"कर्णाटकराज्यम्" इत्यस्य संस्करणे भेदः

सन्धिः
(सन्धिः)
| footnotes =
}}
[[File:Karnataka in India (disputed hatched).svg|300px|thumb|'''भारते कर्णाटकराज्यम्''']]कर्णाटकराज्यं भारतस्य दक्षिणदिशि स्थितम् अस्ति । सुन्दरतायै, विकासाय च इदं राज्यं भारते प्रसिद्धम् अस्ति । राज्यमिदं “यात्रिकेभ्यः स्वर्गः” इति अपि कथ्यते । [[कन्नडभाषा|कन्नड]]<nowiki/>-भाषायाः “कुरूनाडु” इति शब्देन “कर्णाटक” इति नामोत्पत्तिः जाता । तस्यार्थः भवति यत् – भव्यं, उच्चभूमिः च । २००० वर्षप्राचीनः अस्ति अस्य राज्यस्येतिहासः । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति । कर्णाटकस्य राजधानी [[बेङ्गलुरु]] अस्ति । एतत् कर्णाटकस्य आग्नेयभागे विराजते ।
==भौगोलिकम्==
भारतस्य दक्षिणदिशि स्थितम् अस्ति कर्णाटक-राज्यम् । कर्णाटक-राज्यस्य उत्तरदिशि [[महाराष्ट्र]]<nowiki/>-राज्यं, गोवा-राज्यं च स्थितम् अस्ति । दक्षिण-दिशि [[केरल]]<nowiki/>-राज्यं, पूर्वदिशि [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेश]]<nowiki/>-राज्यं, [[तमिळनाडु]]<nowiki/>-राज्यं च स्थितम् अस्ति । अस्य पश्चिमदिशि अरबसागरः स्थितः अस्ति ।
 
कर्णाटकराज्यस्य विस्तारः १,९१,७९१ चतुरस्रकिलोमीटर्मितः अस्ति । इदं राज्यं क्षेत्रफलदृष्ट्या अष्टमस्थाने, जनसङ्ख्यादृष्ट्या च नवमस्थाने विराजते । इदं राज्यं चतुर्षु प्रालकृतिकक्षेत्रेषु भौगोलिकक्षेत्रेषु वा विभक्तम् अस्ति । प्रथमम् उत्तरशैलप्रस्थः, सः शैलप्रस्थः समुद्रतलात् ३०० तः ६०० मीटर्मितं पर्यन्तम् उन्नतः अस्ति । द्वितीयं मध्यशैलप्रस्थः, सः समुद्रतलात् ४५० तः ७०० मीटर्मितं पर्यन्तम् उन्नतः अस्ति । तृतीयं दक्षिनशैलप्रस्थः, सः ९०० मीटर्मितम् उन्नतम् अस्ति । चतुर्थं तटीयक्षेत्रम् अस्ति । कर्णाटकराज्यस्य मैसूर-नगरे भारतस्य बृहत्तमः जलप्रपातः स्थितः अस्ति । “मुल्लायानागिरिः”, “बाबा बूदानगिरिः” च कर्णाटकराज्यस्य उच्चपर्वतशिखरे स्तः <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४४</ref>।
 
===[[जलवायुः]]===
कर्णाटक-राज्यस्य तटीयक्षेत्रेषु अत्यधिका वृष्टिः भवति । तेषां तापमानम् उष्णं भवति । राज्यस्य दक्षिणभागेषु वातावरणम् उष्णं, शुष्कं च भवति । किन्तु उत्तरीभागेषु वातावरणम् अल्पोष्णम्, अल्पशुष्कं च भवति । अस्मिन् राज्ये मई-मासे जून-मासे च अत्यन्तम् उष्णता भवति । तापमानं ४० डिग्री मात्रात्मकम् भवति । [[अक्तूबर|अक्टूबर]]<nowiki/>-मासतः [[मार्च]]<nowiki/>-मासपर्यन्तं कालः मनोहरः भवति । कर्णाटक-राज्ये प्रतिवर्षं वर्षर्तौ सामान्यतः १३९० मि.मी. मात्रात्मिका वृष्टिः भवति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४५</ref>।
===[[कर्णाटकस्य नद्यः|नद्यः]]===
[[तुङ्गानदी|तुङ्गा]], [[भद्रा]], [[तुङगभद्रा]], [[कावेरीनदी|कावेरी]], [[कबिनी|कपिला]], [[भीमा]], [[कृष्णा]], [[मलप्रभा]], [[घटप्रभा]], [[द्रोणा]], [[अर्कावती]], [[नेत्रावती]], [[शरावती]], [[हेमावती]], [[पयस्विनी]] इत्यादयः कर्णाटक-राज्यस्य प्रमुखाः नद्यः सन्ति । कर्णाटक-राज्यस्य पश्चिमतटात् बह्व्यः नद्यः समुद्भवन्ति । तासु शरावती-नदी प्रमुखा अस्ति । जोग-जलप्रपातः भारतस्य उच्चतमः जलप्रपातः अस्ति । शरावती-नदी एव जोग-जलप्रपातस्य मुख्याधाररूपा अस्ति । अयं जलप्रपातः २५३ पादोन्नतः अस्ति । कृष्णा-नदी कर्णाटक-राज्यस्य दीर्घतमा नदी अस्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४४</ref>।
 
=== [[कर्णाटकस्य पर्वताः|पर्वताः]] ===
[[चामुण्डिपर्वतः]] [[बिळिगिरिरङ्गाद्रिः]] [[स्कन्धगिरिः]] [[मलैमहादेश्वराद्रिः]] [[तडियाण्डमोल्पर्वतः]] [[नन्दिगिरिः]] [[नृपतुङ्गपर्वतः]] [[मधुगिरिः]] [[नरिमलेपर्वतः]] [[महिमरङ्गनाथस्वामिपर्वतः]] [[शिवगङ्गापर्वतः]] [[हिमवद्गोपालस्वामिपर्वतः]] [[मडिकेरिगिरिः]] [[पुष्पगिरिः]] [[कुन्दाद्रिः]] [[चन्द्रद्रोणपर्वतः]] [[सिद्दरबेट्टः]] [[मुळ्ळय्यनगिरिः]] [[मन्दरगिरिः]] [[कूटगल्पर्वतः]] [[श्रीरामदेवपर्वतः]] [[तालवाडिपर्वतः]] [[मेदिनिपर्वतः]] [[कुटचाद्रिः]] [[भैरवेश्वरशिखरम्]] इत्यादयः कर्णाटकराज्यस्य पर्वताः सन्ति ।
 
