"द्युतिशक्तिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७:
यदा वयं दर्पणस्य पुरतः तिष्ठामः, तदा अस्माकं प्रतिबिम्बम् पश्यामः । एष द्युतेः प्रतिफलनस्य परिणामः । (प्रथमचित्रम्) ’उऊ’ इति दर्पणम् । ’अ आ’ इति दिशायां प्रतिनिवर्तते । किरणयोः गमनागमनदिशौ बाणाङ्कनेन (arrow mark) सूचितौ । एवं किरणानां प्रत्यागमनं प्रतिफलनमिति कथ्यते । प्रतिफलनबिन्दुना एका लम्बरेखा {perpendicular line) निर्मिता । अनेन सह पतनकिरणः ’प’ इति पतनकोणं निर्मान्ति। ’प्र’ इति तथैव प्रतिफलनकोणं भवति । प्रतिफलननियमानुसारेण एते कोणे समाने भवतः ।
====समतलदर्पणे प्रतिबिम्बम्====
[[सञ्चिका:Reflection angles (Sanskrit).png|लघुत्तम|प्रकाशस्य प्रतिफलनम्]]
(द्वितीयचित्रम्) ’अ’ इति वस्तु दर्पणस्य पुरतः स्थापितमस्ति । वस्तुना एकः लम्बः किरणः (normal ray) दर्पणस्योपरि पतति । प्रतिफलनस्य नियमानुसारेण पतनकोणं प्रतिफलनकोणं च समाने शून्ये च भवतः । अतः लम्बकिरणः लम्बदिशायामेव प्रतिफलितः भवति । अन्यः किरणः ’अ इ’ ’इई’ दिशायां प्रतिफलितः । द्वयोः समागमबिन्दौ प्रतिबिम्बम् उद्भवति । अत्र दर्पणस्य अग्रे तौ किरणौ समागमं न प्राप्यते । अतः तयॊः वर्धनं कृतम् । तदा ’ आ’ इति बिन्दौ प्रतिबिम्बं दृश्यते।
प्रतिफलनकिरणानां नैजसमागमः समतलदर्पणे (plane mirror) न सम्भवति । अतः प्रतिबिम्बं ’मिथ्या’ (virtual) भवति । मिथ्याप्रतिबिम्बस्य ग्राहके ग्रहणम् असाध्यम् ।
"https://sa.wikipedia.org/wiki/द्युतिशक्तिः" इत्यस्माद् प्रतिप्राप्तम्