"भगवद्गीता" इत्यस्य संस्करणे भेदः

अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ७४:
==ऐतिहासिकं सैद्धान्तिकं सामाजकञ्च महत्त्वम्==
पूर्वोक्तदिशा विचार्यमाणे श्रीमदभगवद्गीतायाः शास्त्रत्वं महत्त्वञ्चोपनिषदभ्योऽप्यधिकतरंमहत्त्वञ्चोपनिषद्दभ्योऽप्यधिकतरं विद्यते इति वक्तुं शक्यते । गुह्यात्गुह्यतरं ततोऽपि गुह्यतमं शास्त्रमिति प्रमाणितं भवति समेषामाचार्याणां वचनैः । यथा गूढार्थदीपिकायामेव-
''अतिगम्भीरस्य गीताशास्त्रस्याशेषतः [[पर्यालोचनक्लेशनिर्वृत्तये]] कृपया स्वयमेव तस्य सारं संक्षिप्य कथयति –'' '' सर्वगुह्यतममिति '' । पूर्वं हि गुह्यात् – कर्मयोगाद् गुह्यतरं ज्ञानमाख्यातम्, अधुना तु कर्मयोगात्त-फलभूतज्ञानाच्च सर्वस्मादतिशयेन गुह्यं रहस्यं गुह्यतमं परमम् सर्वतः प्रकृष्टं मे मम वचः – वाक्यं भूय-तत्र तत्रोक्तमपि त्वदनुग्रहार्थ पुनर्वक्ष्यमाणं श्रृणु । अपि च ''स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः''
[[Image:Hitopadesha.jpg|250px|thumb|right|कृष्णार्जुनयोः कांस्यस्य एका पुत्तली]]
पङ्क्तिः ८४:
अत्र [[मधुसूदनाचार्यः]]-
 
''यः पूर्वौक्तैः कर्मभिः शुद्धान्तः करणः, सोऽवश्यं भगवदेकशरणो, भगवदेकशरणतापर्यन्तत्वादन्तः करणशुद्धेः । एतादृशश्चेद ब्राह्मणः संन्यासप्रतिबन्धरहितः सर्वकर्माणि संन्यस्यतु नाम, संसारविमोक्षस्तु तस्य भगवदेकशरणस्य भगवत्प्रसादादेव । एतादृशश्चेत्क्षत्रियादिः, संन्यासाधिकारी, स करोतु नाम कर्माणि, किंतु मदव्यपाश्रयः अहं भगवान् वासुदेव एव व्यपाश्रयः शरणं यस्य, स मदेकशरणो मय्यर्पितसर्वात्मभावः संन्यासान् धिकारात्संन्यासाधिकारात् सर्वकर्माणिसर्वाणि कर्माणि वर्णाश्रमधर्मरुपाणि लौकिकानि, प्रतिषिद्धानि वा सदा कुर्वाणो मत्प्रसादातपरमेश्वरस्यानुग्रहादवाप्नोतिमत्प्रसादात् परमेश्वरस्यानुग्रहादवाप्नोति हिरण्यगर्भवन्मद्विज्ञानोत्पत्या शाश्वतं नित्यं पदं वैष्णवमव्ययम्-परिणामि ।परिणामित्यर्थः। एतादृशो भगवदेकशरणः करोत्येव न प्रतिषिद्धानि कर्माणि, यदि कुर्यात् तथाऽपिमत्प्रसादात्प्रत्यवायानुत्पत्या मद्विज्ञानेन मोक्षभागभवतीति भगवदेकशरणतास्तुत्यर्थं‘सर्वकर्माणि सर्वदा कुर्वाणोऽपी’ त्यनूद्यते'' ।
 
''यस्मान्मदेकशरणतामात्रं मोक्षसाधनम्, न कर्मानुष्ठानम्, कर्मसंन्यासो वा । तस्मात् क्षत्रियस्त्वम्- चेतसा विवेकबुद्धया सर्वकर्माणि-दृष्टादृष्टार्थानि मयीश्वरे संन्यस्य-“यत्करोषियदश्नासी” त्युक्तन्यायेन समर्प्यमत्परः अहं भगवान् वासुदेव एव परः प्रियतमो यस्य समत्परःस मत्परः सन् बिद्धियोगम्बिद्धि योगम्-पूर्वोक्तसमत्वबुद्धिलक्षणं योगं बन्धहेतोरपि कर्मणो मोक्ष-हेतुत्वं सम्पादाकमुपाश्रित्यसम्पादकमुपाश्रित्य- अनन्यशरणतया स्वीकृत्य मच्चित्तः मयि भगवति वासुदेव एव चित्तं यस्य,न राजनि, कामिन्यादौ वा, सः मच्चित्तः सततं भव ।''
तदेवं प्रमाणितं वेदितव्यं यदभगवद्गीतायद् भगवद्गीता ''कर्मैव पूजा'' इत्युपदिशति । सर्वेषां मानवानां स्वभानानुकूलं कर्म एव भगवदाराधनरुपेण ग्राह्यमिति हि सिद्धान्तः । जीवननिर्वाहायावश्यकं कर्म सहजं स्वभावनियतं च – ''नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् '' । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ।
:'''कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
:'''इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥
पङ्क्तिः ९८:
:'''तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर ॥
 
