"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १७३:
==मीमांसादर्शनस्य आचार्यपरम्परा==
 
मीमांसासूत्राणां रचना महर्षिणा जैमिनिना विहिता । जैमिनेः स्थितिकालः ईस्वीपूर्व ३६० वर्षाणि स्वीक्रियते । प्रसिद्ध इतिहासविद् युधिष्ठिरमीमांसकः जैमिनेः समयः विक्रमपूर्व ३००० वर्षाणीति प्रमाणयति । मीमांसासूत्राणां रचना षोडशसु अध्यायेषु विहिता तथापि जैमिनीयमीमांसा 'द्वादशलक्षणी’ नाम्ना प्रसिद्धाऽस्ति । अवशिष्टाश्चत्वारोऽध्यायाः 'सङ्कर्षणकाण्ड’ इति नाम्ना प्रसिद्धाः वर्तन्ते । कतिपये विद्वांसो वदन्ति यदेते चत्वारोध्यायाः जैमिनेः रचना नास्ति । जैमिनिकृतसूत्राणां संख्या २६४४ मन्यते ।
 
जैमिनीयसूत्रस्य प्रथमाध्याये धर्मलक्षणं प्रमाणनिरूपणं च प्रतिपादितमस्ति । द्वितीयाध्याये धर्मभेदो निरूपितः । तृतीयाध्याये अङ्गत्वं चतुर्थाध्याये प्रयोज्यप्रयोजकभावश्च प्रस्तुतः । पञ्चमाध्याये क्रिमिनिरूपणमस्ति, यज्ञाधिकारिणो वर्णनमपि अस्मिन्नेवाध्याये प्राप्यते । षष्ठाध्यायेऽपि अधिकारिवर्णनमस्ति । सप्ताष्टमयोरध्याययोरतिदेशो वर्तते । नवमाध्याये ऊहनिरूपणमस्ति । एवमेव एकादशाध्याये तन्त्रं, द्वादशाध्याये च प्रसङ्गो निरूपितः ।
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्