"युधिष्ठिरः" इत्यस्य संस्करणे भेदः
Content deleted Content added
ः |
|||
पङ्क्तिः १:
{{
'''युधिष्ठिरः''' पञ्चपाण्डवेषु ज्येष्ठः । [[पाण्डुः|पाण्डु]]महाराजस्य पुत्रः । [[कुन्ती]] अस्य माता । [[भीमः]], [[अर्जुनः]] च युधिष्ठिरस्य अनुजौ । [[नकुलः]] [[सहदेवः]] च युधिष्ठिरस्य विमातुः [[माद्री|माद्र्याः]] पुत्रौ । अयं युधिष्ठिरः [[यमः|यम]]धर्मराजस्य वरेण जन्म प्राप्नोत् । [[महाभारतम्|महाभारतस्य]] प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः ।
महाराज: युधिष्ठिर: अपि भीष्म: इव अत्यन्तम् उच्चस्तरीय: महापुरुष: आसीत् । एष: साक्षात् धर्मस्य अंशत: जन्म प्राप्य मूर्तिमान् धर्मः इव आसीत् । अत: एव जना: एतं ‘धर्मराजः ’ इति आह्वयन्ति । एतस्मिन् धैर्यं, स्थिरता, सहिष्णुता, नम्रता, दयापरता अचलप्रीति: इत्यादय: अनेके अलौकिकगुणा: आसन् । एष: स्वस्य शीलस्य, सदाचारस्य, विचारशीलताया: च कारणत: बाल्ये एव अतीवलोकप्रिय: अभवत् । यदा एष: इतोऽपि लघुबाल: आसीत् तदा एव एतस्य पिता [[पाण्डु:]] स्वर्गस्थ: अभवत् । तदारभ्य एव एष: स्वस्य ज्येष्ठपितृव्यं धृतराष्ट्रं पिता इव बहु गौरवेण पश्यति स्म । तस्य कस्यापि आज्ञामपि न उल्लङ्घयति स्म । किन्तु [[धृतराष्ट्र:
किन्तु
▲किन्तु [[धृतराष्ट्र:|धृतराष्ट्रः]] स्वस्य कुटिलस्वभावस्य कारणतः एतस्य गुणानां प्रशंसां श्रुत्वा श्रुत्वा मनसि एव करोति स्म । धृतराष्ट्रस्य पुत्रः [[दुर्योधन:|दुर्योधनः]] एवं चिन्तितवान् ’ कथञ्चित् कतिपयदिनानि यावत् पाण्डवान् हस्तिनापुरतः दूरं प्रेषयामः चेत् तेषाम् अनुपस्थितौ पित्रार्जित- अधिकारं स्वीकृत्य अहमेव राजा भविष्यामि’ इति । सः स्वस्य अन्धस्य, पितुः अङ्गीकारं प्राप्तवान् । धृतरष्ट्रः पाण्डवान् आहूय उत्सवदर्शनार्थं तान् वारणावताय प्रेषणस्य प्रस्तावं कृतवान् । एषा तस्य आज्ञा इति मत्वा आक्षेपं विना मात्रा कुन्त्या सह पञ्चसहोदराः अपि वारणावतं गतवन्तः । तत्र एतेषां दहनं कर्तुं दुर्योधनः एकस्य लाक्षागृहस्य निर्माणं कृतवान् आसीत् । तस्मिन् एव गृहे ते निवसन्तु इति आग्रहः अपि कृतः । कनिष्ठपितृव्यस्य [[विदुरः|विदुरस्य]] साहाय्येन एते कथञ्चित् प्राणान् रक्षयित्वा ततः पलायितवन्तः । एते मृताः इति मत्वा कौरवाः हस्तिनापुरे अधिकारं गृहीतवन्तः । कतिपय- दिनानन्तरं [[द्रौपदी|द्रौपद्याः]] स्वयंवरे पाण्डवानां रहस्यस्य स्फोटनमभवत् । कौरवाः ज्ञातवन्तः यत् पाण्डवाः इतोऽपि जीवन्ति इति । तदा धृतराष्टः विदुरं प्रेषयित्वा पाण्डवान् हस्तिनापुरं प्रति आहूतवान् । स्वपुत्रैः सह तेषां कलहस्य निर्मूलनाय अर्धं राज्यं स्वीकृत्य खाण्डवप्रस्थे पाण्डवाः तिष्ठन्तु इत्येतं प्रस्तावं तेषां पुरतः उपस्थापितवान् । युधिष्ठिरः एतं प्रस्तावम् अपि अङ्गीकृतवान् । सः स्वसहोदरैः सह खाण्डवप्रस्थं गतवान् । तत्र ते इब्द्रप्रस्थनामिकां एकां पृथक् राजधानीं कृत्वा शासनम् आरब्धवन्तः । तत्रैव राजसूययज्ञमपि कृतवन्तः । ज्येष्ठाः राजानः आगत्य यज्ञे भागं गृहीत्वा अमूल्यानि उपायनानि दत्तवन्तः । युधिष्ठिरमेव चक्रवर्तिः इति अङ्गीकृतवन्तः।