''ततः कर्मजन्यशुद्धयभावे बहिर्मुखः – इति यस्मातक्षणमपियस्मात् क्षणमपि कालं जातु कदाचित्कश्चिदप्यजितेन्द्रियोऽकर्मकृत्सन्न तिष्ठति, अपितु लौकिकवैदिक कर्मानुष्ठानव्यग्र एव तिष्ठति । तस्माद्तस्माद शुद्धचित्तस्य संन्यासो न सम्भवतीत्यर्थः कस्मात् पुनरविद्वान्कर्माण्यकुर्वाणो न तिष्ठति । हि यस्मात् सर्वः प्राणी चित्तशुद्धिरहितोऽवशोऽस्वतन्त्रएव सन् प्रकृतितो जातैरभिव्यक्तै कार्याकारेण सत्त्वरजस्तमोभिःस्वभावप्रभवैर्वा रागद्वेषादिभिर्गुणैः कर्म लैकिकं वैदिकं वा कार्यते । अतः कर्माण्यकुर्वाणो न कश्चिदपि तिष्ठतीत्यर्थः । यतः स्वभाविका गुणाश्चालकाः अतः परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धेः सर्वकर्मसंन्यासो न संभवतीति न संन्यासनिबन्धना ज्ञाननिष्ठा संभवतीत्यर्थः ॥ यथाकथंचिदौत्सुक्यमात्रेण कृतसंन्यासस्त्वशुद्धचित्तस्तत्फलभाङ् न भवति । यतः- यो हि विमूढात्मा रागद्वेषादि दूषितान्तः करण औत्सुक्यमात्रेण कर्मेन्द्रयाणि वाक्पाण्यादीनि संयम्य निगृह्य, बहिरिन्द्रियैः कर्माण्यकुर्वन्निति यावत् । मनसा रागादि प्रेरितेन्द्रियार्थाञ्छब्दादीन नत्वात्मतत्त्वं स्मरन्नास्ते कृतसंन्यासोऽहमित्याभिमानेन कर्मशून्यस्तिष्ठति स मिथ्याचारः सत्त्वशुद्धयभावेन फलायोग्यत्वात्पापाचार उच्चते "त्वं पदार्थविवेकाय संन्यासः सर्वकर्मणाम् । श्रुत्येह विहितो यस्मात्तत्यागी पतितो भवेत् । इत्यादि धर्म शास्त्रेणा । अत उपपन्नं न च संन्यसनादेवांशुद्धान्तः करणः सिद्धिं समधिगच्छतीति । औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निष्कामकर्माण्येव यथाशास्त्रंकुर्यात् । यस्मात् तु शब्दोऽशुद्धान्तः करण संन्यासिव्यतिरेकार्थः । इन्द्रियाणि ज्ञानेन्द्रियाणि श्रोत्रादीनि मनसा सह नियम्य पापहेतु शब्दादिविषयासक्तेर्निवर्त्य, मनसा विवेकयुक्तेन नियम्येति वा, कर्मेन्द्रियैर्वाक्पाण्यादिभि कर्मयोगं शुद्धिहेतुतया विहितं कर्मारभते करोत्यसक्तः फलाभिलाषशून्यः सन यो विवेकी स इतरस्मानमिथ्याचाराद्विशिष्यते । परिश्रमसाम्येऽपि फलातिशयभाक्त्वेन श्रेष्ठो भवति । हे अर्जुन, आश्चर्यमिदं पश्य यदेकं कर्मेन्द्रियाणि निगृयज्ञानेन्द्रियाणि व्यापारयन् परमपुरुषार्थ् भगभवतीति यस्मादेवं तस्मान्मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियै-त्वं प्रागननुतिष्ठत शुद्धिहेतुकर्मा नियतं विध्युददेशे फलसम्बन्धशुन्यतया नियतनिमित्तेन कर्म श्रौतं स्मार्तं च नित्यमिति प्रसिद्धं कुरु कुर्विति मध्यमपुरुषप्रयोगेणैव त्वमिति लब्धे त्वमिति पदमर्थान्तरे संक्रमितम् । कस्मादशुद्धान्तः करणेन कर्मैव कर्त्तव्यम् हि यस्मात् अकर्मणोऽकरणात्कर्मैअ ज्यायः प्रशस्यतरम् । न केवलं कर्माभावे तवानतः करणशुद्धिरेव नद्धयेत किन्तु अकर्मणो युद्धादिकर्मर्हितस्य ते तव शरीरयात्रा शरीरस्थितिरपि न प्रकर्षेण क्षात्रवृत्तिकृतत्व लक्षणेन सिध्येत् । तथा च प्रागुक्तम् । अपि चेत्यन्तः करण शुद्धि समुच्चयार्थः “ कर्मणा बध्यते जन्तुः” इति स्मृतेः । सर्वं कर्मबान्धात्मकत्वान्मुमुक्षुणा न कर्तव्यमिति मत्वा तस्योत्तरमाह-यज्ञः परमेश्वरः "यज्ञो वै विष्णुः” इति श्रुतेः । तदाराधनार्थं यत्कर्म क्रियते तद्यज्ञार्थं तस्मात्कर्मणोऽन्यत्र कर्मणि प्रवृत्तोऽयं लोकःअ कर्माधिकारी कर्मबन्धनः कर्मणाबध्यते नत्वीश्वराराधनार्थेन । अतस्तदर्थं यज्ञार्थं कर्म हे कौन्तेय, त्वं कर्मण्यधिकृतो मुक्तसंगः सन्समाचर सम्यक् श्रद्धादिपुरः सरमाचर ॥''
{{भगवद्गीता}}
मानवसमाजस्य श्रेयस्कामेन भगवता वासुदेवेन सनातन वैदिकधर्मद्वयमुपदिशता नानाप्रपञ्चपूर्णे जीवने सार्वजनीनाः समस्याः शास्त्रीयरीत्या समाहिताः । न केवलमर्जुनायापितु सर्वेभ्यः, नकेवलं युद्धविषयेऽपि तु सम्पूर्णजीवनस्य येऽपि कार्याकार्ये तदव्यवस्थार्थं शास्त्रमेव प्रमाणीकृतम् । सरलया भाषया, नादमधुरया, रसात्मिकया पदावल्या, सत्तर्कप्रतिष्ठितया, प्रतिपत्तिबन्ध्यादि दोष रहितया, छ्न्दोमय्या पदसंहत्या सहजौजस्विन्या शैल्या भ्रान्तिशून्यया रुचिपूर्णया भारत्या शिष्टसंस्कृत भाषया सुबोधिन्या सकलार्थबोधनसमर्थया स्वाभाविक्या छन्दोनिबद्धप्रणाल्या कठिनतरं विषयजातं गम्भीरदार्शनिकैविवादास्पदं सतप्रतिपाद्यविषयमपि सुबोधगम्यं सुलभं करोति विराजते चास्याः गीतायाः सर्वविध माहात्म्यं प्रासंगिकता चाद्यत्वेऽपि यथापूर्वम् ।
 
