"साङ्ख्यदर्शनम्" इत्यस्य संस्करणे भेदः

त्त्व
चित्रं योजनीयम् using AWB
पङ्क्तिः १:
'''सांख्यदर्शनं''' (Sāṃkhya) प्राचीनतमं दर्शनमस्ति । अस्य सांख्यशास्त्रस्य प्रवर्तकः भगवान् कपिलः । [[वेदः|वेदेषु]] यद्यपि स्पष्टरूपेण सांख्यस्य पारिभाषिकपदानाम् उपलिब्धिर्न भवति तथापि [[बृहदारण्यकोपनिषत्|बृहदारण्यक]]-[[कठोपनिषत्|कठोपनिषद्]]-[[श्वेताश्वतरोपनिषत्|श्वेताश्वतर]]-प्रभृतिषु ग्रन्थेषु सांख्यतत्त्वानां स्पष्टं दर्शनं भवति । यद्यपि तेष्वेव उपनिषत्सु इतरदर्शनानां मूलबीजान्यपि उपलभ्यन्ते तथापि अनेन दर्शनानां वैदिकस्रोतसां समर्थनमेव भवति । कपिलकृतेन सांख्यसूत्रेण विज्ञायते यत् सूत्रकाल एव सांख्यतत्त्वानि पर्याप्तं प्रसृतानि आसन् तेषां सुरक्षायै निश्चितमनाः कपिलः तत्सन्दर्भितं सकलं ज्ञानं सूत्ररूपेण सङ्कलितवान् । शास्त्रेऽस्मिन् संक्षेपतः तत्त्वचतुष्टयस्य अस्तित्वमभ्युपगतम् । तानि यथा- प्रकृतिः, प्रकृतिविकृत्युभयात्मकम्, केवलविकृतिः, अनुभयात्मिकम् चेति । प्रकृतिः मूलप्रकृतिः अथवा प्रधानमित्युच्यते । यतः सा एव सकलप्रपञ्चस्य मूलकारणभूता भवति । प्रकर्षेण करोति - कार्यमुत्पादयति इति प्रकृतिः इति तस्याः व्युत्पत्तिः । अथवा या स्वभिन्नतत्वान्तराणाम् उत्पत्तिं करोति सा प्रकृतिरिति । प्रकृतिरित्यत्र ’प्र’ इति शब्देन प्रकर्षस्य प्रतीतिर्द्योत्यते, स तु प्रकर्षः तत्वारम्भकः भवति । अत्रेदानीमयं प्रश्नः उदेति यत् घटस्य मृत्तिका प्रकृतिः इति व्यवहारोऽयं लोके दृष्टः, यदि घटप्रकृतिमृत्तिका तर्हि मृत्तिकाभिन्नत्वेन तत्वान्तरभूतः घटः इति परं न सिध्यति अथापि घटप्रकृतिमृत्तिका इति कथमुच्यते इति चेत्, उच्यते । यद्यपि मृत्तिका घटप्रकृतिः वस्तुतः तथापि प्रकृतिशब्देन प्रकर्षाविवक्षया केवलोपादानकारणमेव प्रकृतित्वेन स्वीकृत्य उक्तदृष्टान्ते व्यवहारः। अनेन एतत्सिद्धं भवति यत् स्वभिन्नतत्वान्तरोत्पत्तौ कारणात्मिका या सा प्रकृतिरिति एतल्लक्षणं तस्याः सामान्यलक्षणं भविष्यतीति ।

