"धर्मशास्त्रम्" इत्यस्य संस्करणे भेदः

चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:

'''धर्मशास्त्रम्''' (Dharmaśāstra) भारतीयशास्त्रेषु अन्यतमम् । भारतीयपरम्परायाम् अस्य शास्त्रस्य बहुमुख्यं प्राशस्त्यम् अस्ति । धर्मशब्दः ‘धृ’ धारणे इति धातोः व्युत्पन्नः । तत्र महाभारते ‘धारणाद्धर्म इत्याहुः धर्मो धारयते प्रजाः’ इति यद् उपवर्णितं तद् धर्मस्य यथार्थस्वरूपं संक्षेपेण प्रतिपादयति । एवं धर्मः समाजस्य धारणं नाम संरक्षणम् संवर्धनं च करोति, अर्थात् समाजकल्याणकारिणीं कामपि जीवनयापनपद्धतिं निर्दिशति । धर्मशब्दः प्रप्रथमतया ऋग्वेदे दृश्यते । अस्मिन् धर्मः इत्येतत् पदं धार्मिकविधिः, व्रतम्, आचारः इत्येतेषु अर्थेषु प्रयुक्तः अस्ति । अन्येषु सन्दर्भेषु धारकः पोषकः इत्येतौ अर्थौ बोधितः । तैत्तिरीय उपनिषदि 'धर्मञ्चर’ इति शिष्यानुशासनम्, मनुस्मृतौ 'भगवान्, सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि ॥' इति, याज्ञवल्क्यस्मृतौ ’योगिश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥' इति, पराशरस्मृतौ ’चातुर्वर्ण्यसमाचारं किञ्चित् साधारणं वद । चतुर्णामपि वर्णानां कर्तव्यं धर्मकोविदैः ॥' इत्येतेषु उक्तिषु प्राक्तनभारतीयसमाजस्य चतुर्वर्णीयैः आश्रमस्थैः अनुसरणीयाः आचाराः एव धर्मपदेन उपदिष्टाः भवन्ति ।

Line १३ ⟶ १५:
==धर्मस्य आकराः==
धर्मस्य आकराः विभिन्नेषु ग्रन्थेषु प्रतिपादिताः सन्ति । तानि,

*"वेदो धर्म मूलम् ।"

"तद्विदां च स्मृतिशीले ।" गौ.ध.सू, १,१.२

*"धर्मज्ञसमयः प्रमाणम् ।"

वेदाश्च । आ.ध.सू,१ , १.१, २-३

*उपदिष्टो धर्मः प्रतिवेदम् । बो.ध.सू १.१.१

स्मार्तो द्वितीयः । तृतीयश्शिष्टागमः । १, १,३-४

श्रुतिस्मृतिविहितो धर्मः ।

तदलाभे शिष्टाचारः प्रमाणम् । व,ध.सू १ ४-५

*अथातो धर्मं व्याख्यास्यामः ।

श्रुतिप्रमाणको धर्मः ॥ हा.ध.सू

*वेदोऽखिलो धर्ममूलम् । स्मृतिशीले च तद्विदाम् ।

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ म. २, ६

*वेदाः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।

एतच्चतुर्विधु प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ म, २ १-२

*श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रयमात्मनः ।

सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ या १,७

Line ६१ ⟶ ६३:

====आश्रमव्यवस्था====
धर्मशास्त्रे चात्वारः आश्रमाः व्यवस्थितया निरूपितवान् अस्ति । ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-सन्यासादयाः (चत्वारः) आश्रमाः । आश्रमाणां धर्माचरणम् उपनयनोत्तरम् इत्येव निर्दिष्टमिति ।

*ब्रह्मचर्याश्रमः- मुख्यः आदिमः आश्रमः। सद्गृहस्थः भवितुम् अस्य आश्रमस्य प्रामुख्यता वर्तते । ब्रह्मचर्यशब्दस्य अर्थः वेदानाम् अध्ययनम् एवं तेषां अनुष्ठानं च भवति । केचन नियमाः यथा,

'''षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।'''

'''तदर्धकं पादिकं वा ग्रहणान्तिकमेव वा ॥'''