==प्राचीनाव्याख्यातारः, आधुनिकव्याख्यातारश्च==
भगवदगीता सर्वैरेव स्वकीयगुणविशेषैः सम्यकतया प्रतिष्ठिता वैदिकपरम्परायाः सम्प्रदायकृत्सु प्रमुखाचार्येषु भाष्यकारेषु टिकाकारेषु तत्तच्छास्त्रकारेषु च । सा हि वेदान्तप्रस्थानत्रयीनध्ये परिगणिता व्याख्यातृभीश्च व्याख्याता स्वस्वसम्प्रदायसिद्धान्तानुसारेण । तथापि न कृतोपसंहाराऽस्याअर्थगभीरा प्रभूतप्रभावा वाग्धारा । न केवलं भारतेऽपि तु विश्वस्मिन् जगतीतले भाषान्तरेष्वपि विद्वद्वर्यैव्याख्याताऽनूदिता प्रचारिता प्रसारिताऽधिताऽध्यापिता च । नाविदितं कस्यापि प्रबुद्धजनस्यैतस्याः सर्वोत्त्कृष्टं महत्त्वमुपयोगित्वं च । प्राचीनैराचार्यैराधुनिकैश्च विद्वदभिः समानभेव सम्मानिताऽभिनन्दिता परः शतैः प्राचीनैः साम्प्रदायिकैराचार्यैर्यथा स्वपक्षेनीता, व्याख्याता, सादरं परिशीलिता, तथैवं ततोऽप्यधिकतरमद्यतनी मानवता भगवद्गीतोपदेशसापेक्षेति प्रवृत्तिः प्रसृताऽवलोक्यते । अतः विदुषाम्-संख्येयत्वात्, अल्पज्ञत्वाच्चास्माभिरत्र केषाञ्चिदेवाचार्यप्रवराणां नामोल्लेखः संक्षिप्तश्च परिचयोऽत्र दिग्दर्शनत्वेन क्रियते ।
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्