==शब्दनिष्पत्तिः==
सांख्यशब्दस्य निष्पत्तिः सम् उपसर्गपूर्वकं ख्याधातोः सञ्जाता । अस्यार्थोऽस्तिसम्यग्विचाराणामुपस्थापकं शास्त्रम् । अस्मिन् एव शास्त्रे सर्वप्रथमं तत्त्वानां संख्या परिभाषिताऽस्ति । अत एवास्य नाम संख्यमित्यस्ति इत्यपि केचन प्रतिपादयन्ति तथापि एषा व्युत्पत्तिर्ग्राह्या नैव प्रतीयते । यतो हि एतद्विपरीतं प्रकृतिपुरुषयोर्भेदरूपस्य विवेकस्य ज्ञापकं शास्त्रं सांख्यशास्त्रमस्ति ।
पुरा इदं प्रसिद्धमवर्तत यत् सांख्यज्ञानं विना कश्चिदपि विद्वान् न भविंतु शक्नोति । स्वयं कपिलोऽपि आदिविद्वान् इति नाम्ना प्रसिद्धोऽस्ति । अन्यदर्शनानाम् अपेक्षया सांख्यस्य चिन्तनम् अधिकं मनोवैज्ञानिकम् अस्ति । यावत् इतरदर्शनानां दृष्टिर्न याति तावत् सांख्यस्य प्रारम्भो भवति । तात्त्विकदृष्ट्या यत्र न्यायवैशेषिकप्रभृतिभिर्दर्शनैः सूक्ष्मतत्त्वेषु विचारो विहितस्तत्र सांख्येन सूक्ष्मतमानि तत्त्वानि विचारितानि प्रस्तुतानि च । आचार्यपरम्परायाः दृष्टिकोणेन ग्रन्थपरम्पराया च प्रतीयते यत् सांख्यमेव अपेक्षाकृतम् अधिकप्राचीनं समृद्धं चास्ति ।

==सांख्यदर्शनस्य तत्त्वमीमांसा==
पङ्क्तिः २८:
[[मनः]] इन्द्रियम् उभयात्मकं भवति । यतो हि मनो विना ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च नैव प्रवर्तन्ते । यदा मनः ज्ञानेन्द्रियैः सह ज्ञानस्य विषयान् गृह्वाति तदा ज्ञानेन्द्रियं भवति, यदा च कर्मेन्द्रियैः सह क्रियोत्पादनं करोति तदा कर्मेन्द्रियं भवति । इदं सङ्कल्पविकल्पात्मकं भवति अतो यथा बुद्धिः निश्चयात्मिका भवति तदिदं निश्चयात्मकं न भवति ।

'''तन्मात्राः'''- अहङ्कारस्य तामसाद् रूपात् पञ्च तन्मात्रा उद्भवन्ति । ‘तन्मात्र’ शब्दस्य तात्पर्यमस्ति '''तदेव इति तन्मात्रम्''' । शब्दः स्पर्शः रूपं रसो गन्धश्च तन्मात्राः सन्ति । एता एव सूक्ष्मभूतान्यपि सन्ति । इमा अहङ्कारात् अभिव्यक्ताः सन्ति, अतः विकृतिरूपा वर्तन्ते । आभ्य एव स्थूलभूतानि व्यक्तानि भवन्ति, अतः प्रकृतिरूपा अपि सन्ति ।

'''पञ्चमहाभूतानि''' - पञ्च तन्मात्राभ्यः पृथकृ-पृथक् क्रमशः शब्दात् आकाशः, स्पर्शाद् वायुः, रूपात् तेजः, रसात् जलम्, गन्धात् पृथ्वी चेति पञ्चमहाभूतानि व्यक्तानि भवन्ति । इमे स्थूलपदार्थाः पञ्चतन्मात्राणां विकृतयः सन्ति । सांख्यशास्त्रे कथिता इमे सर्वे व्यक्तपदार्थाः अनित्याः सन्ति । एषु आश्रितत्त्वमपि विद्यते । एते लिङ्गरूपा अर्थात् हेतुभूता अपि सन्ति । इमे त्रिगुणात्मकाः प्रकृतिकार्यतया जडाश्चापि वर्तन्ते ।