▲किन्तु कौरवाः अत्रापि एतान् आनन्देन स्थातुं न त्यक्तवन्तः । एतेषां वैभवं दृष्ट्वा दुर्योधनः असूयया ग्रस्तः अभवत् । सः एकं विशालं सभाभवनं निर्माय पाण्डवान् द्यूतक्रीडार्थम् आहूतवान् । द्यूतक्रीडा अनुत्तमा इति ज्ञात्वा अपि ’धृतराष्ट्रस्य आज्ञा’ इति निमन्त्रणं स्वीकृतवान् । क्रीडायां दुर्योधनस्य मातुलः [[शकुनिः|शकुनेः]] कुतन्त्रकारणतः युधिष्ठिरः पूर्णं पराजयं प्राप्तवान् । पूर्णसभायां राज्ञ्याः द्रौपद्याः अपमाननं कृतवन्तः। तथापि धृतराष्ट्रस्य विषये एतस्य मनसि गौरवभावः एव आसीत् । धृतराष्ट्रः अपि तेभ्यः ऐश्वर्यं, सर्वं राज्यं च दत्त्वा पुनः इन्द्रप्रस्थय प्रेषितवान् । किन्तु एतत् दुर्योधनः न सोढवान् । सः कथञ्चित् धृतराष्ट्रम् अङ्गीकार्य दूतं प्रेषयित्वा पुनः पाण्डवान् आहूतवान् । वनवासस्य निबन्धनं स्थापयित्वा पुनः द्यूतं क्रीडितवन्तः । एतस्य दुष्परिणामः पुनरेकवारम् अनुभूतः । युधिष्ठिरः कौरवाणां नीतिं ज्ञात्वा अपि ज्येष्टपितृव्यस्य आज्ञां न तिरस्कृतवान् । अस्मिन् समयेऽपि पराजयः एव प्राप्तः । तेन कारणेन स्वस्य सर्वस्वमपि त्यक्त्वा सहोदरैः, राज्ञ्या द्रौपद्या सह द्वादशवर्षाणां वनवासम् , एकवर्षस्य अज्ञातवासं च करणीयम् आपतितम् । पितृव्यस्य आज्ञापालकः धर्मस्य आचरणाय सर्वं तूष्णीं सोढवान् । धन्या तस्य पितृभक्तिः ।
▲एषः सर्वविधम् अवमाननं सोढुं शक्नोति स्म । किन्तु धर्मस्य अपमाननं सोढुं न शक्नोति स्म । प्रथमवारं क्रीडायां चतुरः अनुजान्, द्रौपदीं, आत्मानं च विनष्टवान् । द्रौपद्याः अपमाननं जातं चेदपि धर्मपाशेन बद्धः एषः सर्वं मौनेन सोढवान् ।कोऽपि सामान्यः चेदपि स्वस्य पुरतः पत्न्याः एतादृशिं दुर्गतिं द्रष्टुं न अशक्ष्यत् । अग्रजस्य भयेन अनुजाः अपि किमपि न उक्तवन्तः । मनसि ज्वालाग्निः दहति स्म । इच्छन्ति चेत् तादृशस्य अत्याचारस्य स्थगनं कर्तुम् एते शक्नुवन्ति स्म । अग्रजं दृष्ट्वा सर्वे तूष्णीम् उपविष्टवन्तः । धर्मराजः एतद् सर्वं कापट्यम् एव इति ज्ञात्वा अपि धर्मस्य रक्षणार्थं सोढवान् । धर्मः, प्रीतिः, सहनशीलतायाः इतोऽपि श्रेष्ठ-उदाहरणानि जगति अन्यानि न स्युः ।
यदा
महाराजः
कदाचित् आश्रमे [[द्रौपदी]] एकाकिनी आसीत् ।
महाराजः
[[ta:தர்மன்]]
▲[[वर्गः: महाभारतस्य पात्राणि]]
<small>Small text</small>
[[वर्गः:
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संसारमञ्जूषा योजनीया]]
{{Interwiki conflict}}
|