==[[कर्णाटकस्य इतिहासः|इतिहासः]]==
द्विसहस्रवर्षपुरातने कर्णाटकराज्यस्येतिहासे सर्वप्रथमः नन्दवंशस्य, मौर्यवंशस्य[[मौर्यसाम्राज्यम्|मौर्य]]<nowiki/>वंशस्य, सप्तवाहनवंशस्य राजभिः शासनं कृतम् आसीत् । तेषु चालुक्यवंशस्य[[चालुक्यवंशः|चालुक्य]]<nowiki/>वंशस्य “पुलकेशिन द्वितीय” इत्याख्यः राजा सर्वप्रसिद्धः अस्ति । तृतीयशताब्द्याः मध्ये मौर्यवंशशासकैः कर्णाटक-राज्ये शासनं कृतम् आसीत् । [[चन्द्रगुप्तः]] मौर्यवंशस्य संस्थापकः आसीत् । तेन [[जैनधर्मः]] अङ्गीकृतः । अनन्तरं तेन स्वस्य जीवनस्य अन्तिमः कालः अस्य प्रदेशस्य बेलगोला-नगरे एव यापितः । अस्मिन् प्रदेशे मौर्यराज्ञः अशोकस्य[[अशोकः|अशोक]]<nowiki/>स्य [[शिलालेखः|शिलालेखाः]] अपि प्राप्ताः । अनन्तरं सप्तवाहनवंशजैः शासनं कृतम् । तेषु शासकेषु शालिवाहनेन ई. स. ७८ तमे वर्षे “शकसंवत्” आरब्धः । किन्तु कनिष्काय एव अस्य शकसवत् वर्षस्य आरम्भस्य श्रेयः दीयते ।
 
सप्तवाहनवंशस्य पतनानन्तरम् उत्तरकर्णाटक-क्षेत्रे, तुङ्गभद्रा-नद्याः उपरिक्षेत्रे कदम्बशासकैः, दक्षिणकर्णाटकक्षेत्रे, तुङ्गभद्रा-नद्यः अधोभागे गङ्गशासकैः शासनं कृतम् आसीत् । ई. स. ३४५ तमे वर्षे मयूरशर्मणा ब्राह्मणेन कदम्बवंशस्य स्थापना कृता । पल्लववंशजानां राज्ये सः अपमानं प्राप्तवान् । अतः तेन पल्लवानां विरोधः कृतः । कदम्बवंशे ककुस्थवर्मन् इत्याख्यः अभवत् । सः अत्यन्तः शक्तिशाली आसीत् । अतः वकटराजभिः, गुप्तराजभिः च तेन सह वैवाहिकसम्बन्धः प्रस्थापितः । महाकविना कालिदासेन अपि तस्य राज्यस्य यात्रा कृता” इति मन्यते । गङ्ग-शासकैः सर्वप्रथमं कोलार-क्षेत्रे शासनम् आरब्धम् । अनन्तरं गङ्गशासकैः “तालकडु” इत्यत्र राजधानी प्रस्थापिता <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४०</ref>।
===[[चालुक्यवंशः]]===
षष्ठ्यां शताब्द्याम् ई. स. ५०० तः ७५३ पर्यन्तं चालुक्यवंशजैः शासनं कृतम् । पुलकेशिन इत्याख्यः चालुक्यवंशस्य सुप्रसिद्धः शासकः आसीत् । तेन हर्षवर्धनः युद्धे पराजितः । मन्यते यत् – चालुक्यवंशस्य शासनकाले एव कर्णाटकराज्यस्य एकीकरणम् अभवत् । चालुक्यवंशस्य शासनकालस्य बहव्यः कलाकृतयः प्राप्यन्ते । ताभ्यः कलाकृतिभ्यः एव चालुक्यवंशः प्रसिद्धः अस्ति । चालुक्यवंशस्य शासनानन्तरं राष्ट्रकूटवंशजैः शासनं कृतम् आसीत् । ध्रुवः, गोविन्दतृतीयः, इन्द्रकृष्णः च इत्यादयः अस्य वंशस्य प्रसिद्धाः शासकाः सन्ति । नवमशताब्द्यां “सुलेमान सौदागर” इत्याख्यः भारतदेशं प्राप्तवान् । तेन तत्कालीनविश्वस्य बृहत्तमेषु चतुर्षु साम्राज्येषु राष्ट्रकूटसाम्राज्याय स्थानं प्रदत्तम् । अरब-साम्राज्यं, रोम-साम्राज्यं, चीन-साम्राज्यम् च एतानि अन्यानि त्रीणि बृहत्तमानि साम्राज्यानि आसन् । दशमशताब्द्यां कल्याणीक्षेत्रस्य चालुक्यवंशजैः राष्ट्रकूटशासकाः पराजिताः । द्वादशशताब्द्यां यदा चालुक्यसाम्राज्यस्य विभाजनम् अभवत्, तदा त्रिभिः कन्नडराजवंशैः अस्मिन् प्रदेशे शासनं कृतम् । चतुर्दशशताब्द्यां विजयनगरसाम्राज्यस्य स्थापना अभवत् । तत् साम्राज्यं विशालं, समृद्धं च आसीत् । कर्णाटकराज्यस्य बृहत्तमः भागः विजयनगरसाम्राज्ये समाविष्टः जातः । विजयनगरसाम्राज्यस्य शासनानन्तरम् अस्य राज्यस्य दक्षिणक्षेत्रं मैसूरसाम्राज्यस्य राज्ञां नियन्त्रणे अभवत् । भारतस्य स्वातन्त्र्यानन्तरम् ई. स. १९५६ तमे वर्षे कन्नडभाषीयाणां क्षेत्राणां सम्मिश्रणेन मैसूर-राज्यस्य स्थापना जाता । समयान्तरे ई. स. १९७३ तमे वर्षे अस्य राज्यस्य नाम कर्णाटक-राज्यम् इति कृतम् <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३८</ref>।
 
