"संस्काराः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सारमञ्जूषा योजनीया using AWB
प्रस्तावना
पङ्क्तिः १:
{{हिन्दूधर्मः}}
 
'''संस्कार'''शब्दस्य अनेके समानार्थाः सन्ति । यथा - संस्करणं, परिष्करणं, विमलीकरणं, विशुद्धीकरणम् इति । 'सम्' उपसर्गपूर्वकं, 'कृञ् करणे' इतिधातुना सह 'घञ्' इत्यस्य प्रत्यस्य योजनोत्तरं 'सुट्' <ref> 'सम्परिभ्यां करोतौ भूषणे', पाणिनिसूत्रपाठः, ६,१.१३७ </ref> <ref> https://sa.wikisource.org/w/index.php?search=सम्परिभ्यां+करोतौ+भूषणे&title=विशेषः%3Aशोध&go=गम्यताम् </ref> योजिते संस्कारशब्दः निष्पद्यते । यथा मलिनवस्तु प्रक्षाल्य शुद्धं, पवित्रं च क्रियते, तथा च सुवर्णः अग्नौ तापयित्वा शुद्धः क्रियते, तथैव संस्कारैः जन्मजन्मान्तरेभ्यः सञ्चिताः मलरूपिणः निकृष्टकर्मसंस्काराः दूरीभवन्ति । अत एव हिन्दुमान्यतायां बालकस्य गर्भप्राप्तेः प्राग्तः जन्मपर्यन्तं, ततः वृद्धे सति मृत्युपर्यन्तं संस्काराः आचर्यन्ते । उक्तं चास्ति यत्,
{{quotation|
'''ब्रह्मक्षत्रियविट्शुद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ।'''<br>
'''निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ।।''' ([[याज्ञवल्क्यस्मृतिः]] [https://sa.wikisource.org/wiki/याज्ञवल्क्यस्मृतिः/आचाराध्यायः/ब्रह्मचारिप्रकरणम् १.१०]) }}
 
अर्थात्, गर्भाधानात् अन्त्येष्टिपर्यन्तं द्विजमात्राणां सर्वे संस्काराः वैदिकमन्त्रैः भवन्ति । संस्कारेभ्यः एव मनुष्यः द्विजत्वं प्राप्नोति इति ।
 
== सङ्ख्यामतभेदः ==
 
संस्काराणां विषये विभिन्नेषु मुनिषु मतभेदाः सन्ति । गौतमधर्मसूत्रानुसारं चत्वारिंशत् (४०) संस्काराः सन्ति <ref> चत्वारिंशत् संस्कारैः संस्कृतः, [[गौतमधर्मसूत्रम्]], १-८-८ </ref> । महर्ष्यङ्गिरसः मतानुसारं २५ संस्काराः सन्ति । वेदव्यासस्य मतानुसारं १६ संस्काराः मन्यते ।
 
==संस्कारशब्दार्थः==
बहुष्वर्थेषु संस्कारशब्दस्य प्रयोगो दृश्यते परिष्करण–भूषण-प्रशिक्षण-संस्कृति-स्वशुद्धिक्रिया धार्मिकविधानादिषु विभिन्नेष्वर्थेषु प्रयुक्तोऽयं संस्कारशब्दः । शास्त्रान्तरेष्वपि अस्य स्वरुपं भिन्नतया वर्णितम् । वेदान्तिनां मते "देहे समुत्पद्यमानः स्नानाचमनादिजन्यजीवधर्मः संस्कारः। भावस्य व्यक्तिकरणार्थमात्मब्यञ्जनशक्तिरेव संस्कार इति नैयायिकमतम् । धर्मशास्त्रे तु मानवस्य कायिक–वाचिकपरिशुद्ध्यर्थं धर्मिकक्रियानुष्ठानेनात्मनि जायमानो धर्मविशेषः संस्कार इति प्रतिपादितम् । सामान्यतः धार्मिकक्रियाकल्पार्थे संस्कारशब्दस्य व्यवहारो दृश्यते व्याकरणे । दोषापनोदनपूर्वकं गुणाधानमेव संस्कार इति फलितम् ।
Line ८९ ⟶ १०१:
==बाह्यसम्पर्कतन्तुः==
* [http://www.hinduculture.info HinduCulture]
 
== उद्धरणम् ==
 
{{reflist}}
 
{{Interwiki conflict}}
"https://sa.wikipedia.org/wiki/संस्काराः" इत्यस्माद् प्रतिप्राप्तम्