==मूलप्रकृतेरस्तित्वे प्रमाणानि==
व्यक्ततत्त्वानि परिमितानि सन्ति किन्तु मूलप्रकृतिः व्यापिकाऽस्ति । व्यक्ततत्त्वानाम् अनेकत्वे या समन्वयात्मकता विद्यते तयापि मूलप्रकृतेः सिद्धिर्भवति । शक्यनुकूलया प्रवृत्त्या अपि मूलप्रकृतिः सिद्ध्यति । सृष्टौ कार्यकारणभावेनापि मूलकारणतया प्रकृतेः सिद्धिर्भवति । जगतः नानात्वे तत्कारणभूते अव्यक्ते च तादात्म्येनापि प्रकृतिसिद्धिर्जायते ।

अव्यक्ते प्रायः व्यक्तप्रकृतेः सर्वेषां धर्माणां विपर्ययो भवति । स एकः अनाश्रितश्चास्ति । अर्थात् अव्यक्तं व्यक्तापेक्षया प्रायेण भिन्नमस्ति, किन्तु ‘कारणगुणात्मकत्वात्कार्यस्य’ इत्याधारेण काश्चन विशेषता व्यक्ताव्यक्तयोः तुल्याः सन्ति । यथा त्रिगुणमचेतनमित्यादि ।

==अहङ्कारविचारः==
अहङ्कारस्योत्पत्तिः पूर्वमेव प्रतिपादिता । अयमहङ्कारः बुद्धिविशेषात्मकः । अहन्ता इति अहमाकारात्मिका बुद्धिः,इदन्ता इति इदमाकारात्मिका बुद्धिः अयं व्यवहारः एव बुद्धिविशेषः इत्युच्यते । अहन्ता बुद्धिं विना इदन्ताबुद्धिः नोदेति, अतः अहन्ताबुद्धिविशेषभूताहङ्कारस्योत्पत्तिरिति सिध्यति । अस्मिनप्यहङ्कारे सत्वादिगुणानामुत्कर्षापकर्षेण त्रयः भेदाः उत्पद्यन्ते । यथा, सात्विकभेदस्य वैकारिकः इति, राजसभेदस्य तैजसः इति, तामसभेदस्य भौतिकः इत्यभ्युपगमः । यत्र रजस्तमगुणयोः तिरोहितत्वेन उत्कृष्टत्वेन सत्वगुणः विराजते तत्र सात्विकाहङ्कारस्य स्थितिर्भवति । एवमन्यत्रापि । सात्विकाहङ्कारः रजोगुणसहायेन प्रवृत्त्यात्मकधर्मभूतानामेकादशेन्द्रियाणामुत्पत्तिं करोति । पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, एकं मनः इति एकादशेन्द्रियाणि । भवति चैवमहङ्गारविचारः ।

==पुरुषतत्त्वम्==
पुरुषतत्त्वं प्रत्यक्षानुमानादिभिः प्रमाणैः सिद्धं नैव भवितुं शक्नोति तस्य सिद्धिः केवलं शब्दप्रमाणेनैव भवति । पुरुषतत्त्वम् अहैतुकंनित्यं सर्वव्यापि निष्क्रियं गुणातीतं चास्ति । पुरुषः एकोऽस्ति अनेको वेति विषये सांख्यशास्त्रस्य टीकाकारेषु पर्याप्तं मतभेदो दृश्यते । अस्य कारणमिदमस्ति यत् एकस्मिन् आत्मनि स्वीकृते सति लोके सर्वेषां प्राणिनाम् एक एव व्यापारो भवेत् किन्तु जन्म-मरण-करणादिक्रियाणाम् एकस्मिन् काले एव अनेकताम् अवलोक्य इदमेव वक्तुं शक्यते यत् प्रतिशरीरम् आत्मा भिन्नोऽस्ति ।

