"वाल्मीकीयरामायणे शिवः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६१:
* रामेश्वरत्वेन शिवोल्लेखः (एषः सर्गः विपरितरामायणम् <ref> रावणवधात् अयोध्ययां श्रीरामस्य प्राप्तिं यावत् सर्वं वृत्तान्तम् अस्मिन् सर्गे अस्ति । युद्धकाण्डं, सर्गः – १२३ । </ref>)
 
लङ्काविजयोत्तरं भगवान् श्रीरामः सीतया सह यदा अयोध्यां प्रति यात्राम् आरभत, तदा सः सीतां स्वमार्गस्य परिचयम् अकारयत् । तस्मिन् परिचये रावणवधस्थलात् क्रमेण कुम्भकर्णवधस्थलं, निशाचराणां वधस्थलम् इत्यादि प्रदर्शयति । एवम् अयोध्यां प्रति यात्रमाणौ सीतारामौ नलसेतुम् उल्लङ्घ्य रामेश्वरतीर्थं प्रापेताम् । तत्र प्राप्य श्रीरामः सीताम् उद्दीश्य अवदत्, हे मिथिलेशकुमारि ! अत्र पूर्वकाले भगवान् महादेवः मयि कृपाम् अकरोत् । सेतुनिर्माणात् प्राक् मया स्थापिते शिवलिङ्गे सः राराजते । एतस्मात् पुण्यस्थलात् विशालकायस्य समुद्रस्य तीर्थ द्रष्टुं शक्नुमः । एषः प्रदेशः सेतुनिर्माणस्य मूलप्रदेशोऽपि अस्ति । अतः एतस्य नाम "सेतुबन्धः" इति <ref> सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम् ।।<br> वाल्मिकीयरामायणंवाल्मीकीयरामायणं, युद्धकाण्डः, सर्गः १२३, श्लो. २१ </ref> । एतत् पुण्यपवित्रस्थलं त्रिषु लोकेषु पूजनीयं भविष्यति । एतत् परमपवित्रस्थलं पातकनाशकं भविष्यति इति <ref> वाल्मिकीयरामायणंवाल्मीकीयरामायणं, युद्धकाण्डः, सर्गः १२३, श्लो. १९-२२  </ref> ।
 
* सुकेशाख्यस्य राक्षसस्य कथा
पङ्क्तिः ६९:
* वानररूपिनन्दिश्वरस्य रावणाय शापदानं, महेश्वरेण रावणस्य मानभङ्गोत्तरं चन्द्रहासखड्गदानञ्च
 
सुकेशस्य राक्षसवंशस्य वर्णक्रमे यदा रावणस्य वर्णनम् आरभते, तदा अगस्त्यमुनिः श्रीरामं रावणमानभङ्गस्य कथां श्रावयति । ब्रह्मणः वरदानं प्राप्य अजेयवत् भ्रमाणः रावणः पुष्पकविमानम् आरूढः सन् हिमालयं प्रापत् । हिमालयस्य वनेषु पुष्पकविमानं परिचक्रेण सह पतितम् । ततः राक्षसराजः मन्त्रिगणसहितं विमानपतनस्य कारणान्वेषणे सँल्लग्नः । यद्यप्येतत् विमानं तु स्वामिनः इच्छानुगुणं डयितुं निर्मितम् अस्ति, तथापि एतत् स्वतः एव कथम् अवरुद्धम् इति चिन्तयन्तः सर्वे संशोधनम् आरभन्त । तस्मिन् काले हिमालयपर्वतस्य औन्नत्यमेव बोधाम् अजनयत् इति कारणं प्राप्तम् । ततः रावणः हिमालयम् उत्थापयितुं प्रायासम् आरभत । परन्तु वानररूपी नन्दी आगत्य तं तथा न कर्तुं कथयति । परन्तु वानररूपिणं नन्दिनं दृष्ट्वा रावणः तस्य उपहासं करोति । ततः नन्दीश्वरः रावणं शशाप यत्, वानरणां कारणेनैव तव वंशस्य सर्वनाशः भविष्यति इति । नन्दीश्वरस्य शापस्य विषये अविचिन्त्य रावणः हिमालयम् उत्थापयितुं सज्जः अभवत् । यदा सः हिमालयम् उत्थापयति, तदा कैलासवासिनः भयभीताः अभूवन् । तस्मिन् काले महादेवः सहजतया पादक्रीडां करोति, येन हिमालयः स्वस्थाने पुनः स्थापितः भवति । परन्तु रावणस्य भुजौ तस्य पर्वतस्य अधः अरुद्धौ भवतः । पीडया आक्रान्तः रावणः अनेकाभिः शिवस्तुतिभिः शिवं प्रसन्नं करोति । प्रसन्नः शिवः रावणाय चन्द्रहासखड्गं यच्छति । परन्तु तेन सह कथयति यत्, यदा त्वम् एतस्य खड्गस्य अपमाननं करिष्यति, तदा एषः खड्गः मम समीपं प्रत्यागमिष्यतीति <ref> वाल्मिकीयरामायणम्वाल्मीकीयरामायणम्, उत्तरकाण्डः, सर्गः ५६ </ref> ।
 
* उपसंहारः
 
सम्पूर्णे वाल्मिकीयरामायणेवाल्मीकीयरामायणे शिवः सर्वदा उपस्थितः दरीदृश्यते । रामस्य सहाय्यार्थं स्यात् उत रावणस्य पूर्वजस्य सुकेशस्य साहाय्यं सर्वत्र शिवः उपस्थितः आसीत् । रावणवधस्य भविष्यवाणीं कुर्वाणः भगवान् शिवः सीतया सर्वेषां राक्षसानाम् अन्तः भविष्यति इति कथयति, तदा तु रामायणस्य सम्पूर्णं चित्रं स्पष्टं भवति । रामः भगवान् शिवस्य परमभक्तः, भगवतः शिवस्य अंशः हनुमान् श्रीरामस्य परमभक्तः । एवं हरिहरयोः तादात्म्यपूर्णं वाल्मिकीयरामायणंवाल्मीकीयरामायणं हिरतत्त्वेन सह हरतत्त्वम् अप बहुधा वहति । 
 
== उद्धरणम् ==
"https://sa.wikipedia.org/wiki/वाल्मीकीयरामायणे_शिवः" इत्यस्माद् प्रतिप्राप्तम्