"द्युतिशक्तिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
==प्रकाशस्य गुणाः ==
 
===[[प्रतिफलनम् (भौतविज्ञानम्)|प्रतिफलनम्]] ( Reflection)===
यदा वयं दर्पणस्य पुरतः तिष्ठामः, तदा अस्माकं प्रतिबिम्बम् पश्यामः । एष द्युतेः प्रतिफलनस्य परिणामः । (प्रथमचित्रम्) ’उऊ’ इति दर्पणम् । ’अ आ’ इति दिशायां प्रतिनिवर्तते । किरणयोः गमनागमनदिशौ बाणाङ्कनेन (arrow mark) सूचितौ । एवं किरणानां प्रत्यागमनं प्रतिफलनमिति कथ्यते । प्रतिफलनबिन्दुना एका लम्बरेखा {perpendicular line) निर्मिता । अनेन सह पतनकिरणः ’प’ इति पतनकोणं निर्मान्ति। ’प्र’ इति तथैव प्रतिफलनकोणं भवति । प्रतिफलननियमानुसारेण एते कोणे समाने भवतः ।
====समतलदर्पणे प्रतिबिम्बम्====
[[सञ्चिका:Reflectionप्रतिफलनम् angles (Sanskrit)Konaha.pngsvg|लघुत्तम|प्रकाशस्य प्रतिफलनम्]]
(द्वितीयचित्रम्) ’अ’ इति वस्तु दर्पणस्य पुरतः स्थापितमस्ति । वस्तुना एकः लम्बः किरणः (normal ray) दर्पणस्योपरि पतति । प्रतिफलनस्य नियमानुसारेण पतनकोणं प्रतिफलनकोणं च समाने शून्ये च भवतः । अतः लम्बकिरणः लम्बदिशायामेव प्रतिफलितः भवति । अन्यः किरणः ’अ इ’ ’इई’ दिशायां प्रतिफलितः । द्वयोः समागमबिन्दौ प्रतिबिम्बम् उद्भवति । अत्र दर्पणस्य अग्रे तौ किरणौ समागमं न प्राप्यते । अतः तयॊः वर्धनं कृतम् । तदा ’ आ’ इति बिन्दौ प्रतिबिम्बं दृश्यते।
प्रतिफलनकिरणानां नैजसमागमः समतलदर्पणे (plane mirror) न सम्भवति । अतः प्रतिबिम्बं ’मिथ्या’ (virtual) भवति । मिथ्याप्रतिबिम्बस्य ग्राहके ग्रहणम् असाध्यम् ।
पङ्क्तिः ४१:
निम्ने तु विक्षिप्ताः भवन्ति (चित्रे पश्यतु)
 
(चित्रम्)अतः पीनकाचः सत्यप्रतिबिम्बं, निम्नकाचः मिथ्याप्रतिबिम्बं च ददाति । द्युत्युपकरणेषु (optical instruments ) दर्पणानां काचानां च उपयोगः अधिकं भवति । बिम्बग्राहकः (camera), सूक्ष्मदर्शकः (microscope), दूरदर्शकः (telescope), प्रक्षेपकः (projector) इत्यादिषु उपकरणेषु द्युतिकिरणान् काचानां द्वारा प्रेशयन्ति । अनेन प्रतिबिम्बानां संवर्धनं, समीपनयनम् इत्यादीनि कार्याणि भवन्ति । तदर्थं विविधगात्रयुक्तानां दोषरहितानां काचानां निर्माणं कुर्वन्ति ।
 