ई. स. १७५९ तमे वर्षे “हैदर अली” इत्याख्यः शासकः तत्र आगतः । “टीपू सुल्तान” इत्याख्यः तस्य पुत्रः आसीत् । ताभ्यां द्वाभ्याम् आङ्ग्लसर्वकारेण सह युद्धानि कृतानि । ताभ्याम् आङ्ग्लैः सह युद्धचतुष्टयं कृतम् । इदं युद्धम् आङ्ग्ल-मैसूरयुद्धं, कर्णाटकयुद्धं वा इति ज्ञायते ।
 
* प्रथमम् आङ्ग्ल-मैसूरयुद्धम् – ई. स. [[१७६७]] तः [[१७६९]] पर्यन्तम् इदं युद्धम् अभवत् । “हैदर अली-आङ्ग्लानां मध्ये युद्धमिदं जातम् । ई. स. [[१७६९]] तमस्य वर्षस्य [[अप्रैल]]<nowiki/>-मासस्य ४ दिनाङ्के मद्रास-सन्धौ अस्य युद्धस्य समाप्तिः जाता ।
 
* द्वितीयम् आङ्ग्ल-मैसूरयुद्धम् – ई. स. [[१७८०]] तः [[१७८४]] पर्यन्तं “हैदर अली-आङ्ग्लानां मध्ये इदं युद्धम् अभवत् । अस्मिन् युद्धे “हैदर अली” इत्याख्यः पराजितः जातः । अस्य युद्धस्यानन्तरं मङ्गलौरसन्धिः जातः ।
 
* तृतीयम् आङ्ग्ल-मैसूरयुद्धम् – ई. स. [[१७९०]] तः [[१७९२]] पर्यन्तं “टीपू सुल्तान-आङ्ग्लानां मध्ये इदं युद्धम् अभवत् । अस्मिन् युद्धे टीपू सुल्तान इत्याख्यः पराजितः जातः । अन्ते तेन आङ्ग्लैः सह श्रीरङ्गपट्टनमसन्धिः कारितः ।
 
* चतुर्थम् आङ्ग्ल-मैसूरयुद्धम् – ई. स. [[१७९९]] तमे वर्षे इदं युद्धम् अभवत् । अस्मिन् युद्धे टीपू सुल्तान इत्याख्यस्य मृत्युः अभवत् <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४१</ref>।
 
== [[जनसङ्ख्या]] ==
[[२०११]] जनगणनानुगुणम्[[जनगणना]]<nowiki/>नुगुणम् कर्णाटक-राज्यस्य जनसङ्ख्या ६,११,३०,७०४ अस्ति । अत्र ३,१०,५७,७४२ पुरुषाः, ३,००,७२,९६२ महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटर्मिते ३१९ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३१९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.६०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८८ अस्ति । अत्र साक्षरता ७५.४९% अस्ति ।
 
==[[कर्णाटकस्य मण्डलानि|मण्डलानि]]==
कर्णाटकराज्ये २९ मण्डलानि सन्ति ।
 
*[[उडुपीमण्डलम्]]
*[[उत्तरकन्नडमण्डलम्]]
|}
|}प्रशासनसौकर्यार्थं एतानि मण्डलानि चतुर्षु भागेषु विभक्तानि सन्ति ।
 
== विभागाः ==
|}प्रशासनसौकर्यार्थं एतानिकर्णाटकराज्यस्य मण्डलानि चतुर्षु भागेषु विभक्तानि सन्ति ।
 
{| class="wikitable"
कर्णाटक-राज्ये पञ्चमहानगराणि सन्ति । तानि – बेङ्गळूरु, हुबली, मेङ्गलौर, मैसूर, हासन च ।
 
===[[बेङ्गळूरु]]===
बेङ्गळूरु-महानगरं कर्णाटक-राज्यस्य [[राजधानी]] अस्ति । इदं महानगरं मण्डलत्वेन अपि तिष्ठते । भारत—देशस्य[[भारत]]<nowiki/>-देशस्य प्रमुखेषु दशमहानगरेषु अन्यतमम् अस्ति । पुरा अस्य नगरस्य नाम “बेन्दाकाळूरु” इति आसीत् । समयान्तरे तस्य नाम “बेङ्गलूर” अभवत् । साम्प्रतम् अस्य नगरस्य आधिकारिकं नाम “बेङ्गळूरु” इति कृतम् । ई. स. १५३७ तमे वर्षे विजयनगरसाम्राज्यस्य कैम्पेगौडा इत्याख्येन सेनापतिना एकः लघुग्रामः स्थापितः आसीत् । सः ग्रामः साम्प्रतं “बेङ्गळूरु” इति नाम्ना ख्यातः अस्ति । पुरा इदं “गार्डन सिटी” इति नाम्ना अपि ज्ञायते स्म । इदं नगरं भारतस्य नूतनयुगस्य नगरम् अपि कथ्यते । पुरा बेङ्गळूरु-नगरे गङ्गा-राजवंशेन शासनं कृतम् । अनन्तरं होयसल-राजवंशस्य अधिकारे आगतम् । तदनन्तरं “हैदर अली” इत्याख्येन, तस्य पुत्रेण “टीपू सुल्तान” इत्याख्येन च तत्र शासनं कृतम् आसीत् ।
 
