"यजुर्वेदः" इत्यस्य संस्करणे भेदः
Content deleted Content added
→यजुर्वेदस्य शाखाः: चित्रं योजनीयम् using AWB |
|||
पङ्क्तिः १:
{{Merge from|यजुर्वेदः}}
आध्वर्युकर्मसम्पादनाय यजुषां संकलनं यत्रास्ति सा यजुर्वेदसंहिता इत्युच्यते । यजुष् शब्दस्य व्याख्या भिन्नभिन्नरूपेण भवति । यथा- अनियताक्षरावसानो यजुः, गद्यात्मको यजुः,शेषे यजुश्शब्द इत्यादयः । परन्तु एतेषां तात्पर्यं एकमेव भवति यत् ऋग् सामादिभ्यः भिन्नानां गद्यात्मकमन्त्राणां अभिधानमेव यजुः ।
==यजुर्वेदस्य विभागः==
यजुर्वेदः द्विधा विभज्यते । यथा –शुक्लयजुर्वेदः, कृष्णयजुर्वेदश्चेति । तत्र ब्रह्मसम्प्रदायस्य प्रतिनिधिः कृष्णयजुर्वेदो भवति , आदित्यसम्प्रदायस्य प्रतिनिधिश्च शुक्लयजुर्वेदोऽस्ति ।शुक्लयजुर्वेदस्य मन्त्रसंहिता वाजसनेयीसंहिता इत्युच्यते । कृष्णयजुर्वेदस्य संहिता च मैत्रायणीसंहिता इति कथ्यते ।
==यजुर्वेदस्य शाखाः==
वायुपुराणानुसारं यजुर्वेदस्य ८६ शाखाः भवन्ति । चरणव्यूहाधारेणा अस्य ४३ शाखाः भवन्ति । पतञ्जलिमहाभाष्यकारेण अस्य एकशतशाखाः सन्तीति स्वीक्रियते । शुक्लयजुर्वेदस्य प्रधानशाखाद्वयं वर्त्तेते । यथा –माध्यन्दिनशाखा, काण्वशाखा च । कृष्णयजुर्वेदस्य चतस्रः शाखाः प्रधानाः भवन्ति । यथा – तैत्तिरीयशाखा, मैत्रायणी शाखा, कठशाखा, कपिष्ठलकठशाखा च ।
[[वर्गः:वेदाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
|