"पश्चिमघट्टाः" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
पङ्क्तिः १६:
}}
 
'''पश्चिमघट्टाः''' भारतस्य पश्चिमभागे स्थिता पर्वतश्रेणी । अस्याः सह्यपर्वतम् इति अपरं नाम अस्ति । दक्षिणप्रस्थभूमौ पश्चिमदिग्भागे व्याप्तः पश्चिमघट्टप्रदेशः पीठभूमिम् अरब्बिसमुद्रस्य सूक्ष्मम् कोङ्कण प्रदेशात् पृथक करोति । महाराष्ट्र – गुजरातराज्ययोः सीमाप्रदेशे [[तपतीनदी|तपतीनद्याः]] दक्षिणे आरब्धा एषा श्रेणी दक्षिणाभिमुखं कन्याकुमारी पर्यन्तम् दृश्यते । आहत्य १६०० कि.मी यावत् व्याप्तः पश्चिमघट्टप्रदेशः [[महाराष्ट्रम्]], [[गोवा]], [[कर्णाटकम्]], [[केरळम्]], [[तमिळ्नाडु]] राज्येषु अन्तर्भवति । अर्धादधिकभागः कर्णाटकराज्ये अस्ति । पश्चिमघट्टप्रदेशः आहत्य ६०,००० च.कि.मी. प्रदेशे व्याप्तः, सङ्कीर्णनदीव्यवस्थायाः मूलं च अस्ति । अत्र सञ्जाताः नद्यः भारतस्य जलानयनप्रदेशस्य ४०% भागं प्रति जलव्यवस्थां कुर्वत्यः सन्ति । घट्टप्रदेशस्यास्य (माकिम्) सर्वसामान्यम् औनत्यम् १२०० मीटर् यावत् भवति । एषः प्रदेशः विश्वस्य अत्यन्तं सक्रियेषु जीववैविध्याश्रयेषु अन्यतमः।
 
[[चित्रम्:Indiahills.png|thumb|200px|भारतमानचित्रे पश्चिमपर्वतश्रेणी ॥]]
"https://sa.wikipedia.org/wiki/पश्चिमघट्टाः" इत्यस्माद् प्रतिप्राप्तम्