साम्प्रतम् इदं नगरं “सिलिकॉन् वेली” इति नाम्ना अपि ज्ञायते । यतः अस्मिन् नगरे सूचनाप्रौद्योगिकिक्षेत्रस्य (IT) तीव्रतया विकासः जातः । कर्णाटक-राज्यस्य दक्षिणपूर्वदिशि इदं महानगरं स्थितम् अस्ति । इदं नगरं ७४१ चतुरस्रकिलोमीटर्मितं विस्तृतम् अस्ति । अस्य नगरस्य जनसङ्ख्या ८४,२५,९७० अस्ति । समुद्रतलात् ३११३ पादोन्नतम् अस्ति इदं महानगरम् । अतः अस्य नगरस्य जलवायुः मनोहरः, सुखदश्च अस्ति । जवाहरलाल नेहरू तारामण्डल, लाल बाग, कब्बन पार्क्, द एक्वेरियम्, वेनकटप्पा आर्ट् गैलेरी, विधान सौधा, बनरगट्टा नेशनल पार्क् च इत्यदीनि बेङ्गळूरु-महानगरस्य वीक्षणीयस्थलानि सन्ति । श्रवणबेलगोला, नागरहोल, बान्दीपुर, रङ्गनाथिटु, बेलूर, हैलेबिड इत्यादीनि बेङ्गळूरु-महानगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । बेङ्गळूरु-महानगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तत्र विमानस्थानकं, रेलस्थानकं, बसस्थानकं च अस्ति । नगरस्य आन्तरिकक्षेत्राणि गन्तुम् अपि भाटकवाहनानि प्राप्यन्ते ।
 
===हुबली===
हुबली-नगरं दक्षिणभारतस्य महानगरं विद्यते । इदं नगरं धारवाड-नगरस्य अनुकृतं (Duplicate) नगरं कथ्यते । धारवाड-मण्डलस्य मुख्यालयः अस्ति धारवाड-नगरम् । हुबली-नगरं कर्णाटक-राज्यस्य उत्तरभागस्य वाणिज्यिककेन्द्रं विद्यते । कर्णाटकराज्यस्य विकासशीलनगरेषु इदं द्वितीयम् अस्ति । “हुब्बल्ली” इत्यनेन कन्न्डकन्नड-भाषायाः शब्देन “हुबली” शब्दस्य उत्पत्तिः जाता । इदम् ऐतिहासिकं नगरं विद्यते । चालुक्य-वंशकाले अस्य नगरस्य उत्पत्तिः अस्ति । रायरा हुबली, इलेया पुरावदा हल्ली, पुरबल्ली च इत्यादीनि अस्य नगरस्य पुरातनानि नामानि सन्ति । विजयनगर-साम्राज्यस्य शासनकाले कार्पासव्यापारस्य, लौहव्यापारस्य प्रमुखकेन्द्रम् आसीत् । ई. स. १७५६ तमे वर्षे इदं क्षेत्रं मराठा-शासकानां शासने आसीत् । किन्तु मध्ये कस्मिँश्चित् समयान्तराले “हैदरअली” इत्याख्येन इदं क्षेत्रं हृतम् । पुनश्च ई. स. १७९० तमे वर्षे मराठा-शासकैः इदं क्षेत्रं स्वाधीने कृतम् । ई. स. [[१८८०]] तमे वर्षे हुबली-नगरे आङ्ग्लशासकैः रेलयानस्य कार्यशाला आरब्धा । अतः एव विश्वस्मिन् इदं नगरं प्रसिद्धम् अस्ति । हुबली-नगरं कार्पासस्य, कलायस्य (Groundnut) च प्रमुखं व्यापारिकं केन्द्रम् अस्ति ।
 
भवानीशङ्करमन्दिरम्, असार, सिद्धरूधामठः, उन्कल-तडागः, नृपटूँगा बेट्टा, ग्लास् हाऊस् च हुबली-नगरस्य वीक्षणीयस्थलानि सन्ति । नविलतीर्थं, सथोडा, सोगल्ला, मथोडा-जलप्रपाताः, इस्कॉन्-मन्दिरं, स्काइस् पॉइण्ट्, उलाविया च इत्यादीनि हुबली-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः ऊष्णकटिबन्धीयः अस्ति । सः आर्द्रः, शुष्कश्च अस्ति । [[अक्तूबर|अक्टूबर]]<nowiki/>-मासतः [[फरवरी]]<nowiki/>-मासपर्यन्तं जनाः भ्रमणार्थं गच्छन्ति । हुबली-नगरं कर्णाटक-राज्यस्य प्रमुखस्थलैः सह सम्बद्धम् अस्ति । हुबली-नगरे एकं विमानस्थानकम् अपि अस्ति । ततः [[बेङ्गळूरु]]<nowiki/>-महानगराय, [[हैदराबाद्-नगरम्, भारतम्|हैदराबाद]]<nowiki/>-महानगराय, [[मुम्बई]]<nowiki/>-महानगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते ।
===[[मैसूरु|मैसूर]]===
मैसूर-नगरं कर्णाटक-राज्यस्य सांस्कृतिकराजधानी अस्ति । इदं नगरं कर्णाटक-राज्यस्य बृहत्तमेषु नगरेषु द्वितीयम् अस्ति । दक्षिणभारतस्य प्रसिद्धपर्यटनस्थलेषु इदं नगरं वेशभूषायै प्रसिद्धम् अस्ति । तत्रस्थानि सुन्दराणि उद्यानानि, भव्यभवनानि च जनान् आकर्षन्ति । ई स. [[२०१०]] तमे वर्षे “युनियन् अर्बन् डेवलप्मेण्ट् अथॉरिटी” इत्यनया संस्थया सर्वेक्षणं कृतम् । तस्मिन् सर्वेक्षणे ज्ञातं यत् –“मैसूर-नगरं भारत-देशस्य द्वितीयं, कर्णाटक-राज्यस्य प्रथमं च स्वच्छनगरम् अस्ति” इति । मैसूर-नगरं “सेण्डलवुड् सिटी” इत्यपि कथ्यते । अस्मिन् नगरे प्रतिवर्षम् अष्टाङ्गयोगकार्यक्रमः आयोज्यते । अस्मिन् कार्यक्रमे विदेशात् अपि बहवः योगप्रशंसकाः समागच्छन्ति । ई. स. [[१७९१]] तः [[१७९९]] तमवर्षपर्यन्तं मैसूर-नगरे “टीपू सुल्तान”, “हैदरअली” च इत्येतयोः शासनम् आसीत् । ई. स. [[१७९९]] तमे वर्षे टीपू सुल्तान इत्यस्य मृत्योः अनन्तरं मैसूर-नगरं पुनः वुडेयार-राज्यस्य राजधानी अभवत् । “कृष्णराजा वुडेयार चतुर्थ” इत्याख्यस्य शासकस्य शासनकाले अस्मिन् नगरे बृहन्मार्गाणां, भव्यभवनानां, तडागानां च निर्माणम् अभवत् ।
 
