"एषा तेऽभिहिता साङ्ख्ये..." इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ११५:
 
==शाङ्करभाष्यम्==
शोकमोहापनयनाय लौकिको न्यायः स्वधर्ममपि चावेक्ष्य इत्याद्यैः श्लोकैरुक्तः न तु तात्पर्येण। परमार्थदर्शनमिह प्रकृतम्। तच्चोक्तमुपसंह्रियते एषा तेऽभिहिता (गीता 2.39) इति शास्त्रविषयविभागप्रदर्शनाय। इह हि प्रदर्शिते पुनः शास्त्रविषयविभागे उपरिष्टात् ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् इति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्तिष्यते श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति इत्यत आह -
 
'''एषा ते'''  तुभ्यम्  '''अभिहिता'''  उक्ता  '''सांख्ये'''  परमार्थवस्तुविवेकविषये  '''बुद्धिः'''  ज्ञानं साक्षात् शोकमोहादिसंसारहेतुदोषनिवृत्तिकारणम्।  '''योगे तु'''  तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वप्रहाणपूर्वकम् ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे च  '''इमाम्'''  अनन्तरमेवोच्यमानां बुद्धिं  '''शृणु''' । तां च बुद्धिं स्तौति प्ररोचनार्थम् '''बुद्धया यया'''  योगविषयया  '''युक्तः'''  हे पार्थ  '''कर्मबन्धं'''  कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धः तं  '''प्रहास्यसि'''  ईश्वरप्रसादनिमित्तज्ञानप्राप्त्यैव इत्यभिप्रायः।।
 
Line १२४ ⟶ १२६:
 
== रामानुजभाष्यम् ==
एवम् आत्मयाथात्म्यज्ञानम् उपदिश्य तत्पूर्वकं मोक्षसाधनभूतं कर्मयोगं वक्तुम् आरभते -
 
संख्या बुद्धिः बुद्ध्यावधारणीयम् आत्मतत्त्वं सांख्यम्। ज्ञातव्ये आत्मतत्त्वे तज्ज्ञानाय या बुद्धिः अभिधेया न त्वेवाहम् (गीता 2।12) इत्यारभ्यतस्मात् सर्वाणि भूतानि (गीता 2।30) इत्यन्तेन सा  '''एषा अभिहिता।''' आत्मज्ञानपूर्वकमोक्षसाधनभूतकर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः स इह योगशब्देन उच्यतेदूरेण ह्यवरं कर्म बुद्धियोगात् (गीता 2।49) इति हि वक्ष्यते। तत्र  '''योगे'''  या  '''बुद्धिः'''  वक्तव्या ताम् इमाम् अभिधीयमानां  '''श्रृणु यया'''  बुद्ध्या  '''युक्तः'''   '''कर्मबन्धं प्रहास्यसि।'''  कर्मणा बन्धः संसारबन्ध इत्यर्थः।
 
"https://sa.wikipedia.org/wiki/एषा_तेऽभिहिता_साङ्ख्ये..." इत्यस्माद् प्रतिप्राप्तम्