==पुरुषतत्त्वस्य अस्तित्वे प्रमाणानि==
पङ्क्तिः ५२:
==मोक्षविचारः==
निस्सङ्गः पुरुषः अविद्या च नित्यतत्त्वे स्तः । एतदर्थमनयोः संयोगोऽपि अनादिरेव मन्यते । प्रकृतिरपि अनादि जडा वास्ति । पुरुषस्य प्रतिबिम्बेन प्रकृतिरथवा तदुत्पन्नं महत् तत्त्वम् आत्मानं चेतनवत् अवगच्छति । एवं महतः प्रतिबिम्बः पुरुषे निपतति, ततः प्रकृतिधर्मान् पुरुषः स्वगतानेव अवगच्छति अर्थात् ये सुखदुःखादयः प्रकृताः परिणामाः सन्ति । पुरुषः तान् जानाति । अनेन सः कर्त्तृभोक्त्रादिरूपेण विज्ञायते । अयमेव पुरुषस्य अयथार्थरूपः बन्धोऽस्ति । पुरुषोऽस्मात् कल्पितबन्धनात् मुक्तो भूत्वा आत्मनः स्वरूपम् अभिज्ञातवान् । प्रकृतेः स्वरूपज्ञानमेव विवेकख्यातिरस्ति । उभयोः प्रकृतिपुरुषयोः आत्मनः स्वरूपे अवस्थितिरेव मुक्तिर्विद्यते ।

एवं जगत्कर्त्तृत्वादयः सर्वे धर्माः प्रकृतेरेव सन्ति । पुरुषस्तु साक्षिमात्रमस्ति । तस्य दृष्टृत्वम् अकर्त्तृत्वं भोक्तृत्वं चापि मन्यते । एतद्वीपरीतं सर्वे धर्माः मूलप्रकृतौ सन्ति । अथायं प्रश्नो जायते यत् प्रकृतिरचेतनाऽस्ति तथापि कर्तव्यरूपो धर्मस्तस्यां कथं घटते । अस्मिन् विषये ईश्वरकृष्णो लिखति-पुरुषस्य साक्षित्वे कर्त्तृत्वादयो धर्माः मूलप्रकृतावपि स्वाभाविकाः सन्ति । यथा धेनोः स्तनेषु वत्सवृद्ध्यर्थम् अभिवृद्धये जडमपि दुग्धं स्वतः प्रवर्तते । एवं प्रकारेण प्रतिपुरुषं मुक्तये प्रकृतिः स्वभावतो महदादेः सृष्टिं करोति । अत्र तस्य स्वकीयं किमपि स्वार्थम् न विद्यते ।

==सूक्ष्मशरीरनिरूपणम्==
पङ्क्तिः ८९:
==आधाराः==

<references/>

<references/>

==बाह्यानुबन्धाः==
Line १०३ ⟶ १०२:
* [http://anvarat.blogspot.com/2009/08/blog-post_07.html सांख्य का सार] (दिनेशराय द्विवेदी)
* [http://anvarat.blogspot.com/2009/08/blog-post.html परवर्ती साँख्य में 25वें तत्त्व 'पुरुष' का प्रवेश]

* [http://asi.nic.in/asi_books/7278.pdf Origin and Development of the Samkhya System of Thought] by Pulinbihari Chakravarti M.A., Curator of Manuscripts, The Asiatic Society, Calcutta.
* [http://web.archive.org/web/20041023062627/http://www.philo.demon.co.uk/enumerat.htm Sankhya philosophy (archive)]
Line १०९ ⟶ १०७:
* [http://sanskritdocuments.org/all_pdf/IshvarakRiShNasAnkyakArikA.pdf PDF file of Ishwarkrishna's sankhyakarikaa – 200BC (in Sanskrit) available for research purposes only]
* [http://www.shastranethralaya.org/LectureSankya.html Complete Lectures on Sankya Shastra of Kapila maharishi at ShastraNethralaya]

[[वर्गः:साङ्ख्यदर्शनम्]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/साङ्ख्यदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्