नगरेऽस्मिन् प्राचीनमन्दिराणि, सङ्ग्रहालयाः, तडागाः, उद्यानानि च सन्ति । अस्मिन् नगरे नैकाः भव्यप्रासादाः सन्ति । अतः “प्रासादानां नगरम्” इत्यपि कथ्यते । “मैसूर महल”, “अम्बा महल” च मैसूर-नगरस्य प्रसिद्धौ प्रासादौ स्तः । मैसूर-प्राणीसङ्ग्रहालयः, चामुण्डेश्वरीमन्दिरं, महाबलेश्वरमन्दिरं, सेण्ट् फिलोमेना चर्च्, वृन्दावन गार्डन, जगनमोहन महल आर्ट् गैलेरी, ललिता महल, जयलक्ष्मी विलास हवेली, रेलवे म्यूजियम्, करणजी झील, कुक्करहल्ली झील च इत्येतानि मैसूर-नगरस्य वीक्षणीयस्थलानि सन्ति । श्रीरङ्गपट्टनम, नञ्जनगुड, श्रीवानसमुद्री-जलप्रपातः, तलाकाडु मेलकोट, सोमनाथपुरम्, हैलेबिड, बेलूर, बान्दीपुर नेशनल पार्क्, श्रवणबेलगोला, कुर्ग चेत्यादीनि मैसूर-नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति ।
 
मैसूर-नगरं कर्णाटक-राज्यस्य दक्षिणभागे विराजते । इदं काबिनी-नद्याः मध्ये स्थितम् अस्ति । समुद्रतलात् इदं नगरं ७७० मीटर्मितम् उन्नतम् अस्ति । अतः अस्य नगरस्य जलवायुः सामान्यः एव भवति । मैसूर-नगरं [[बेङ्गळूरु]]<nowiki/>-महानगरात् १४० किलोमीटार्मिते दूरे स्थितम् अस्ति । मैसूर-नगरे एकं विमानस्थानकम् अपि विद्यते । ततः भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते ।
===मेङ्गलोर===
“मेङ्गलोर-नगरं कर्णाटक-राज्यस्य प्रवेशद्वारम् अस्ति” इति कथ्यते । इदं नगरम् अरब-सागरस्य तटे स्थितम् अस्ति । मङ्गलादेव्या नाम्ना अस्य नामकरणम् अभवत् । नगरमिदं प्रसिद्धः पोताश्रयः वर्तते । साम्प्रतं मेङ्गलोर-नगरं विभिन्नसंस्कृतीभिः परिपूर्णम् अस्ति । मेङ्गलोर-नगरस्य संस्कृतिः बहुधा वर्तते । यतः विविधनगरेभ्यः विविधसंस्कृतीनां जनाः निवसन्ति । नगरे यक्षगानं, [[कृष्णजन्माष्टमी]], कराडी वेशा नृत्यम्, [[विजयादशमी]] च इत्यादयः सांस्कृतिकोत्सवाः आचर्यन्ते । “कादरी मञ्जूनाथा मन्दिर”, सेण्ट् एलॉयसियस् चैपल्, रोसारियो कैथेड्रल्, जामा मस्जिद् च इत्यादीनि मेङ्गलोर-नगरस्य वीक्षणीयस्थलानि सन्ति । जनाः शीतर्तौ मेङ्गलोर-नगरस्य भ्रमणं कुर्वन्ति । [[दिसम्बर]]<nowiki/>-मासतः [[मार्च]]<nowiki/>-मासपर्यन्तम् अस्य नगरस्य वातावरणम् अनुकूलं भवति ।
 
मेङ्गलोर-नगरे सर्वकारप्रचालितानि बसयानानि सन्ति । इदं नगरं “राष्ट्रियराजमार्गः १३”, “राष्ट्रियराजमार्गः १७”, “राष्ट्रियराजमार्गः ४५” एतैः राजमार्गैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । बेङ्गळूरु-महानगराय, [[चेन्नै]]<nowiki/>-महानगराय, [[मुम्बई]]<nowiki/>-महानगराय, [[हासनम्|हासन]]<nowiki/>-नगराय च रेलयानानि प्राप्यन्ते । मेङ्गलोर-नगरे एकं विमान-स्थानकं विद्यते । तद् भारतस्य विभिन्नविमानस्थानकैः सम्बद्धम् अस्ति ।
 
===[[हासनम्|हासन]]===
हासन-नगरं कर्णाटक-राज्यस्य हासन-मण्डलस्य मुख्यालयः अस्ति । एकादशशताब्द्यां “चन्ना कृष्णप्पा नाइक” इत्याख्येन हासन-नगरं स्थापितम् आसीत् । अस्मिन् नगरे हासनअम्बा-मन्दिरम् अस्ति । हासनअम्बादेवी अस्य नगरस्य स्थानीयदेवी अस्ति । अतः अस्य नगरस्य नाम हासन अभवत् । अस्य नगरस्य स्थापत्यकला प्रसिद्धा अस्ति । पुरा होयसाल-वंशीयाः राजानः अत्र शासनं कुर्वन्ति स्म । अतः तेषां संस्कृतिः साम्प्रतमपि दृश्यते । होयसाल-वंशस्य राजानः जैनधर्मानुयायिनः आसन् । किन्तु सर्वत्र भगवतः शिवस्य मन्दिराणि विद्यन्ते । नगरमिदम् ऐतिहासिकम् अस्ति । अस्य नगरस्य विकासः तीव्रं जायमानः अस्ति । “भारतीय“[[भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)|भारतीय अन्तरिक्ष अनुसन्धान संस्थान]] (ISRO)” इत्यस्याः संस्थायाः मुख्यनियन्त्रणकेन्द्रत्वेन अपि अस्ति ।
 
