"जैमिनिः" इत्यस्य संस्करणे भेदः

→‎सम्बद्धाः लेखाः: सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः ३६:
४) किञ्च पाणिनेर्गुरुः आसीदुपवर्षः इति प्रसिद्धिः। सोऽपि जैमिन्यपेक्षया अर्वाचीनः। यतोहि शबरेण मीमांसासूत्रभाष्ये वृत्तिकारः भगवान् इत्याद्युपाधिना उपवर्षः सम्बोध्यते− ‘अथ गौरित्यत्र कः शब्दः? गकारौकारविसर्जनीया इति भगवानुपवर्षः’ (शाबरभाष्यम्- १.१.५) इति। एवञ्च उपवर्षादपि जैमिनिः प्राचीनः।
 
एवं समीक्षया जैमिनिः ख्रीष्टपूर्वदशशतकात्ख्रीष्टपूर्वदशमशतकात् पूर्वमेव आसीत् न परतः इति सिद्ध्यति। गजाननमहोदयस्तु ५००० ई. पू. समये जैमिनिरासीदित्यभिप्रैति।
 
==कृतिः==
पङ्क्तिः ४२:
भगवता जैमिनिना द्वादशाध्यायात्मिका शताधिकाधिकरणोपेता सप्तविंशतिशतसूत्रात्मिका द्वादशलक्षणी निरमायि। ‘अत उपपन्नं जैमिनिवचनमाकृतिः शब्दार्थः’ (शाबरभाष्यम्- १.१.५) इति शबरवचनेन जैमिनेः सूत्रकर्तृकत्वं निर्विवादसिद्धम्। तत्र प्रथमेऽध्याये विध्यादेः प्रामाण्यं निरूपितं, द्वितीये तद्विधेयकर्मभेदः प्रपञ्चितः, तृतीये विहितानां शेषशेषिभावः, चतुर्थे क्रतुप्रयुक्तानुष्ठेयानां पुरुषार्थप्रयुक्तानुष्ठेयानां च पदार्थानां परिमाणं चिन्तितं, पञ्चमे अनुष्ठानक्रमचिन्ता, षष्ठे विहितकर्मफलभोक्तृत्वरूपाधिकरणनिरूपणं, सप्तमे प्रत्यक्षवचनातिदेशशेषनामलिङ्गातिदेशविचारः, अष्टमे स्पष्टास्पष्टप्रबललिङ्गा-तिदेशापवादविचारः, नवमे ऊहविचारारम्भसामोहमन्त्रोहतत्प्रसङ्गविचारः, दशमे बाधहेतुद्वारलोपविस्तारबाधकारणकार्यैकत्व-समुच्चयग्रहादिविचारः, एकादशे तन्त्रादिचिन्ता, द्वादशे प्रसङ्गतन्त्रिनिर्णयसमुच्चयविकल्पविचारः। जैमिनीयश्रौतसूत्रम्, जैमिनीयगृह्यसूत्रम् इत्यपि जैमिनेः कृतिरिति विद्वांसो वदन्ति। ज्यौतिषशास्त्रज्ञोऽयं ‘जैमिनीयसूत्रम्’ इति ग्रन्थं विरचयाञ्चक्रे इति सम्प्रदायः। अयञ्च ग्रन्थः काशीहिन्दुविश्वविद्यालयस्य भूतपूर्वज्यौतिषाध्यापकेन रामयत्न-ओझामहोदयेन चौखम्बाप्रकाशनतः प्रकाशितः।
 
अयञ्च गजेन मारितः इति पञ्चतन्त्रोपाख्यानाद्विज्ञायते− ‘मीमांसकृतमुन्ममाथ‘मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम्’ इति।
 
== उद्धरणम् ==
"https://sa.wikipedia.org/wiki/जैमिनिः" इत्यस्माद् प्रतिप्राप्तम्