"गान्धरः (जनपदः)" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया‎ using AWB
पङ्क्तिः १:
{{Merge from|गान्धरः (जनपदः)}}
{{विलीनम्|गान्धारः}}
[[File:Gandhara Hellenistic drinking scene.jpg|thumb|गान्धारस्य चित्रम्]]
'''गान्धरः''' प्राचीने भारते पश्चिमी जनपद असीत्। तस्य राजधानी [[तक्षिला]] आसीत्, तस्य केन्द्रम् आधुनिक पेशवर आसीत्। गान्धारे एव [[चन्द्रगुप्तः]], [[अशोकः]] च राजनैतिक-जीवनम् आरंभं करोतः।
[[चित्रम्:Map of Vedic India.png|thumb|250px|left|१६ जनपदान् दर्शयत् मानचित्रम्]]
[[पुराणम्|पुराणानुसारं]] गान्धारजनपदः [[ययातिः|ययातेः]] वंशस्थेन [[आरुद्धः|आरुद्धस्य]] पुत्रेण गान्धारेण संस्थापितः । अस्य गन्धारराष्ट्रस्य राजकुमाराः [[ऋग्वेदः|ऋग्वेद]]कालस्य "दृह्यु" इत्याख्यस्य राज्ञः वंशस्थाः इति उल्लेखः अस्ति । गान्धरदेशस्य समग्रस्य [[भूभगाः|भूभागस्य]] [[जलव्यवस्था|जलव्यवस्थां]] करोति स्म [[सिन्धूनदी|सिन्धुनदी]] । [[ऐत्तरेयब्राह्मणः|ऐत्तरेयब्राह्मणे]] गान्धारस्य [[राजा नगजित्|राजा नागजित्]] [[विदेहः|विदेहस्य]] [[जनकमहाराजः|जनकमहाराजस्य]] कालीनः इति वदति । गान्धरजनाः [[वेदकालः|वेदकालादारभ्य]] [[कुभानदी|कुभानद्याः]] (काबोल्-नदी) दक्षिणतीरे वसन्ति स्म [[सिन्धुखातनागरिकता|सिन्धुखातनागरिकतायाः]] उदयपर्यन्तम् इति वदति [[डा ॥ झिम्मरः]] । अनन्तरं ते सिन्धुनदीम् अतिक्रम्य [[पञ्जाबराज्यम्|पञ्जाबराज्यस्य]] [[वायुव्यभागः|वायुव्यभागस्य]] भूप्रदेशेषु अपि व्याप्ताः अभवन् । पुराणेषु [[बौद्धधर्मः|बौद्धसम्प्रदायस्य]] विभागेषु च गान्धारप्रदेशाः उत्तरपथे आसन् इति उल्लेखः दृश्यते । [[महाभारतम्|महाभारतयुद्धे]] गान्धराराजाः [[पाण्डवाः|पाण्डवानां]] विरोधपक्षे [[कौरवाः|कौरवाणां]] पक्षे आसन् । गान्धाराः उग्राः, [[युद्धकला|युद्धकलायां]] परिणताः च आसन् । षष्ठशतकस्य मध्यभागे गान्धरराजा [[पुष्करसारिन्]] [[मगधः|मगधराज्ञः]] [[बिम्बिसारः|बिम्बिसारस्य]] कालीनः आसीत् । गान्धारदेशः उत्तरपथे मुख्यमार्गे आसीत् इत्यनेन [[अन्ताराष्ट्रियम्|अन्ताराष्ट्रियं]] [[वाणिज्यकेन्द्रम्]] आसीत् । प्राचीन-[[ईरान|इरानेन]] तथा मध्य-[[जम्बूद्वीपः|एषियया]] सह सम्पर्कस्य प्रमुखमाध्यमवाहिनी आसीत् । केषाञ्चन विदुषां मतानुसारं गान्धर[[काम्भोजः|काम्भोजदेशयोः]] जनानां मूलम् एकम् एव आसीत् इति । [[कुरुः|कुरुवंशजाः]], काम्भोजाः, गान्धाराः, [[बाह्लिकाः]] च समानमूलीयाः आसन् । इरान्-मूलस्य गुणस्य च सादृश्यम् आसीत् तेषाम् इति । डा ॥ शाः इत्यस्य मतानुसारं गान्धारः काम्भोजः च एकस्यैव साम्राज्यस्य द्वौ प्रान्तौ आस्ताम् । तयोः सीमा समाना आसीत् । गान्धारदेशस्य [[काश्मीर|काश्मीरेण]] सह काम्भोजस्य अन्यभागैः सह च राजकीयसम्बन्धः आसीत् । [[तक्षशिला]] [[पुष्कलावती]] च गान्धारजनपदस्य प्रमुखनगरे आस्ताम् । [[अयोध्या|अयोध्यायाः]] राजपुत्रस्य [[भरतः|भरतस्य]] पुत्रौ [[तक्षः]] [[पुष्करः]] च । कालान्तरे तयोः एव नाम प्राप्तं स्यात् ताभ्यां नगराभ्याम् इति ऊह्यते । [[पाणिनिः|पाणिनेः]] [[अष्टाध्यायी|अष्टाध्याय्यां]] [[वेदाः|वेदयुगस्य]] गान्धारस्य स्वरूपम्, अनन्तरस्य गान्धारस्य स्वरूपं च विवृतम् अस्ति । कुत्रकित् गान्धारदेशः काश्मीरेण सह अपि योजितः दृश्यते । [[मिलेटसः|मिलेटस्]] कन्यापुरं (कास्मीरम्) गान्धारनगरम् इति निर्दिष्टवान् अस्ति । कुत्रचित् गान्धारः [[चन्दाहारः|"चन्दाहार"]]नाम्ना निर्दिष्टः दृश्यते । [[बौद्धधर्मः|बौद्धधर्म]]स्य शास्त्रेषु उल्लिखितः गान्धारदेशे पूर्व-[[अफगानिस्तान्|अफघानिस्तानस्य]] भूभागाः, [[पञ्जाबराज्यम्|पञ्जाबराज्य]]स्य वायुव्यभागाः (इदानीन्तन[[पेशावरम्|पेशावर]]-[[रावल्पिण्डि]]नगरम्) च अन्तर्भूताः आसन् । तक्षशिला तेषां राजधानी आसीत् । तदानीन्तनकाले [[तक्षशिलाविश्वविद्यालयः]] सुप्रसिद्धं विद्याकेन्द्रम् आसीत् । तक्षशिलाविश्वविद्यालयं प्रति जगतः सर्वस्मात् अपि भागात् विद्वांसः उन्नताध्ययनार्थम् आगच्छन्ति स्म । [[व्याकरणम्|व्याकरण]]शास्त्रस्य अधिदेवः इत्येव ख्यातः भारतीयव्याकरणशास्त्रज्ञः पाणिनिः, महान् [[अर्थशास्त्रम्|अर्थशास्त्रज्ञः]] [[चाणक्यः|कौटिल्यः]] च अस्य एव तक्षशिलाविश्वविद्यालयस्य एव रत्नद्वयम् । गान्धाराणाम् [[ऊर्णम्]] [[ऋग्वेदः|ऋग्वेदे]] अपि उल्लिखितम् अस्ति । [[अथर्ववेदः|अथर्ववेदे]] [[मुजवन्तः|मुजवदद्भिः]], [[अङ्गः|अङ्गैः]], [[मगधः|मगधैः]] सह गान्धाराः अपि उल्लिखिताः सन्ति । तत्र स्पष्टरूपेण ते उपेक्षिताः इति उक्तम् अस्ति । [[वायुपुराणम्|वायुपुराणानुसारं]] (॥.३६.१०७) [[पमितिः|प्रमितिः]] गान्धारदेशस्य नाशम् अकरोत् इति ।
 
[[वर्गः:साम्राज्यानि‎|गान्धारः]]
[[वर्गः:भारतेतिहाससम्बद्धाः स्टब्स्प्राचीनभारतम्|गान्धारः]]
 
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रंसारमञ्जूषा योजनीयम्योजनीया‎]]
"https://sa.wikipedia.org/wiki/गान्धरः_(जनपदः)" इत्यस्माद् प्रतिप्राप्तम्