==द्युतिकिरणानां वर्णविभजननम् (Dispersion of light )==
(चित्रम्) यदा श्वेतवर्णिय किरणः पट्टकं (prism) प्रविशति, तदा स विभाजितो भवति । श्वेतकिरणः सप्तवर्णकिरणैः युक्तः भवति ।
पट्टके एते विविधवर्णीयाः किरणः वेगव्यत्ययेन सञ्चरन्ति । अतः तेषां नमनं न समानं भवति ।
रक्तवर्णीयानां किरणानां वेगः अल्पः । अतः तेषां नमनमपि अल्पमेव । जम्बुवर्णं (violet) अतिवेगेन चलति; नमनमपि अधिकं वर्तते । अन्ये वर्णाः मध्ये वर्तन्ते । ते तु जम्बु (violet) क्लीतक (indigo) हरित (green) नील (blue) पीत (yellow) नारङ्ग (Orange) रक्त (Red)वर्णीयाः सन्ति । सूर्यः ’सप्ताश्वः’ इति संबुध्यते । इन्द्रचापः (Rainbow) वर्णविभजनस्य प्राकृतिकः परिणामः । यदा वर्षाबिन्दवः द्युतिकिरणम् पट्टक इव विभज्यन्ते तदा एवं सम्भवति । वस्तुतः विविधवर्णीयानां किरणानां व्यत्यासः तु तेषां तरङ्गान्तरे एव विद्यते । यदि तरङ्गान्तरं ४ x १०<sup>-५</sup> मी वर्तते तदा किरणः जम्बुफलवर्णीयाः भवन्ति । यदा एषा संख्या ८ x १०<sup>-५</sup> मी भवति, तदा रक्तवर्णीयाः भवन्ति । एषः विद्युत्कान्तीयतरङ्गाणाम् एकः अल्पः भागः । विकिरणाः ( r rays), क्ष- किरणाः (x rays ) अतिजम्बुकिरणाः ( ultra violet rays)
शाखाकिरणाः ( infrared rays ), सूक्ष्मकिरणाः ( microwaves ) इत्यादियोsपि अस्य कुटुम्बस्य सदस्याः सन्ति ।
 
 
पङ्क्तिः ५३:
द्युतिकिरणानां वेगः अतिप्रमुखः भौतिकपरिमाणः । पुरातनाः एतं वेगं मापितुम् असाध्यम् इति भावितवन्तः यतः द्युतिः अत्यन्तं वेगेन सञ्चरति । यदा अकाशे विद्युत् द्योतते तदा तत्क्षणमेव ज्योतिः दृश्यते । स्वल्पकालानन्तरं घनगर्जितं श्रूयते। शब्दवेगस्य अपेक्षया द्युतिवेगः अत्यधिकः । तस्य मापनाय बहवः प्रयत्नाः कृताः सन्ति । गलीलियो नामकः एतदर्थं प्रथमः यतितवान् । द्वौ वीक्षकौ उन्नतप्रदेशे स्थितौ । तयोः मध्ये अन्तरः ’ x’ किलोमीतर् इति भावयामः । द्वौ अपि दीपधारिणौ स्तः ।प्रतमतः स्वदीपं वस्त्रेण प्रच्छाद्य, तदनन्तरं वस्त्रं अपनीयति । यदाद्वितीयः दीपं पश्यति, सः अपि स्वस्य दीपस्योपरि स्थितं वस्त्रं अपनयति । प्रथमः घटियन्त्रस्य साहाय्येन तस्य दीपप्रज्वालनादारभ्य, द्वितीयदीपदर्शनपर्यन्तं कालं मापयति (t) | तदा प्रकाशस्य वेगः c = 2x /t क्.मी/से. भवति । अस्मिन् प्रयोगे वेगः निखरतया ज्ञायते । अनतरं ’ रोमर्’ नमकः विज्ञानी गुरुग्रहस्य उपग्रहाणां चलं विख्श्य, तत्सहायेन प्रकाशस्य वेगं सिद्धान्तितवान् । मैकेल्सन् नामकः निखरं प्रयोगं कृत्वा प्रकाशस्य वेगः, वायुमाध्यमे, 2.99797 x 108 मी/से इति सिद्धान्तं कृतवान् । एष एव प्रकृतौ अत्यधिकः। अस्य साहाय्यनेव ऎन्स्टीन् स्वं सापेक्षिकसिद्धान्तं (Theory of Relativity) निरूपितवान् । प्रकाशास्य वेगः द्रववस्तुनि च तनूभवति । शब्दतरङ्गाः अस्य अपवादाः । तस्य वेगः धनवस्तुनि अधिकं वर्तते । प्रकाशस्य वेगं उपौज्ज्य बैजिकक्रियासु (Nuclear reactions ) शक्तिं गणयन्ति ।
 