हासन-नगरे सर्वकारप्रचालितानि बसयानानि प्राप्यन्ते । एतन्नगरं बेङ्गळूरु, मैसूर, मेङ्गलोर, मदिकेरी, चिकमङ्ग्लूर इत्यादिभिः नगरैः सह बसमार्गेण सम्बद्धम् अस्ति । हासन-नगरे रेलस्थानकम् अस्ति । ततः बेङ्गलूरु, मैसूर, मेङ्गलोर चेत्यादिभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । नगरेऽस्मिन् विमानस्थानक्कं नास्ति । किन्तु हासन-नगरात् बेङ्गळूरु-नगरस्य विमानस्थानकं २०७ किलोमीटर्मिते दूरे स्थितम् अस्ति । तत् अन्ताराष्ट्रियविमानस्थानकम् अस्ति ।
==[[भाषा]]==
“कन्नड” कर्णाटक-राज्यस्य मुख्यभाषा अस्ति । कर्णाटके अन्याः क्षेत्रीयभाषाः अपि सन्ति । यथा – तुलु, कोदावा, कोङ्कण च इत्यादयः । कर्णाटक-राज्ये [[हिन्दीभाषा|हिन्दी]]<nowiki/>-भाषा राष्ट्रियभाषात्वेन उपयुज्यते । जनाः भारतदेशस्य[[भारतम्|भारत]]<nowiki/>देशस्य विभिन्ननगरेभ्यः, ग्रामेभ्यः च पठनार्थं, वृत्त्यर्थं वा कर्णाटक-राज्यं गच्छन्ति । अतः आङ्ग्ल-भाषा, मराठी-भाषा, मलयालम-भाषा, तमिल-भाषा, तेलुगू-भाषा च इत्यादयः भाषाः अपि व्यवहारे उपयुज्यन्ते ।
 
==शिक्षणम्==
ई. स. [[२०११]] वर्षस्य जनगणनानुगुणं कर्णाटकराज्यस्य साक्षरतामानं ७५.४९ प्रतिशतम् आसीत् । तेषु पुरुषाणां साक्षरतामानं ८२.८५ प्रतिशतं, महिलानां च साक्षरतामानं ६८.१३ प्रतिशतम् अस्ति । कर्णाटक-राज्यं विभिन्ननगरेभ्यः जनाः पठितुं समागच्छन्ति । सम्पूर्णे भारते शिक्षणक्षेत्रे कर्णाटक-राज्यस्य महद्योगदानं वर्तते । अस्मिन् राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । “भारतीय प्रबन्धन संस्थानम्, बेङ्गळूरु (IIM)”, “बेङ्गळूरु-विश्वविद्यालयः”, “गुलबर्गा-विश्वविद्यालयः, गुलबर्गा”, “कर्णाटक राज्य मुक्त (Open) विश्वविद्यालयः, मैसूर”, “नेशनल लॉ स्कूल् ऑफ् इण्डियन् युनिवर्सिटी, बेङ्गळूरु” “राष्ट्रीय प्रौद्योगिकी संस्थानम्, सूरथकाल”, “भारतीय सांख्यिकी संस्थानम्, बेङ्गळूरु”, “सेण्ट्रल् इन्स्टीट्यूट् ऑफ् इण्डियन् लैङ्ग्वैजेज्, मैसूर”, “मेङ्गलौर-विश्वविद्यालयः, मेङ्गलौर”, “मैसूर-विश्वविद्यालयः, मैसूर”, “युनिवर्सिटी ऑफ् एग्रीकल्चरल् साइन्सेज्, बेङ्गळूरु” च इत्यादीनि प्रमुखाणि शैक्षणिकसंस्थानानि कर्णाटकराज्ये स्थितानि सन्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २४५-२४६</ref>।
 
२००६ वर्षानुगुणं कर्णाटकराज्ये ५४,५२९ प्राथमिकविद्यालयाः आसन् । तेषु विद्यालयेषु २,५२,८७५ शिक्षकाः, ८४.९५ लक्षं विद्यार्थिनः च सन्ति । इतः परं ९,४९८ माध्यमिकविद्यालयाः सन्ति । तेषु ९२,२८७ शिक्षकाः, १३.८४ लक्षं विद्यार्थिनः च सन्ति । अधिकतमेषु विद्यालयेषु कन्नड-भाषा, आङ्ग्लभाषा वा शिक्षणमाध्यमेन प्रयुज्यते । सर्वकारप्रचालितेषु विद्यालयेषु, माध्यमिकविद्यालयेषु च सर्वकारेण शूल्कहीनं मध्याह्नभोजनं प्रदीयते । इतः परम् अपि कर्णाटक-राज्यस्य सर्वकारः योग्यछात्रेभ्यः छात्रवृत्तिं यच्छति, अध्ययने साहाय्यम् अपि करोति च । राज्ये ३५ चिकित्सामहाविद्यलयाः, ४० दन्तचिकित्सामहाविद्यालयाः च स्थिताः सन्ति । कर्णाटक-राज्ये संस्कृतशिक्षायै अपि कार्याणि प्रचलन्ति सन्ति । अतः उडुपी-नगरे, शृङ्गेरी-नगरे, गोकर्ण-नगरे, मेलकोट-नगरे च वैदिकशिक्षायै, संस्कृतशिक्षायै च शैक्षणिकसंस्थानानि विद्यन्ते ।
 