Line ६८ ⟶ ७०:
'''अविप्लुतब्रह्मचर्यो गृहस्थाश्रममासेत् ॥'''<ref>मनुस्मृतिः, ३.१२</ref>

*गृहस्थाश्रमः- सकलाश्रमाणाम् आधारभूतः अतिमुख्यः च आश्रमः गृहस्थाश्रमः । सकलाश्रमाणां आधारस्तम्भः भवति । अस्य आश्रमस्य वैशिष्ट्यम् एवं निरूपितम्,

'''गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।'''

'''चतुर्णामाश्रमाणां तु गृहस्थश्च विशिष्यते ॥'''<ref>वसिष्ठः, ८. १४</ref>

:गृहस्थाः सन्ध्यादि षट् कर्माणि करणीयानि । तानि उक्तानि,

'''संध्यास्नानं जपो होमो देवतानां च पूजनम् ।'''

'''आतिथ्यं वैश्वदेवश्च षट् कर्माणि दिने दिने ॥'''

:गृहस्थेभ्यः कानिचन कर्तव्यानि निर्दिष्टानि सन्ति । तानि भवन्ति,

अध्यापनं ब्रह्मयज्ञः, षितैयज्ञस्तु तर्पणम् ।

होमो दैवो बलिर्भौतोनृयज्ञोऽतिथिपूजनम्॥<ref>मनुस्मृतिः, ३.७०</ref>

*वानप्रस्थः- देवऋणात्,ऋषिऋणात्, पितृऋणात् च मुक्तो भूत्वा , एवं क्रमशः यजनयाजनम्, अध्ययनम्, अध्यापनम्, पुत्रप्रजननानन्तरं पौत्रस्य जननं च दृष्ट्वा जटाधारीभूत्वा आवसथाग्निना सह काननं प्रति गन्तव्यम् । वन्यफलादिकं भुक्त्वा जीवितव्यम् । प्रतिनित्यं त्रिषवणम्(त्रिवारं स्नानम्), त्रिसन्ध्याजपम्, भूमौ शयितव्यम् । आत्मसिद्धि प्राप्तुं यतमानः भवेत् । श्रुतेः, उपनिषदानां च अध्ययनं निरन्तरतया भवेत् ।
*सन्यासाश्रमः- वानप्रस्तस्य अस्य च भेदः तावान् नास्ति । वानप्रस्थाश्रमे जटाधारिः भवति । अस्मिन् तु मुण्डितः भवति । अस्मिन् आत्मसाधनार्थं सर्वदा यतमानाः भवेयुः । उक्तञ्च,

वनेषु च विहृत्यैवं तृतीयं भागमायुषः ।

चतुर्थमायुषो भागं त्यक्त्वा सङ्गान् परिव्रजेत् ॥

सन्यासाश्रमधर्माः केचन पठिताः सन्ति । ते यथा,

न कुट्यां नोदरे सङ्गो न चैले न त्रिपुष्करे ।

नागारे नासने नान्ने यस्य वै मोक्षवित्तु सः ॥<ref name="वसिष्ठः, १०-२३">वसिष्ठः, १०-२३</ref>

अरण्यनित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य ।

आध्यात्म चिन्तागमानसस्य ध्रुवाह्यसौवृत्तिरुपेक्षकस्य ॥<ref> name="वसिष्ठः, १०-२३<"/ref>

*संस्काराः- संस्काराः सामान्यतया द्विधा विभक्ताः । जननपूर्वाः जननानन्तराणि च । संस्काराः षोडष उक्ताः सन्ति । तानि मनस्मृतौ उक्तानि सन्ति । यथा,गर्भादानम्, पुंसवनम्, सीमन्तोनयनम्, जातकर्म, नामकरणम्, निष्क्रमणम्, अन्नप्राशनम्, चूडाकरणम्, कर्णवेध, विद्यारम्भः, उपनयनम्, वेदारम्भः, केशान्तः, समावर्तनम्, विवाहः, अन्तेष्टिः च ।
:संस्काराणाम् उद्देश्यं निरूपितं मनुस्मृतौ । तद्यथा,

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।

कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥

Line १२२ ⟶ १२४:
[[वर्गः:धर्मशास्त्रम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/धर्मशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्