"द्युतिशक्तिः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
द्युतिः अथवा [[
द्युतिशक्तेः चलनं किरणरूपेण (सरलरेखाप्रसरणं) तरङ्गरूपेण च विविधेषु स्तरेषु दर्शिता वर्तते । यत्र द्युतेः गुणः किरणरूपेण अङ्गीकृतः सः विभागः ज्यामितीयद्युतिशास्त्रमिति (geometrical optics) कथ्यते । यत्र तरङ्गरूपम् अङ्गीकृतं सः विभागः भवति '''भौतिकद्युतिशास्त्रम् । प्रकाशस्य केचन गुणाः प्रथमविधानेन, अन्ये द्वितीयेन वर्णिताः भवन्ति यतः द्युतिशक्तिः गुणद्वयमपि प्रकाशयति ।
==प्रकाशस्य गुणाः ==
===
यदा वयं दर्पणस्य पुरतः तिष्ठामः, तदा अस्माकं प्रतिबिम्बम् पश्यामः । एष द्युतेः प्रतिफलनस्य परिणामः । (प्रथमचित्रम्) ’उऊ’ इति दर्पणम् । ’अ आ’ इति दिशायां प्रतिनिवर्तते । किरणयोः गमनागमनदिशौ बाणाङ्कनेन (arrow mark) सूचितौ । एवं किरणानां प्रत्यागमनं प्रतिफलनमिति कथ्यते । प्रतिफलनबिन्दुना एका लम्बरेखा {perpendicular line) निर्मिता । अनेन सह पतनकिरणः ’प’ इति पतनकोणं निर्मान्ति। ’प्र’ इति तथैव प्रतिफलनकोणं भवति । प्रतिफलननियमानुसारेण एते कोणे समाने भवतः ।
====समतलदर्पणे प्रतिबिम्बम्====
पङ्क्तिः २५:
(६ चित्रम्) द्युतेः एषः गुणः तु वक्रीभवन-प्रतिफलनयोः मेलनस्य परिणामः । यदा किरणः सान्द्रमाध्यमेन अल्पसान्द्रमाध्यमं प्रविश्यति तदा लम्बात् दूरं नमतीति उक्तं खलु । पतनकोणस्य वर्धनेन वक्रीभवनकोणमपि आधिक्यं प्राप्नोति । ’इ’ इत्यत्र वक्रीभवनकोणं तु ९०<sup>०</sup> भवति । तदा किरणः समतलस्य उपरि गच्छति ।
यदि पतनकोणम् इतोsपि अधिकं भवति, तदा किरणः द्वितीयं माध्यमं प्रवेष्टुं न शक्नोति । तदा प्रतिफलित्वा पुनरागच्छति । एषः अत्युपयुक्तः परिणामः । मरुभूमौ मरीचिकादर्शनम् अस्य प्राकृतिकम् उदाहरणम् । द्युतितन्तवः (optical fibres) अपि एतत् तत्त्वम् आधारीकृत्य कार्यं कुर्वन्ति ।
===निम्नोन्नतकाचाः (concave and convex lens)===
पङ्क्तिः ४३:
==द्युतिकिरणानां वर्णविभजननम् (Dispersion of light )==
(चित्रम्) यदा श्वेतवर्णिय किरणः पट्टकं (prism) प्रविशति, तदा स विभाजितो भवति ।
पट्टके एते विविधवर्णीयाः किरणः वेगव्यत्ययेन सञ्चरन्ति । अतः तेषां नमनं न समानं भवति ।
शाखाकिरणाः ( infrared rays ), सूक्ष्मकिरणाः ( microwaves ) इत्यादियोsपि अस्य कुटुम्बस्य सदस्याः सन्ति ।
==द्युतिकिरणानां वेगः==
द्युतिकिरणानां वेगः अतिप्रमुखः भौतिकपरिमाणः । पुरातनाः एतं वेगं मापितुम् असाध्यम् इति भावितवन्तः यतः द्युतिः अत्यन्तं वेगेन सञ्चरति । यदा अकाशे विद्युत् द्योतते तदा तत्क्षणमेव ज्योतिः दृश्यते । स्वल्पकालानन्तरं घनगर्जितं श्रूयते। शब्दवेगस्य अपेक्षया द्युतिवेगः अत्यधिकः । तस्य मापनाय बहवः प्रयत्नाः कृताः सन्ति । गलीलियो नामकः एतदर्थं प्रथमः यतितवान् । द्वौ वीक्षकौ उन्नतप्रदेशे स्थितौ । तयोः मध्ये अन्तरः ’ x’ किलोमीतर् इति भावयामः । द्वौ अपि दीपधारिणौ स्तः ।प्रतमतः स्वदीपं वस्त्रेण प्रच्छाद्य, तदनन्तरं वस्त्रं अपनीयति । यदाद्वितीयः दीपं पश्यति, सः अपि स्वस्य दीपस्योपरि स्थितं वस्त्रं अपनयति । प्रथमः घटियन्त्रस्य साहाय्येन तस्य दीपप्रज्वालनादारभ्य, द्वितीयदीपदर्शनपर्यन्तं कालं मापयति (t) | तदा प्रकाशस्य वेगः c = 2x /t क्.मी/से. भवति । अस्मिन् प्रयोगे वेगः निखरतया ज्ञायते । अनतरं ’ रोमर्’ नमकः विज्ञानी
प्रकाशस्य व्यक्तिकरणम् (
द्युतिशक्तेः केचन गुणाः तरङ्गस्वभावाम् अनुसरन्ति । व्यक्तिकरणम् तु एतादृशः गुणः । यदा द्वौ समानरूपे प्रकाशतरङ्गौ परस्परं सङ्गच्छते तदा कनिष्ट-गरिष्ठ-प्रकाशरूपः पट्टः उत्पद्यते । यत्र तरङ्गाः समानदिशायां पतन्ति ( in-phase ) तत्र गरिष्ठप्रकाशः
विद्यते । यत्र विरुद्ध दिशयायां सन्ति तत्र प्रकाशः कनिष्ठतमः। अतः प्रकाश-तमोरूपो: रेखाः डृश्यन्ते ।
|