"वेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
[[File:Aum calligraphy Red.svg|thumb|ॐ]]
'''वेदान्तदर्शनम्''' अथवा [[मीमांसा|उत्तरमीमांसा]] मुख्यतः [[उपनिषत्|उपनिषदां]] तत्त्वज्ञानं प्रतिपादयति । जगत् प्रतिक्षणं परिवर्तनशीलम् अस्ति । तस्य आधारभूतं यथार्थतत्त्वं ब्रह्मास्ति । ब्रह्म अखण्डम् एकरसम् अद्वैतं च वर्तते । प्रत्येकस्य प्राणिनः अन्तरात्मनि तस्य निवासोऽस्ति तदेव विश्वस्य निमित्तम् उपादानं च कारणं वर्तते । इदं मुख्यं सिद्धान्तमसिद्धान्तम् आधारीकृत्यैवआधारीकृत्य महर्षिणा बादरायणेन ब्रह्मसूत्रस्य रचना कृता । ब्रह्मसूत्राणि उपनिषदां वाक्यार्थानां संगत्या सह उदात्तदार्शनिकविचारान् प्रस्तुवन्ति ।
वेदान्तमतानुसारं निःश्रेयस् परमप्रयोजनमस्तिपरं प्रयोजनमस्तिनिः श्रेयसःनिःश्रेयसः तात्पर्यं वर्तते संसारात् अविद्यातो वा पृथग्भूय ब्रह्म सामीप्यस्यब्रह्मसामीप्यस्य लाभः । एतत्कृते आत्मज्ञानं परमावश्यकम् अस्ति । अयमेव प्रवृत्तिलक्षणो धर्मः कथितः । यस्य ज्ञानं शुद्धमस्ति स एव निः श्रेयसः सान्निध्यं प्राप्नोति । अनेन सकलपुरुषार्थानां प्राप्तिर्भवति । संसारे यत्किमपि वर्तते तद् ब्रह्म परमात्मावैवास्ति, तदेव चैतन्यरुपे एकमात्रं ज्ञानमस्ति ।
 
ब्रह्म निर्गुणमस्ति किन्तु ज्ञानं तस्य स्वरुपं वर्तते । तस्य पूर्णता मायया जायते । माया एव जगदुत्पत्तेः कार्यं करोति । माया न सत् अस्ति, न चासत् एव वर्तते । इयं सदसद्विलक्षणा सत्तात्मिका चास्ति । माया ईश्वरस्य आज्ञया भेदं प्रकटयति परिणामतः नामरुपात्मकताया उदयो भवति । अनेन संसारः उत्पद्यते । माययैव वस्तुनः उपाधिः गृह्यते । यद्यपि ब्रह्म सर्वत्र व्याप्तमस्ति तथापि माययैव सर्वेषु पदार्थेषु ब्रह्मणः पृथक् पृथक् प्रतीतिर्जायते । जीवानाम् अनेकताया अपि इदमेव रहस्यमस्ति । प्रत्येकस्मिन् जीवे ब्रह्मैव सत्यमस्ति, यः भेदोऽस्ति सः मायाया एव परिणामो विद्यते ।
सांसारिकरुपे जीवा बहवः सन्ति, किन्तु तेषु अवस्थितं ब्रह्म एकमेवास्ति । अज्ञानी जीवो मायाया आवरणम् उच्छिद्य तद् स्प्रष्टुम असमर्थो भवति, अतः ब्रह्मणोऽदर्शनाम् जीवो मायाकृते अपाधौ मनसा रमते । शरीरे च सत् अन्विष्यति । मायाया आवरणप्रभावात् आत्मा सीमितः प्रतीयते । तस्य शक्तिज्ञानादीनि सर्वाणि कार्यजातानि सीमितानि भवन्ति । सः पापपुण्याभ्यां आबद्धो भवति तत्फलभोगाय च विवशो जायते । पूर्वजन्मनः कृत्यानां फलोपभोगं कुर्वाणो जीवः ईश्वरेच्छया कर्मफलान्यपि भुक्तेभुङ्क्ते । इदं अनन्तम् अनादिचक्रम् अनवरतं सक्रियं भवति ।
