"ब्रह्मचर्याश्रमः" इत्यस्य संस्करणे भेदः

No edit summary
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
प्रथमे ब्रह्मचर्याश्रमे गुरुगृहं गत्वा ब्रह्मचर्यव्रतं स्वीकृत्य सकलशास्त्राणां विद्यानां च अध्ययनं क्रियते । योग्यतासम्पादनस्य अयं कालः । तत्तद्वर्णेभ्यः आश्रमेभ्यश्च विहितानां कर्तव्यानां सम्यक् ज्ञानं वर्णाश्रमव्यवस्थायाः यशसे आवश्यकमेव आसीत् । तद् अत्रैव सम्पाद्यते स्म । शास्त्रकारैः तथाविधा संस्कारक्षमा शिक्षापद्धतिः आविष्कृता यया संपूर्णसमाजस्य एकात्मतां हृदि धारयित्वा स्वकर्तव्यनिष्ठा जीवनाधारतत्त्वरूपेण सर्वैः स्वीकृता अभवत् । अध्यापनं तु ब्राह्मणाधीनम् । स्वस्य तपः पूतजीवनस्य आदर्शं छात्राणां पुरतः उपस्थाप्य वर्णानाम् अग्रेसरत्वं प्रस्थापितं खलु ब्राह्मणैः । एवं ब्रह्मचर्याश्रमे भाविनः जीवनस्य पूर्वसिद्धता इव क्रियते स्म ।
''[[गरुडपुराणम्|गरुडपुराणे]]'' (१-४९५) ब्रह्मचारिणः कर्तव्यानि एवम् उपदिष्टानि-
"https://sa.wikipedia.org/wiki/ब्रह्मचर्याश्रमः" इत्यस्माद् प्रतिप्राप्तम्