तरभागे अस्ति (मुम्बयीतः ३०० मैलदूरे) । कर्नाटकस्य प्रमुखमण्डलेषु [[बिजापुरमण्डलम्]] अपि अन्यतमम् । १६ शतके आदिल् शाहिसाम्राज्यस्य राजधानी आसीत् । युसुफ आदिलशाहः बिजापुरप्रदेशं स्वतन्त्रराज्यत्वेन परिकल्पितवान् आसीत् । पूर्वं बिजापुरनगरम् एकः ग्रामः आसीत् । अनन्तरं केचन राजानः एतं ग्रामं नगररूपेण परिवर्तितवन्तः । केचन बिजापुरं तेषां राजधानीम् अकुर्वन् । एतत् नगरं कला- साहित्य- सङ्गीत- वास्तुशिल्पेषु च प्रसिद्धमस्ति । बिजापुरं क्रि.श ५४० तः शतकत्रयं यावत् बादामी[[चालुक्यवंशः|चालुक्य]]महाराजानां शासने आसीत् । अग्रे क्रि.श. १४८९ तः १६८६ पर्यन्तं सामन्यतः २००वर्षाणि यावत् आदिलशाहिवंशस्थाः अपालयन् । अस्मिन् मण्डले अनेकानि प्रेक्षणीयस्थानानि सन्ति ।
==[[गोल् गुम्बज़]]==
बिजापुरनगरस्थेषु भवनेषु गोलगुम्बज्भवनम् अन्ताराष्ट्रियां ख्यातिं प्राप्तवत् अस्ति । एतत् आदिलशाहस्य स्मारकम् अत्यन्तं विस्मयकरं प्रसिद्धं च अस्ति। १६५६ तमे वर्षे एतस्य निर्माणं समाप्तम् । गुम्बज़स्य अन्तर्भित्तिः सूक्ष्मस्य अपि शब्दस्य प्रतिध्वनिम् उत्पादयति । वयं भित्तिसमीपं गत्वा शनैः वदामः चेत सः ध्वनिः पुरतः विद्यमानायाः भित्तितः प्रतिध्वनिता भवति । तथैव बहुवारं प्रतिध्वनेः आवर्तनमपि श्रूयते । तस्मिन् काले अपि एतादृशं तन्त्रज्ञानं ज्ञातवन्तः तन्त्रज्ञाः आसन् इति आश्चर्यस्य विषयः । भारतस्य वास्तुशिल्पेतिहासे एतत् गोलगुम्बज़ महत्या कल्पनया निर्मितं चिरात् विन्यस्तं च । अतः एव एतत् विश्वस्य प्रमुखाद्भुतेषु अन्यतमम् इति प्रख्यातम् ।
"https://sa.wikipedia.org/wiki/बिजापुरम्" इत्यस्माद् प्रतिप्राप्तम्