उपनिषदां प्रतिपाद्यं वेदान्तमते विविधप्रकारेण समालोचितम् । अतएव वेदान्तस्य पञ्च सम्प्रदायाः प्रादुरभूवन्-
पङ्क्तिः १९:
अथैषां क्रमेण स्वरुपनिरुपणं विधीयते-
अद्वैतवादः –अयं सिद्धान्तः आचार्यशङ्करेण प्रतिष्ठापितः । तन्मतेन जीवो ब्रह्मैवास्ति न च् ब्रह्मातिरिक्तः अतएव उभयोः द्वैतभावः स्वीकार्यो नास्ति । शांकरवेदान्ते त्रीणि प्रमुखानि तत्त्वानि स्वीकृतानि सन्ति जीवः जगत् आत्मा च । आत्मन एवापरा संज्ञा ब्रह्मेत्यस्ति । “ ब्रह्म सत्यं जगन्मिथ्या” इति सिद्धान्तः शाङ्करमायावादस्य मूलाधारो वर्तते । वेदान्ते ब्रह्मणः त्रीणि स्वरुपाणि स्वीकृतानि निर्गुणं ब्रह्म, सगुणं ब्रह्म, जीवशरीरस्थं ब्रह्म चेति । यद्यपि ब्रह्मणः किमपि स्व्रुपंस्वरूपं नास्ति, तथापि उपाधिभेदात् तस्य त्रैविध्यं वर्तते । तत् सत्स्वरुपं चित्स्वरुपम् आनन्दस्वरुपं चास्ति ।
दृश्यादृश्यजगतः कारणमात्रमपि ब्रह्मैवास्तो । तत् परिवर्तनशीलं चास्ति । मायया युक्तं ब्रह्मैव जगतः मूलकारणमस्ति । सृष्टेः सर्वेषु पदार्थेषु स्वसत्तां उपस्थाप्य अपि ब्रह्म तेभ्यः परे तिष्ठति । सृष्टिः मायायाः विवर्तोऽस्तिउपादानमस्ति । मायया आबद्धो जीवः ब्रह्मसाक्षात्कारं कर्तुं न क्षमते । रज्जौ सर्पस्य भ्रान्तिरत्रैव भवति । यथा रज्जुं विना सर्पस्य भ्रान्तिः सम्भवा नास्ति, तथा ब्रह्म विना जगतो भ्रान्तिरपि नैव सम्भवति । अतो ब्रह्मणः सत्ता अवश्यमेव स्वीकार्या । जीवब्रह्मणोर्मध्ये यदयद् अज्ञानं विद्यते तदेव ‘अविद्या’ इति संज्ञां लभते । ब्रह्म जीवजगतोरपेक्षया परे वर्तते, तदेव जगतः एकमात्रं कारणम् अस्ति ।
अस्या अद्भुतसृष्टेरधिष्ठानं ब्रह्मैवास्ति यतोहि सृष्टेः सत्ता तस्याः स्वकारणात् नास्ति । कारणन्तु ब्रह्मैवास्ति । तत् सदस्ति ज्ञानमस्ति श्रेयोऽस्ति अद्वैतम् अखण्डञ्चास्ति । तत् सूक्ष्मातिसूक्ष्मं तत्त्वं च विद्यते । तदेव सच्चिदानन्दमित्युच्यते । सर्वेषां सत्तात्मकपदार्थानां मूलाधारतया तद् ब्रह्मापि सत् अस्ति । चेतनमयत्वात् चित अस्ति । आनन्दभयत्वात् आनन्दोऽस्ति । तत् समभावेन सर्वत्र व्याप्तमस्ति । तद् अमृतम् अक्षरम् अध्यात्मं च वर्तते । संपूर्णं जगत् तेनैव भासते ।
"https://sa.wikipedia.org/wiki/वेदान्तः" इत्यस्माद् प्रतिप्राप्तम्