"सदस्यः:Kriyear/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

(प्रवर्तमानम्)
 
पङ्क्तिः १:
{{Infobox Indian jurisdiction|
native_name = उज्जयिनी |
type = नगरम् |
latd = 23.182778| longd = 75.777222|
locator_position = right |
state_name = मध्यप्रदेशः |
district = [[उज्जयिनीमण्डलम्]] |
leader_title = |
leader_name = |
Collector = [[M.Geeta]]
altitude = 491|
population_as_of = 2011 |
population_total = 515215|
area of city = 92.6 km²
population_density = |
area_magnitude= km² |
area_total = |
area_telephone = 0734|
postal_code = 456001|
vehicle_code_range = |
sex_ratio = |
unlocode = |
website = ujjain.nic.in/ |
footnotes = |
}}
 
क्षिप्रानद्याः तीरे स्थितम् उज्जयिनीनगरम् अतीव प्राचीनम् अस्ति । पूर्वम् अस्य नगरस्य अवन्ती अथवा अवन्तिका इति नाम आसीत् [[बिन्दुसार|बिन्दुसारस्य]] काले [[पाटलीपुत्रम्|पाटलीपुत्रं]] राजधानी आसीत् । कालिदासनगरी इत्यपि निर्दिश्यते ।क्रिस्ताब्दे ३८० वर्षतः ४१४ पर्यन्तं [[चन्द्रगुप्तः-२]] प्रशासनं कृतवान् । तस्य [[विक्रमादित्यः]] इति अपरं नाम आसीत् । तदा तस्य आस्थाने कालिदासादयः नवकवयः ‘नवरत्ननाम्ना’ प्रसिद्धाः आसन् ।
तस्मिन् काले उज्जयिनी राजधानी आसीत् । [[कालिदासः]] स्वीये काव्ये [[मेघदूतम्|मेघदूते]] उज्जयिनीवर्णन अत्यन्तम् उत्तमतया कृतवान् । अग्रे रजपूतानां सिन्धियावंशीयानां मोगलवंशीयानां च प्रशासनकेन्द्रमासीत् ।
उज्जयिनीनगरे स्थितं महाकालेश्वरमन्दिरम् अतीवप्रसिद्धम् अस्ति । उज्जयिनी [[महाकालः|महाकाललिङ्गं]] द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् इति प्रख्यातमस्ति ।
उज्जयिनीतः ८ कि.मी दूरे [[मण्डु]]सुल्तानवंशीयानां जलविलासराजगृहम् अस्ति । [[शिप्रा]]नद्या निर्मिते द्वीपे स्थित्वा एतत् रागगृहं द्रष्टव्यम् ।
प्रति द्वादशे वर्षे अत्र सिंहस्था कुम्भमेला भविष्यति । भगवतः शिवस्य द्वादश ज्योतिर्लिङ्गेषु अन्यतमं महाकालमन्दिरम् अस्मिन् नगरे विद्यते । इदं नगरं मध्यप्रदेशस्य बृहत्तमात् इन्दोर्महानगरात् ५५ कि मी दूरे विद्यते । इदं मन्दिराणां नगरमस्ति । अत्रत्या जनसङ्ख्या सामान्यतः ४ लक्षमिता वर्तते ।
==इतिहासः==
उज्जयिन्याः राजनैतिकेतिहासः सुदीर्घः वर्तते । महाभारते उल्लेखः अस्ति यत् कृष्णः बलरामश्च विद्याभ्यासाय सान्दीपनी-आश्रमम् आगतौ आस्ताम् । कृष्णस्य पत्नीषु अन्यतमा मित्रवृन्दा उज्जयिन्याः राजकुमारी आसीत् । तस्याः विन्द-अनुविन्दनामकौ भ्रातरौ युद्धे कौरवपक्षीयौ सन्तौ वीरगतिं प्राप्तवन्तौ । उज्जयिन्याः चण्डप्रद्योतनामकः राजा अत्यन्तं प्रतापी आसीत् । तस्मात् अन्ये राजानः बिभ्यति स्म । तस्य दुहिता वासवदत्ता वत्सनरेशस्य पुत्रे उदयने अनुरक्ता आसीत् । तयोः प्रणयगाथा इतिहासप्रसिद्धा वर्तते ।
महाकविः कालिदासः विक्रमादित्यस्य साम्राज्ये विद्यमानेषु नवरत्नेषु अन्यतमः आसीत् । उज्जयिनी तस्य अत्यन्तं प्रिया आसीत् । तेन अत्रत्यः प्राचीनः वैभवः स्वयम् अवलोकिताः आसन् । तत्रत्या वैभवशालिनी अट्टालिका, उदयन-वासवदत्तयोः प्रणयगाथा, भगवतः महाकालस्य सन्ध्याकालीनं नीराजनं, क्षिप्रानद्याः पौराणिकमहत्त्वञ्च तस्य सुपरिचितम् आसीत् । अतः एव तेन काव्येषु उज्जयिन्याः मनोहरं वर्णनं कृतवान् अस्ति । सम्राट् विक्रमादित्यः महाकवेः कालिदासस्य आश्रयदातृरूपेण प्रसिद्धः अस्ति ।
उज्जयिन्याः इतिहासः ६ शतकात् उपलभ्यते । तस्मिन् समये भारते १६ मण्डलानि आसन् । तेषु आवन्ती अपि अन्यतमा आसीत् । आवन्ती द्विधा विभक्ता आसीत् । उत्तरभागस्य राजधानी उज्जयिनी आसीत्, दक्षिणभागस्य राजधानी महिष्मती आसीत् । तस्मिन् समये चन्द्रप्रद्योतनामकः साम्राट् आसीत् । प्रद्योतवंशजाः त्रिशतकं यावत् शासनम् अकुर्वन् ।
===मौर्यसाम्राज्यम्===
मौर्यसम्राट् चन्द्रगुप्तः अत्र आगतः आसीत् । तस्य पुत्रः अशोकः अत्र राज्यपालनम् अकरोत् । तस्य पत्नी वेदिसादेवी । पुत्रौ महेन्द्रः सङ्घमित्रा च । महेन्द्रः बौद्धधर्मस्य प्रचारकः आसीत् ।
==बाह्यसम्पर्कतन्तुः==
* [http://www.ujjaindarshan.com/ Online Ujjain Guide]
* [http://ujjaintourism.in/ Official website of Ujjain Tourism]
* [http://www.ujjain.nic.in/ Official website of Ujjain]
* [http://www.yogalife.co.in/ Official website of Ujjain Yoga LIfe Society]
* [http://www.ujjainbuzz.com/Ujnpages/aboutujjain.aspx Ujjain buzz]
* [http://www.indfy.com/madhya-pradesh/ujjain-temples.html Mahakaleshwar Temple, Ujjain On India Tours]
*{{Cite EB1911|W1EC=1|wstitle=Ujjain}}
* [http://www.visitujjain.com /for detail information of ujjan]
"https://sa.wikipedia.org/wiki/सदस्यः:Kriyear/प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्