"एषा तेऽभिहिता साङ्ख्ये..." इत्यस्य संस्करणे भेदः

समतायाः महिमा
पङ्क्तिः ११५:
 
==शाङ्करभाष्यम्==
'''एषा ते'''  तुभ्यम्  '''अभिहिता'''  उक्ता  '''सांख्ये'''  परमार्थवस्तुविवेकविषये  '''बुद्धिः'''  ज्ञानं साक्षात् शोकमोहादिसंसारहेतुदोषनिवृत्तिकारणम्।  '''योगे तु'''  तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वप्रहाणपूर्वकम् ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे च  '''इमाम्'''  अनन्तरमेवोच्यमानां बुद्धिं  '''शृणु''' । तां च बुद्धिं स्तौति प्ररोचनार्थम् '''बुद्धया यया'''  योगविषयया  '''युक्तः'''  हे पार्थ  '''कर्मबन्धं'''  कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धः तं  '''प्रहास्यसि'''  ईश्वरप्रसादनिमित्तज्ञानप्राप्त्यैव इत्यभिप्रायः।।
 
=== भाष्यार्थः ===
Line १२१ ⟶ १२२:
 
अहं साङ्ख्ययोगसन्दर्भे अर्थात् परमार्थवस्तूनाम् अभिज्ञाविषये बुद्धिम् अर्थात् ज्ञानम् उक्तवान् । तज्ज्ञानं ये संसारहेतवः अर्थात् शोक-मोहादयः दोषाः सन्ति, तेषां निवृत्तेः साक्षात्कारणम् अस्ति । तस्य ज्ञानस्य प्राप्तेः उपायत्वेन कर्मयोगसन्दर्भे अर्थात् आसक्तिरहिते सति सुखदुःखादीनां द्वन्द्वानां त्यागपूर्वकम् ईश्वराधनाय कृतस्य कर्मणः कर्मयोगसन्दर्भे, समाधियोगसन्दर्भे च तां बुद्धिं (ज्ञानं) वदामि इति । तां बुद्धिं शृणु – रुच्युत्पादनाय तस्याः बुद्धेः स्तुतिः क्रियते – हे अर्जुन ! यस्य योगविषयकस्य बुद्धियुक्तः त्वं धर्माधर्मनामकं कर्मरूपं बन्धनम् ईश्वरकृपया प्राप्तेन ज्ञानेन नंक्ष्यसि इत्यभिप्रायः ।
=== भाष्यार्थः ===
 
== रामानुजभाष्यम् ==
बुद्धेः अपरं नाम ''सङ्ख्या'' अस्ति, अतः बुद्धेः धारकस्य आत्मतत्त्वस्य नाम ''साख्यम्'' इति । ज्ञातव्यस्य आत्मतत्त्वस्य विषये ज्ञातुं या बुद्धिः आवश्यकी, तस्याः विषये ''न त्वेवाहम्'' इत्यस्माद् आरभ्य 'तस्मात् सर्वाणि भूतानि' इत्येतं श्लोकं पर्यन्तम् उक्ता अस्ति । इतः आत्मज्ञानसहिताय मोक्षसाधनभूताय कर्मानुष्ठानाय यः बुद्धियोगः उच्यमानः अस्ति, सः अत्र ''योगः'' इत्यनेन शब्देन उच्यते । यतो हि अग्रे गत्वा वक्ष्यते यद्, ''दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय'' तस्मिन् योगविषये या बुद्धिः वक्तव्या अस्ति, यया बुद्ध्या युक्तः सन् त्वं कर्मबन्धनस्य नाशं कर्तुं शक्ष्यसि, तां बुद्धिं त्वं शृणु । कर्मभिः जातानां बन्धनानां नाम एव 'कर्मबन्ध' इति । अतः कर्मबन्धनस्य अर्थः संसारबन्धनम् अस्ति ।
संख्या बुद्धिः बुद्ध्यावधारणीयम् आत्मतत्त्वं सांख्यम्। ज्ञातव्ये आत्मतत्त्वे तज्ज्ञानाय या बुद्धिः अभिधेया न त्वेवाहम् (गीता 2।12) इत्यारभ्यतस्मात् सर्वाणि भूतानि (गीता 2।30) इत्यन्तेन सा  '''एषा अभिहिता।''' आत्मज्ञानपूर्वकमोक्षसाधनभूतकर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः स इह योगशब्देन उच्यतेदूरेण ह्यवरं कर्म बुद्धियोगात् (गीता 2।49) इति हि वक्ष्यते। तत्र  '''योगे'''  या  '''बुद्धिः'''  वक्तव्या ताम् इमाम् अभिधीयमानां  '''श्रृणु यया'''  बुद्ध्या  '''युक्तः'''   '''कर्मबन्धं प्रहास्यसि।'''  कर्मणा बन्धः संसारबन्ध इत्यर्थः।
 
=== भाष्यार्थः ===
 
बुद्धेः अपरं नाम ''सङ्ख्या'' अस्ति, अतः बुद्धेः धारकस्य आत्मतत्त्वस्य नाम ''साख्यम्'' इति । ज्ञातव्यस्य आत्मतत्त्वस्य विषये ज्ञातुं या बुद्धिः आवश्यकी, तस्याः विषये ''न त्वेवाहम्'' इत्यस्माद् आरभ्य 'तस्मात् सर्वाणि भूतानि' इत्येतं श्लोकं पर्यन्तम् उक्ता अस्ति । इतः आत्मज्ञानसहिताय मोक्षसाधनभूताय कर्मानुष्ठानाय यः बुद्धियोगः उच्यमानः अस्ति, सः अत्र ''योगः'' इत्यनेन शब्देन उच्यते । यतो हि अग्रे गत्वा वक्ष्यते यद्, ''दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय'' तस्मिन् योगविषये या बुद्धिः वक्तव्या अस्ति, यया बुद्ध्या युक्तः सन् त्वं कर्मबन्धनस्य नाशं कर्तुं शक्ष्यसि, तां बुद्धिं त्वं शृणु । कर्मभिः जातानां बन्धनानां नाम एव 'कर्मबन्ध' इति । अतः कर्मबन्धनस्य अर्थः संसारबन्धनम् अस्ति ।
{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः = [[सुखदुःखे समे कृत्वा...]] |अग्रिमश्लोकः =[[नेहाभिक्रमनाशोऽस्ति...]]}}
 
"https://sa.wikipedia.org/wiki/एषा_तेऽभिहिता_साङ्ख्ये..." इत्यस्माद् प्रतिप्राप्तम्