==[[धर्मः]]==
कर्णाटक-राज्ये विभिन्नधर्मानुयायिनः निवसन्ति । [[आदिशङ्कराचार्यः|जगद्गुरुशङ्कराचार्येण]] सम्पूर्णे [[भारतम्|भारते]] चतुर्दिक्षु प्रमुखाः चत्वारः पीठाः स्थापिताः आसन् । तेषु दक्षिणदिशि कर्णाटक-राज्ये शृङ्गेरी-मठः स्थापितः । विशिष्टाद्वैतवादस्य प्रवर्तकेन रामानुजाचायेण अपि मेलकोट-नगरे बहूनि वर्षाणि अतिवाहितानि । सः ई. स. [[१०९८]] तमे वर्षे कर्णाटक-राज्यं प्राप्तवान् । ई. स. [[११२२]] पर्यन्तं स तत्र न्यवसत् । मेलाकोट्-नगरे तेन शैल्वनारायणमन्दिरं स्थापितम् । तत्र मठः अपि स्थापितः तेन । तस्मिन् काले रामानुजाचार्यः होयसालवंशस्य राज्ञः विष्णुवर्धनस्य संरक्षणं प्राप्तवान् । द्वादशशताब्द्यां जातिवादकारणात्, सामाजिककुप्रथाभ्यः च उत्तरकर्णाटक-क्षेत्रे वीरशैवधर्मः समुद्भूतः । अस्मिन् आन्दोलने “बसव”, “अक्का महादेवी”, अलाम प्रभु च अग्रण्यः व्यक्तयः आसन् । तैः अनुभवमण्डपस्य स्थापना कृता । तदा शक्तिविशिष्टाद्वैतः उद्भूतः । साम्प्रतम् अस्य शक्तिविशिष्टाद्वैतवादस्य बहवः अनुयायिनः सन्ति ।
अस्मिन् राज्ये जैनधर्मस्य अपि प्रभावः अधिकः आसीत् । कर्णाटकराज्यस्य सांस्कृतिकपरिदृश्ये जैनसाहित्यस्य, जैनदर्शनस्य च महत्पूर्णं योगदानम् आसीत् । प्रायः दशमशताब्द्यां भारतस्य पश्चिमतटे इस्लाम-धर्मस्य उदयः जातः । अयं धर्मः कर्णाटक-राज्यस्य बहमनी-साम्राज्यस्य, बीजापुर-साम्राज्यस्य च संरक्षणं प्राप्तवान् । षोडशशताब्द्यां पुर्तगालिजनाः भारतं समागतवन्तः । ई. स. १५४५ तमे वर्षे “सेण्ट् फ्रान्सिस् जेवियर्” इत्याख्यः अपि आगतः । तावदेव अस्मिन् राज्ये ईसाई-धर्मः आरब्धः जातः । एवं च गुलबर्ग, बनवासी च इत्यादिषु क्षेत्रेषु च प्रथमसहस्राब्दौ बौद्धधर्मस्य उत्पत्तिः जाता । ई. स. १९८३ तमे वर्षे गुलबर्ग-क्षेत्रे मौर्यकालस्य अवशेषाः, अभिलेखाः च प्राप्ताः । तैः ज्ञायते यत् – “कृष्णानद्याः क्षेत्रे बौद्धधर्मस्य प्रचारः अभवत्” इति ।
 
==क्रीडा==
भारतस्य यष्टिक्रीडायां[[यष्टिकन्दुकक्रीडा|यष्टिक्रीडा]]<nowiki/>यां कर्णाटक-राज्यस्य कोडगु-मण्डलस्य महद्योगदानं भवति । तस्मिन् मण्डलस्य बहवः क्रीडालवः अन्ताराष्ट्रियस्तरे भारतीययष्टिक्रीडासमूहस्य प्रतिनिधित्वम् अकुर्वन् । “कोडव हॉकी उत्सव” विश्वस्य बृहत्तमः यष्टिक्रीडोत्सवः अस्ति । बेङ्गळूरु-महानगरे प्रतिवर्षं बहवः क्रीडोत्सवाः आयोज्यन्ते । तत्र “महिला टेनिस सङ्घ” इत्याख्येन टेनिस्-क्रीडा आयोजिता । बेङ्गळूरु-महानगरे भारतस्य सर्वोच्चक्रीडासंस्थाने स्थिते सन्ति । ते – “भारतीय खेल प्राधिकरण”, “नाइके टेनिस अकादमी” च । तरणस्पर्धायाम् अपि अस्य राज्यस्य स्नातारः (Swimmer) प्रसिद्धाः सन्ति । क्रिकेट्-क्रीडा कर्णाटक-राज्यस्य लोकप्रियक्रीडा वर्तते । अस्य राज्यस्य क्रीडासमूहः षड्वारं “रणजी-विजयवैजयन्तिं” प्राप्तवान् । बेङ्गळूरु-महानगरे “चिन्नास्वामी क्रीडाङ्गणम्” अस्ति । अस्मिन् क्रीडाङ्गणे अन्ताराष्ट्रिय-क्रिकेट्-क्रीडास्पर्धाः आयोज्यन्ते । ई. स. २००० तमे वर्षे “राष्ट्रिय-क्रिकेट्-अकादमी” संस्थायाः केन्द्रम् आसीत् इदं राज्यम् । ई. स. १९९० तमे वर्षे एका अन्ताराष्ट्रिया क्रिकेट्-स्पर्धा अभवत् । तस्यां स्पर्धायाम् अस्य राज्यस्य क्रीडालवः अधिकाः आसन् । इतः परं खो खो, कबड्डी, चिन्नई डाण्डु च इत्यादयः कीडाः जनाः क्रीडन्ति । “प्रकाश पादुकोन” इत्याख्यः पिच्छकन्दुकक्रीडायां (Badminton) विजेता आसीत् । सः “ऑल् इङ्ग्लैण्ड् बेडमिण्टन् चैम्पियनशीप” इत्यस्याः स्पर्धायाः विजेता अपि आसीत् । अपरं च “पङ्कज आडवाणी” इत्याख्यः अपि पिच्छकन्दुकक्रीडायाः क्रीडालुः अस्ति । तेन विंशतिवर्षाणां वयसि एव पिच्छकन्दुकक्रीडास्पर्धा अपि आरब्धा ।
कर्णाटकराज्ये द्विचक्रिकाचालनस्पर्धा अपि भवति । अस्यां स्पर्धायां “प्रेमलता सुरेबान” इत्याख्या भारतीयप्रतिनिधिषु अन्यतमा आसीत् । क्रीडालूनाम् उत्साहं दृष्ट्वा राज्यसर्वकारेण “बी. आर्. अम्बेडकर स्टेडियम्” इत्यस्मिन् क्रीडाङ्गणे द्विचक्रिकापथः निर्मापितः । तस्य निर्माणकार्ये ४० लक्षं रुप्यकाणां व्ययः अभवत् ।
 
