"ताजमहल" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
1.187.80.56 (talk) द्वारा कृता 394595 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
पङ्क्तिः ३१:
ताजमहल् न केवलं भारते अपि च विश्वे एव प्रसिद्धं दर्शनीयं भव्यं भवनम् अस्ति । [[फ्रान्सदेशः|फ्रान्सदेशस्य]] ऐफेल् गोपुरमिव [[आस्ट्रेलिया]] देशस्य अपेराहौस् इव विस्मयकारि स्थलमस्ति । [[यमुना]]नद्याः दक्षिणभागे स्थितं विशालं भव्यम् अमृतशिलानिर्मितं वास्तुशिल्पमेतत् । अस्य औन्नत्यं २७०० पादमितं, वैशाल्यं च २००० पादमितम् अस्ति । उत्तरदक्षिणतः आयताकारे विशालावरणे एतत् निर्मितम् अस्ति ।
==ताजमहल् स्वरूपम्==
परितः प्रावारकम् अस्ति । दक्षिwryattwtrettet7Rणदिशिदक्षिणदिशि महाद्वारम् अस्ति । उत्तरभागे ताजमन्दिरमस्ति । महाद्वारतः १८०० पादमितदीर्घम् उद्यानम् । मध्ये नालाः तत्र तत्र जलोत्सांसि सन्ति । ७५ पादमितम् चौकाकारकं सरोवरम् अस्ति।
दूरतः वीक्षणसमये ३१३ पादमिते प्राङ्गणे १४० पादमितोन्नतं मन्दिरं सुन्दरतया द्रृश्यते । चौकाकारे शिल्पे चतुर्षु कोणेषु १४० पादमितोन्नताः त्रिस्तरीयाः वृत्तच्छदाः (मिनरेट्स्) सन्ति । मध्ये उन्नते प्राङ्गणे १८६ पादमिते चौकाकारे स्थले मुख्यं ताजमन्दिरम् अस्ति ।
केषुचिद्विभागेषु शिल्पानि सन्ति । अर्धगोलाकारके छदे (Tomb) भित्तिषु लताशिल्पानि विराजन्ते । पवित्रस्य कुरान् ग्रन्थस्य भागाः अत्र शिल्पेषु उत्कीर्णाः सन्ति । यथा यथा उपरि गम्यते तथा तथा अक्षराणां गात्रं बृहत् भवति ।
 
==वैशिष्ट्यम्==
ताजमहल् भवनं ये पश्यन्ति तेषा मनसि एतत् अलौकिकं भवन इति भावना भवति । अतीवाकर्षकं सुन्दरं काव्यमिव सर्वजनप्रियं भवन एतत् । मोगलचक्रवर्तिः शाहजहानः स्वप्रियपत्न्याः मुमताज़वर्यायाः स्मरणार्थं एतस्य निर्माणं कारितवान् । क्रिस्ताब्दे १६३११६५२ पर्यन्तस्य कालावसरे निर्मित एतत् कलास्थानं विश्वे अद्भुत स्थानेष्वन्यतम इति परिगण्यते । वर्णनातीतमेतत् चन्द्रिकाया अत्यन्तं मोहकं भवति । “यावत् एतस्य साक्षात् दर्शनं न क्रियते तावत् तस्य वर्णनम् अपूर्णम् एव तिष्ठति । अस्य अद्भुत सौन्दर्यं साक्षादेव द्रष्टव्यम् ” इति फर्ग्युसन् महोदयः उक्तवान् अस्ति । भवने बहिर्भागे उपयुक्ताः अमृतशिलाः सम्यक् घर्षयित्वा मसृणतायुक्ताः कृताः सन्ति । सूर्यप्रकाशे किरणानि सर्वत्र प्रतिफलन्ति । पुरतः निर्मले सरोवरजले ताजमहल् प्रतिबिम्बः द्रृष्टुं शक्नुमः । ताजमहल् दर्शनाय ग्रीष्मकाले प्रातः ७.३० वादनतः , शीतकाले ८ वादनतः प्रवेशावकाशः अस्ति । साधारण समये अल्प शुल्क । ४.०० वादनानन्तरं शुल्कं महार्घं भवति। शुक्रवासरे दर्शनं निश्शुल्कम् भवति । सोमवासरे अत्र विरामः भवति ।
"https://sa.wikipedia.org/wiki/ताजमहल" इत्यस्माद् प्रतिप्राप्तम्