"नवरात्रम् (मैसूरु)" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
पङ्क्तिः १:
 
[[File:Sharada altar.jpg|thumb]]
भारतीयाः उत्सवप्रियाः । वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्व अपि प्रचलत्येव । तेषु नवरात्रोत्सवः अन्यतमः । अयमेव दसरामहोत्सवः इति मैसूरुनगरे महता वैभवेन अनुष्ठीयते । अयमुत्सवः जनोऽत्साहं नितरां प्रवर्धयति । निखिलं नगरं विद्युद्दीपेन अलङ्कृतम्‌ । जनाः मैसूरुमुखाः सन्दृश्यन्ते । सचिवाः अधिकारिणश्च इममुत्सवं यशस्विनं कर्तुं यतन्ते । महिषमण्डलं, महिषपुरं, महिषकं , महिष्वाद्रिः, महिषनाडु, मैसूनाडु, मैसूरुनाडु, महिसूरु इत्येताभिः संज्ञाभिः कालगर्भे तदा तदा प्रख्यातं नगरं सम्प्रति ‘मैसूरु’ इत्येतया संज्ञया प्रथिता । पूर्वं कर्णाटकराज्यं मैसूरुनाम्ना व्यवह्रियते स्म । सम्प्रति कर्णाटकराज्यस्य ‘सांस्कृतिकराजधानी’ इति प्रथां लभते ।
"https://sa.wikipedia.org/wiki/नवरात्रम्_(मैसूरु)" इत्यस्माद् प्रतिप्राप्तम्