"सौरव्यूहः" इत्यस्य संस्करणे भेदः

सर्वे न प्राप्ताः भाषानुबन्धाः using AWB
पङ्क्तिः ७:
:# सौरव्यूहस्य ग्रहाः द्विधा विभक्तुं शक्यन्ते ।
::::'''पार्थिवाः ग्रहाः''' (Terrestrial Planets)
::::'''दैत्याः ग्रहाः''' (Giant Planets) च इति ।<br />
बुधः (Mercury), शुक्रः (Venus), भूमिः (Earth), मङ्गलः (Mars) च प्रथमे पार्थिवानां ग्रहाणां गणे अन्तर्भवन्ति । एते ग्रहाः लघुगात्रकाः । एतेषां ग्रहाणां सान्द्रता अपि अधिका एव (प्रायः ४.० तः ५.५) । <br />
गुरुः (Jupiter), शनिः (Saturn), युरेनस्, नेप्चून् च द्वितीये दैत्यग्रहाणां गणे अन्तर्भवन्ति । एते ग्रहाः महागात्रकाः । तेषां सान्द्रता अपि अत्यन्तं न्यूना भवति (०.७ तः १.७) । <br />
पङ्क्तिः १४:
 
==आकाशकायानाम् उद्भवः==
आकाशकायानाम् उद्भवस्य विषयस्य आधुनिकानि गभीराणि चिन्तनानि क्रि. श. १७५५ वर्षाभ्यन्तरे आरब्धानि । अस्मिन् वर्षे (१७५५) प्रसिद्धः जर्मन् तत्त्वज्ञानी [[इम्यान्युयल् क्याण्ट्]] (Emmanuel Kant) इत्याख्यः कञ्चित् सिद्धान्तं प्रत्यपादयत् । स च सिद्धान्तः '''शुक्लपटलसिद्धान्तः''' (Nebular Hypothesis) इति उच्यते । तस्य सिद्धान्तस्य अनुसारम् – आकाशकायानाम् उद्भवात् पूर्वं व्योम्नि कश्चन अगाधः आकाशः उदभवत् । सः एव आकाशः तेन इम्यान्युयल् क्याण्टेन '''नेबुल''' (आकाशः) इति उक्तम् । कालक्रमेण मन्दं मन्दं तस्य आकाशस्य आवर्तनम् आरब्धम् । तस्य सान्द्रीकरणस्य परिणामतः “नेबुल” नामके शुक्लपटे अनेके निर्दिष्टाः कायाः उद्भूताः । तादृशेषु कायेषु भूमिः अपि अन्यतमा । सौरमण्डलस्य अन्ये ग्रहाः अपि अनेन एव क्रमेण रूपिताः इति प्रत्यपादयत् सः इम्यान्युयल् क्याण्ट् । तस्य इम्यान्युयल् क्याण्टस्य सः सिद्धान्तः सौरकायाणाम् आवर्तनस्य परिभ्रमणस्य क्रियाः व्यवस्थितरूपेण विवरीतुं समर्थः अभवत् ।
 
इम्यान्युयल् क्याण्टस्य अयं सिद्धान्तः यद्यपि बहुभिः अङ्गीकृतः तथापि तस्मिन् विद्यमानाः काश्चन न्यूनताः केषुचित् विज्ञानिषु अतृप्तिम् अजनयन् । ४० वर्षाणाम् अनन्तरं क्रि. श. १७९६ तमे वर्षे फ्रेञ्च् गणितज्ञः लाप्लास् इत्याख्यः अस्य इम्यान्युयल् क्याण्टस्य सिद्धान्तं किञ्चित् प्रमाणेन परिवर्त्य अन्यं कञ्चित् सिद्धान्तं प्रत्यपादयत् । किन्तु तदानीन्तने काले सिद्धानि बहूनि गणित–भौतिकसूत्राणि सः लाप्लास् स्वसिद्धान्ते समीचीनतया न उपयुक्तवान् इति कारणतः स्वसिद्धान्तस्य बह्व्यः न्यूनताः तेन न ज्ञाताः एव ।
पङ्क्तिः २१:
 