प्रकाशस्य व्यक्तिकरणम् ( InterfereceInterference of light ) :-
द्युतिशक्तेः केचन गुणाः तरङ्गस्वभावाम् अनुसरन्ति । व्यक्तिकरणम् तु एतादृशः गुणः । यदा द्वौ समानरूपे प्रकाशतरङ्गौ परस्परं सङ्गच्छते तदा कनिष्ट-गरिष्ठ-प्रकाशरूपः पट्टः उत्पद्यते । यत्र तरङ्गाः समानदिशायां पतन्ति ( in-phase ) तत्र गरिष्ठप्रकाशः
विद्यते । यत्र विरुद्ध दिशयायां सन्ति तत्र प्रकाशः कनिष्ठतमः। अतः प्रकाश-तमोरूपो: रेखाः डृश्यन्ते ।
 
 
प्रकाशस्य नमनम् ( Diffraction ) :
सूक्ष्मवस्तुनः शूर्पे अन्ते, प्रकाशः छायायाः दिशि नमन्ं प्राप्नोति । छायाप्रदेशे प्रकाशतपोरूपाः श्रेणी प्रातुर्भवतिः किन्तु एते व्यक्तिकरणस्यापेक्षया अल्पसंख्याका अल्पप्रकाशयुक्ताश्च भवन्ति ।
 
प्रकाशस्य ध्रुवीकरणम् ( PolarisationPolarization of light ) :-
एषः गुणः प्रकाशस्य तरङ्गाणां तिर्यक्स्वभावं ( transverse nature ) अवलम्बते । एषु तरङ्गेषुमाध्यमस्य कणाः तरङ्गचलनस्य लम्बदिशायां कम्पन्ते । अन्यश्च, द्युतितरङ्गाः विद्युत्कान्तीयः ।
तेषु विद्युत्घटकः कान्तीयघ्टकश्च परस्परं लम्बदिशायां कम्पन्ते । यदा द्युतितरम्ङ्गाः स्फटिकमणिरिव केषुचन वस्तुयु प्रवहन्ति, तदा एतो विभज्यन्ते । तदा बहिरागतानां द्युतितरङ्गाणां प्रकाशसामर्थ्यः परिवर्तनं प्राप्नोतिः । एकस्मिन् दिशि गरिष्ठः प्रकाशः भवति, तस्यां लम्बदिशायां तु कनिष्ठतमः। एषः परिणामः ध्रुवीकरणमिति कथ्यते । शब्दतरङ्गेषु एषः परिणामः न भवति ।
 
द्युतिविद्युत्परिणामः ( Photo-electric effect ) :-
यदा द्युतितरङ्गाः केषाञ्चन लोहानामुपरि पतति, तदा विद्युत उत्पद्यते । परमानुषु स्थिताः ऋणविद्द्युत्कणाः द्युतितरङ्गात् शक्तिं स्वीकृत्य बहिः निर्गच्छन्ति । अस्य परिणामस्य विवरणम् ऎन्स्टीन् नामकेन विज्ञानिना दत्तम् । सः तदार्थं नोबेल् पारितोषकं प्राप्तवान् । अस्मिन् विवरणे सः द्युतेः द्विविधं प्रवृत्तिं सिद्धान्तितवान् । द्युतिः कणरूपमपि तरङ्गरूपमपि प्रदर्शयति । एषः गुणः अनन्तरम् इलेक्ट्रान् इत्यादीनां कणानां विषयेsपि विस्तारितः । अयमेव क्वान्टम् सिद्धान्तः ( Quantum theory ) इति प्रसिद्धः अस्ति ।
 
एवं द्युतिशक्तिः भौतिकशास्त्रे अतिप्रसिद्धः शक्तिरूपः । अस्य विशये बहवः गुणाः सिद्धान्तः च निरूपिताः ।
"https://sa.wikipedia.org/wiki/द्युतिशक्तिः" इत्यस्माद् प्रतिप्राप्तम्