"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०:
बीजपुरसुलतानस्य पुरतः एतादृशसाहसेन व्यवहृतवन्तः जनाः तावत्पर्यन्तं केऽपि नासन् । एतस्य लघुबालकस्य धैर्यं दृष्ट्वा सर्वेऽपि आश्चर्यचकिताः अभवन् ।
स्वपुत्रस्य एतादृशचेष्टाभिः शाहराजः कुपितः अभवद् वा ? नैव प्रत्युत स्वमनसि अधिकम् आनन्दम् अनुभूतवान् स: । दौर्भाग्यवशात् स्वतन्त्ररुपेण स्थातुं तस्य अवसर: नासीत् । अतः शाहराजः स्वपुत्रं [[पुणे|पुण्यपत्तनं (पूना)]] प्रेषितवान् । स्वपुत्रः वा स्वतन्त्रराजः भवेदिति शाहराजस्य आशयः ।
एतावति लघुवयसि शिवराजे एतावत् धैर्यं, शौर्यं, देशभक्तिः, धर्मे अनुरागः इत्यादय: उदात्तगुणाः कथम् आगता: ? इति प्रश्नः भवतां मनसि सहजतया भवत्येव । एतेषां सर्वेषां कारणभूता आसीत् तस्य माता जीजाबाई । शिवराजस्य बाल्यदारभ्य सा तं [[रामायणम्|रामायणे]] [[महाभारतम्|महाभारते]], पुराणेषु च स्थितानां वीराणां, महात्मनां जीवनकथाः श्रावयति स्म । एतादृशवीरगाथाः, धर्मगाथाः श्रावं श्रावं शिवराजस्य मनसि अपि स्वयं [[रामः|रामः]],[[कृष्णः|कृष्णः]], [[अर्जुनः|अर्जुनः]], [[भीमः|भीमः]] भवेयम् इति भावना जायते स्म । एतावदेव न, शिवराजस्य विषये परमेश्वरस्य कृपा अपि आसीत् । गुरुरूपेण, मार्गदर्शकरूपेण च दादाजी कोण्डदेव इति महापुरुषः लब्धः । कर्णाटकप्रान्ते कदाचित् भव्यं दिव्यं [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यम्]] आसीत् । तस्य साम्राज्यस्य कथाः तदा तदा शिवराज:शृणोति स्म । एताः कथाः तस्मै महतीं स्फूर्तिं दत्तवत्यः ।
[[File:Shivaji Maharajs Statue on Pratapgad.JPG|300px|right|'''छत्रपतिः शिवाजी''']]
==’शिवनेरी’ भाग्यम्==
"https://sa.wikipedia.org/wiki/छत्रपति_शिवाजी" इत्यस्माद् प्रतिप्राप्तम्