"कृष्णयजुर्वेदः" इत्यस्य संस्करणे भेदः

(लघु) Udit Sharma इत्यनेन शीर्षकं परिवर्त्य कृष्‍णयजुर्वेदः पृष्ठं कृष्णयजुर्वेदः प्रति स्थानान्तरित...
(लघु)No edit summary
पङ्क्तिः १:
 
{{ Infobox settlemnt
| name = क्रिष्नार्जुन
| image_skyline = Krishna instructing Arjuna.jpg
| image_caption = क्रिष्नार्जुन
}}
 
 
 
 
 
 
यजुर्वेदस्य प्रमुखतया शाखाद्वयम् - शुक्लयजुर्वेदः कृष्णयजुर्वेदः च ।
कृष्णयजुर्वेदः संहिताभागः ब्राह्मणभागः इति समग्रतया विभक्तः नास्ति । ब्राह्मणभागः संहिताभागेन सह युक्तः विद्यते । वैदिककर्मणां विषये आचरणानाञ्च समीचीनविवरणं यजुर्वेदस्य विशेषः । कृष्णयजुर्वेदस्य तैत्तिरीयसंहितायां दर्शपूर्णमास, सोमयाग, वाजपेय, राजसूय, अश्वमेध इत्यादीनां यज्ञानां सूक्ष्मविवरणम् उपलभ्यते । ऋग्वेदे अविद्यमानाः स्तुतिमन्त्राः अस्मिन् उपलभ्यन्ते । उदाहरणाय अद्य पठ्यमानं 'श्रीरुद्रम्' यजुर्वेदमात्रे एव दृश्यते । 'पञ्च रुद्रम्' इत्येतत् यद्यपि ऋग्वेदे उपलभ्यते किन्तु तदस्ति पञ्चमन्त्रात्मकमात्रम् । अतः एव महान् शिवभक्तः अप्पय्यदीक्षितः कदाचित् अवदत् - 'अहं यजुर्वेदवंशे न जातः इति मे मनः खिद्यते । यदि स्यात् तर्हि शिवं यजुर्वेदेन एव शिवम् अपूजयिष्यम्' इति । सः सामवेदानुयायिनां कुटुम्बे जातः आसीत् । अद्यत्वे यजुर्वेदिनः सन्ति बहवः । कृष्णयजुर्वेदस्य अध्ययनं विशेषतया दक्षिणभारते भवति । ऋग्वेदे दृश्यमानः पुरुषसूक्तः कैश्चित् परिवर्तनैः सह यजुर्वेदे अपि दृश्यते ।
"https://sa.wikipedia.org/wiki/कृष्णयजुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्