"विश्वपरम्परास्थानानि" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
पङ्क्तिः १:
[[चित्रम्:Finland_road_sign_772b.svg|thumb|200px|युनेस्कोविश्वपरम्परालाञ्छनम्]]
 
[[युनेस्कोसंस्था]] [[विश्वसंस्था]]याः सांस्कृतिकाङ्गम्। युनेस्को संस्था अन्ताराष्ट्रियस्तरे शैक्षणिकक्षेत्रे, सामाजिकक्षेत्रे, सांस्कृतिकक्षेत्रे, आर्थिकक्षेत्रे च कार्यं करोति । विश्वस्य कानिचन विशिष्टस्थानानि '''विश्वपरम्परास्थानानि''' इति अनेन उद्घुष्यन्ते । तानि अरण्यानि, पर्वताः, सरांसि, मरुस्थलानि, भवनानि, स्मारकानि, भवनसङ्कीर्णानि, नगरानि वा भवन्ति । एतानि अपूर्वस्थानानि संरक्षितस्थानानि सन्तु इति धिया युनेस्कोतानि स्थानानि विश्वपरम्परास्थानावल्यां प्रवेशयति । तादृशस्थानानां संरक्षणं कृत्वा अग्रिमवंशश्रेणिपर्यन्तं तस्य प्रापणार्थं प्रयतते एषा संस्था । २१राष्ट्रानां सदस्याः अस्यां संस्थायां भवन्ति । विश्वपरम्परास्थाननिश्चयस्य अपि काचन समितिः भवति । अस्याः समितेः सदस्यत्वम् अवधिनिश्चितं भवति । अतः सदस्यराष्ट्रानि परिवर्तितानि भवन्ति । समग्रविश्वस्य सांस्कृतिकस्य प्राकृतिकस्य च स्थानानानि अभिज्ञाय आवलिं कृत्वा तेषां संरक्षणम् अस्याः संस्थायाः उद्देशेषु अन्यतमः । कदाचित् एतादृशस्थानानां संरक्षणार्थं संस्था धनानुदानं करोति । क्रि.श. १९७२तमवर्षस्य नवेम्बर् १६तमे दिने आगता योजना विश्वस्य १८४ राष्ट्रैः अनुमोदिता । एतवति काले विश्वस्य ८५१स्थानानि अस्याम् आवल्यां विनिवेशितानि सुरक्षितानि च । तेषु ६६०स्थानानि सांस्कृतिकस्थलानि, १६६प्राकृतिकस्थलानि, २५स्थलानि उभयत्र समाविष्टानि सन्ति । एतानि ८५१स्थानानि विश्वस्य १४२राष्ट्रेषु सन्ति । विश्वपरम्परास्थानानि तत्तद्राष्ट्रस्य सम्पत्तिः चेदपि अग्रिमवंशश्रेणिं सङ्कान्तिः समस्तप्रपञ्चस्य एव ।
 
==आरम्भिककार्यक्रमाः==
"https://sa.wikipedia.org/wiki/विश्वपरम्परास्थानानि" इत्यस्माद् प्रतिप्राप्तम्