==[[अर्थव्यवस्था]], [[कृषिः]] च==
कर्णाटक-राज्यस्य अर्थव्यवस्था कृष्याधारिता अस्ति । कर्णाटक-राज्यस्य प्रायः ५६ प्रतिशतं श्रमशक्तिः कृषिकार्ये संलग्ना अस्ति । कार्पासः, व्रीहिः, लवेटिका, कलायः, सूर्यमुखी (पुष्पं), तमालपत्रं च इत्यादीनि अस्य राज्यस्य प्रमुखानि सस्यानि सन्ति । काफी, काजूतकं, नारिकेलं, एला (Cardamom), पुगीफलं च इत्यादीनि सस्यानि अपि कर्णाटकराज्ये भवन्ति । काफीपेयस्य उत्पादने भारतस्य राज्येषु कर्णाटकराज्यस्य प्रथमं स्थानम् अस्ति । सम्पूर्णदेशस्य ६० प्रतिशतं काफी-सस्यं कर्णाटकराज्ये उत्पाद्यते । उपस्कराणाम् (Spice) उत्पादने भारतस्य राज्येषु तृतीये स्थाने तिष्ठते कर्णाटकराज्यम् । अस्मिन् राज्ये चन्दनकाष्ठस्य अपि सर्वाधिकम् उत्पादनं भवति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४५</ref>।
 
===उद्योगाः===
कर्णाटक-राज्यस्य [[बेङ्गळूरु]]<nowiki/>-महानगरम् औद्योगिकदृष्ट्या समृद्धम् अस्ति । तन्महानगरं भारतस्य “सिलिकॉन् वैली” इति नाम्ना प्रसिद्धम् अस्ति । कर्णाटकराज्ये बहवः उद्योगाः सन्ति । स्वयंचालितयन्त्राणांस्वचालितयन्त्राणां (Automobile), वायुयानानां (Aeronautics), भेषजानां (pharmaceutical), सूचनाप्रौद्योगिक्याः च क्षेत्रे बहवः उद्योगाः दृश्यन्ते । अतः एव बेङ्गळूरु-महानगरं “विद्युन्नगरम्” अपि कथ्यते । स्वर्णं, रजतं, लौहः, मैङ्गनीज्, कर्करः, कौलालकं (porcelain), ताम्रं च इत्यादयः खानिजाः कर्णाटकराज्ये समुत्पद्यन्ते । “हिन्दुस्तान एयरोनॉटिक्स् लिमिटेड्”, “हिन्दुस्तान मशीन टूल्स्”, “भारत इलेक्ट्रॉनिक्स्”, “इण्डियन् टेलीफोन् इण्डस्ट्रीज्”, “नेशनल एयरोनॉटिक्स् लैबोरेटरी”, “भद्रावती लौह इस्पात केन्द्र” च कर्णाटक-राज्यस्य प्रमुखानि उद्योगकेन्द्राणि सन्ति ।
 
जैवप्रौद्योगिकीक्षेत्रे अपि कर्णाटक-राज्यं सर्वप्रथमं वर्तते । इदं राज्यं भारतस्य बृहत्तमस्य जैवाधारितोद्योगसमूहस्य केन्द्रम् अपि अस्ति । सम्पूर्णे भारते आहत्य ३२० जैवप्रौद्योगिकीसंस्थाः प्रचाल्यमानाः सन्ति । तेषु १५८ संस्थाः कर्णाटक-राज्ये स्थिताः सन्ति । भारतस्या पुष्पोद्योगे अपि अस्य राज्यस्य ७५ प्रतिशतं योगदानं वर्तते । अस्मात् राज्यात् भारतस्य विभिन्ननगरेभ्यः विशिष्टपुष्पाणाम् आपूर्तिः क्रियते । भारतस्य बृहत्तमेषु वित्तकोषेषु केनरावित्तकोषस्य, सिण्डिकेट्-वित्तकोषस्य, कॉर्पोरेशन्-वित्तकोषस्य, विजया-वित्तकोषस्य, वैश्य-वित्तकोषस्य, स्टेट् बैङ्क ऑफ् मैसूर्-वित्तकोषस्य चेत्येतेषां सप्तवित्तकोषाणाम् उद्गमस्थानं कर्णाटकराज्यम् एव अस्ति । ई. स. [[२००२]] तमस्य मार्च-मासानुगुणं कर्णाटक-राज्ये विभिन्नवित्तकोषाणाम् आहत्य ४७६७ शाखाः विराजन्ते <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४५</ref>।
 
==सर्वकारः शासनव्यवस्था च==
{{Main|कर्णाटकसर्वकारः}}
==राजनीतिः==
कर्णाटक-राज्ये द्विसदनात्मकं विधानसभामण्डलं वर्तते । तयोः मण्डलयोः प्रथमाप्रथमः विधानपरिषद्, द्वितीया [[विधानसभा]] च अस्ति । कर्णाटक-राज्यस्य विधानसभायां २२४ स्थानानि, विधानपरिषदि च ७५ स्थानानि च सन्ति । अस्मिन् राज्ये लोकसभायाः २८ स्थानानि, राज्यसभायाः १२ स्थानानि च सन्ति । ई. स. १९७१ तमस्य वर्षस्य मार्च-मासस्य विंशतितमे दिनाङ्कतः (२० मार्च १९७१) ई. स. १९७२ पर्यन्तम् आसीत् । भारतीय जनता पार्टी, [[भारतीयराष्ट्रियकाङ्ग्रेस्|भारतीय राष्ट्रीय कॉङ्ग्रेस्]], जनता दल (एस्), [[जनतादलम्(संयुक्तम्)|जनता दल]] (यू), भारतीय कम्युनिस्ट् पार्टी (मार्क्सवादी) इत्यादयः कर्णाटक-राज्यस्य राजनैतिकसमूहाः सन्ति । कर्णाटक-राज्यस्य उच्चन्यायालयः बेङ्गळूरु-महानगरे स्थितः अस्ति । ई. स. [[१८८४]] तमे वर्षे कर्णाटक-राज्यस्य उच्चन्यायालयस्य स्थापना अभवत् <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २४१-२४२</ref>।
 
==कला, संस्कृतिश्च==
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/387369" इत्यस्माद् प्रतिप्राप्तम्