"कथाकेळिः" इत्यस्य संस्करणे भेदः

 
पङ्क्तिः १०:
 
== वेषभूषाः ==
कथापात्राणां स्वभावानुसारमेव आहार्यता निर्णीता। तत्र पच्चा, कत्ति, ताटि, करि, मिनुक्क्, इत्येवमादयः, आहार्यविशेषाः स्वीकृताः सन्ति। तेषामपि पात्रानुसारं वैविध्यमस्ति। कथाकेल्यां धीरोदात्तनायकानामेव 'पच्च' इति वेषविशेषः कल्पितः (यथा नलः, अर्जुनः....)। रजोगुणयुक्तानां नायकानां 'कत्ति' (यथा रावणः, दुर्योधनः....),। तमोगुणप्रधानानामसुराणां मनुष्याणां च 'ताटि' (यथा बकः, दुश्शासनः....) किरातानां 'करि' च । मुनीनां स्त्रीणाञ्च 'मिनुक्क्' च कल्पितः। इमे वेषप्रकाराः पूर्णतया परिपाल्यन्ते । 'कत्ति' इत्यस्य कथापात्राणां 'कुरुंकत्ति', 'नेटुंकत्ति' इति प्रकारभेदौ वर्तते।वर्तेते। 'ताटि' इत्यस्य 'वेळुत्तताटि' (हनूमान्), 'कऱुत्तताटि' (कलिः), 'चुवन्नताटि' (दुश्शासनः) इति विभागत्रयं वर्तेतेवर्तते । एवं 'करि' इत्यस्यापि भेदद्वयमस्ति । पुरुषाणां कृते स्त्रियः कृते च (यथा किरातः, शूर्पणखा च)। नारदवसिष्ठादीनां मुनीनां महर्षिकेशः, चिबुकं च उपयुज्यते । स्त्रीकथापात्राणां 'मिनुक्क्' । 'मण्णान्', भीरुः, विद्युज्जिह्वः, इत्यादि विलक्षणकथापात्राणि कथाकेल्याः आहार्यवैचित्र्यतां प्रस्फुटयन्ति।
 
== आट्टक्कथा ==
"https://sa.wikipedia.org/wiki/कथाकेळिः" इत्यस्माद् प्रतिप्राप्तम्