"क्षीरम्" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
(मार्जनम् using AWB)
 
[[चित्रम्:Milk.jpg|thumb|150px|right|गोक्षीरम्]]
 
एषः आहारपदार्थः प्रायः जगति सर्वत्र अस्ति एव । '''क्षीरम्''' इति अपि उच्यमानम् एतत् दुग्धम् आङ्लभाषायां Milk इति उच्यते । अयम् आहारपदार्थः न सस्यजन्यः, अपि तु प्राणिजन्यः आहारः । अन्ये प्राणिजन्याः आहाराः तामसे वा राजसिके वा आहारे अन्तर्भवन्ति । परन्तु दुग्धं न तथा । एतत् यद्यपि प्राणिजन्यं तथापि सात्त्विकः आहारः । न केवलं तावत् अपि तु '''दुग्धं भूलोकस्य अमृतम्''' इति उच्यते । '''परिपूर्णः आहारः''' इति उच्यते । शिशुतः वृद्धपर्यन्तं सर्वेषां पथ्यः आहारः अपि । यतः '''देहस्य सप्तानां धातूनाम् ओजः, गोक्षीरे विद्यमानाः गुणाः च समानाः''' । अतः एव दुग्धं जीवनीयेषु द्रव्येषु, रसानीयेषु द्रव्येषु अग्रगण्यम् अस्ति । देवपूजासु नैवेद्यरूपेण अपि उपयुज्यते दुग्धम् । [[पायसम्|पायसेषु]], [[पञ्चगव्यम्|पञ्चगव्ये]], [[पञ्चामृतम्|पञ्चामृते]] च दुग्धं योजयन्ति ।
===आयुर्वेदस्य अनुसारम् अस्य दुग्धस्य स्वभावः===
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/356812" इत्यस्माद् प्रतिप्राप्तम्