==कोनीयः आवेगः==
एकं भारयुतम् अयसः कन्दुकं कस्मिंश्चित् दीर्घे दण्डे भाररहितेन सूत्रेण योजनीयम् । दण्डः आवर्तनक्रियां यदा आरभते तदा तेन दण्डेन सह अयसः कन्दुकम् अपि परिभ्रमति । तदा तेन कन्दुकेन यः वेगः प्राप्यते सः एव वेगः कोनीयः आवेगः इति उच्यते । कन्दुकस्य द्रव्यराशिः, तस्य वेगः तथा च आवर्तन-अक्षतः (तन्नाम दण्डतः) विद्यमानं दूरम् – एतेषां त्रयाणाम् अपि अंशानां गुणलब्धं कोनीयस्य आवेगस्य प्रमाणम् इति वक्तुं शक्यते । कन्दुकं दण्डस्य यावत् समीपे भवति तावत् आवर्तनक्रिया अधिका भवति । म्याक्सेवेल् तथा जेन्स् इत्येतयोः मतस्य अनुसारं शुक्लपटतः दूरं गतैः तरङ्गैः सान्द्रीकरणं प्राप्य पृथक् ग्रहत्वेन रूपं प्राप्तुम् या गुरुत्वशक्तिः आवश्यकी सा न प्राता । यतः तत्र गुरुत्वशक्तेः निर्माणार्थं पर्याप्तमात्रेण द्रव्यराशिः न आसीत् । चिकागोविश्वविद्यालयस्य खगोलविज्ञानी एफ्. आर्. मौल्टन् अपि इम्यान्युयल् क्याण्ट् तथा लाप्लास् इत्येतयोः सिद्धान्तं निराकृत्य आक्षिप्तवान् ।
 
पुर्वमेव यथा उक्तं तदनुगुणं सौरव्यूहस्य आवेगस्य ९९% भागः सूर्यं परितः परिभ्रमत्सु ग्रहेषु भवति । आवेगपरिपालननियमस्य अनुगुणम् आवर्तनं तथा सन्द्रीकरणं प्राप्यमाणं यत्किमपि वस्तु कोनीयावेगस्य प्रमाणस्य प्रमुखं भागं स्वस्मिन् एव केन्द्रीकरोति । किन्तु इदानीन्तनस्य सौरव्यूहस्य कोनीयावेगस्य अधिकः भागः इतरग्रहान् केन्द्रीकृतः अस्ति । अयं इम्यान्युयल् क्याण्ट् तथा लाप्लास् इत्येतयोः सिद्धान्तस्य विरुद्धं श्रुतः कश्चन प्रमुखः आक्षेपः ।
पङ्क्तिः २७:
===यमलतारासिद्धान्तः (Twin-Star Hypothesis)===
 
नवदशशतकतः आरभ्य अद्यपर्यन्तम् अपि भूमेः उद्भवस्य वा जन्मस्य वा विषये वैज्ञानिकाः जिज्ञासाः उद्भवन्त्यः एव सन्ति । चर्चा-परिचर्चाः अपि प्रचलन्त्यः एव सन्ति । हाय्ल् तथा लिटल् टन् नामकौ (Hoyle and Littleton) सद्यः एव अन्यं कञ्चित् सिद्धान्तं प्रतिपादितवन्तौ स्तः । स च सिद्धान्तः यमलतारासिद्धान्तः (Twin-Star Hypothesis) इति उच्यते । तस्य सिद्धान्तस्य अनुसारं भूमेः उद्भवतः पूर्वं यः सूर्यः आसीत् (आदिसूर्यः) (Primordial Inn) तस्य सूर्यस्य किञ्चन सहचरं नक्षत्रम् अपि आसीत् । तत् सूर्यस्य सहचरं नक्षत्रं कालान्तरे विच्छिद्रं सञ्जातम् । तस्य एव नक्षत्रस्य भागाः अद्य विद्यमानाः ग्रहाः इति उच्यमानाः । भूग्रहः अपि तथा निर्मितेषु ग्रहेषु अन्यतमः । ते सर्वे ग्रहाः अपि सूर्यं परितः परिभ्रमणं तदा एव आरब्धवन्तः । अस्य सिद्धान्तस्य साहाय्येन सूर्यस्य तथा इतरेषां ग्रहाणां विभिन्नस्य संयोजनस्य विवरणकरणं सुलभसाध्यं सञ्जातम् ।
 
==महास्फोटसिद्धान्तः(Big Bang Theory/[[बिग्-ब्याङ्ग्]]) ==
पङ्क्तिः ३९:
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
"https://sa.wikipedia.org/wiki/सौरव्यूहः" इत्यस्माद् प्रतिप्राप्तम्