"वेदः" इत्यस्य संस्करणे भेदः

अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २२:
भारते षड् ऋतवो भवन्ति । अमी ऋतवः सायन- निरयण सूर्यसंक्रमण निमित्तकाः । सायनचान्द्रमासद्वयात्मिका च |यथा- विष्णुपराणे २|८|८१ तपस्तपस्यौ मधुमाधवौ च शुक्रश्शुचिश्चायनमुत्तरं स्यात् |
नभोनभस्यौ च इषोर्जसंज्ञौ सहस्सहस्याविति दक्षिणं च|
उक्तं सुश्रुतसंहितायां- तपस् तपस्यौ शिशिरः,मधुमाधवौ वसन्तः,शुचिशुक्रौ ग्रीष्मः ,नभोनभस्यौ वर्षा ,इषोर्जौ शरत्,सहस्सहस्यौ हेमन्तः इति |शिशिराद्युत्तरायणम् ,वर्षादिदक्षिणायनम्,द्व्ययने युगपत्संवत्सरो भवति| ते तु पञ्च युगमिति संज्ञां लभन्ते तदेतन्निमेषादियुगपर्यन्तः कालश्चक्रवत् परिभ्रमति |उक्तं वेदांगज्योतिषे माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः|
युगस्यपञ्चवर्षस्य कालज्ञानं प्रचक्षते ||
सायनसौर उत्तरायणारम्भदिन सन्निकटशुक्ल प्रतिपद्यां अमान्तचान्द्र माघमास आरम्भ भवति|स एव वेदोक्त तपोमासः | ततः पञ्चवर्षात्मकयुगस्य नववर्षारम्भ भवतिव| वर्षान्तं च पौषकृष्णअमावास्यां भवतीति शेषः | इति लगधप्रोक्त वेदांगज्योतिष विषयः | लोके इदमपि प्रसिद्धं यत् प्राचीनकालादधुनापर्यन्तममी ऋतवः पश्चात्सर्पन्ति, अर्थात् पूर्व यत्र नक्षत्रे यस्यर्त्तोरुदयो जायते स्म सम्प्रति स एवर्त्तुस्ततः पूर्ववर्तिनि नक्षत्रान्तरे उदितो भवति । पुराकाले वसन्तो वर्षादिरभवत्, अत एव तस्य प्रशस्ततया भगवद्विभूतिभाव उक्तो गीतायां- ‘ऋतूनां कुसुमाकरः’ इति । सम्प्रति वसन्तसम्पातः मीनसङ्क्रान्तिकालादारभते, मीनसङ्क्रान्तिश्च पूर्वभाद्रपदनक्षत्रस्य चतुर्थचरणे भवति । सेयं स्थितिर्नक्षत्राणां क्रमशः पश्चात्सर्पणेनोत्पन्ना । पूर्वं कदाचिद् वसन्तसम्पातः उत्तरभाद्रपदरेवती-अश्विनी- भरणी –कृत्तिका- मृगशिरः प्रभृतिषु नक्षत्रेष्वासीत्, ततः पश्चात्सर्पन्नयं वसन्तसम्पातः साम्प्रतिकीं स्थितिमनुप्रपन्नः ।
 
===वेदशब्दार्थः===
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्