"कामसूत्रम्" इत्यस्य संस्करणे भेदः

→‎ग्रन्थस्वरूपम्: संचित्रसारमञ्जूषे योजनीये using AWB
पङ्क्तिः ६:
अत्र त्रिवर्गो नाम धर्मार्थकामाः । एषु त्रिषु कामस्यैव प्राधान्यम् । कामं विना सृष्टिरेव न भवति । "स एकाकी न रमते । स द्वितीयमैच्छत्,बहु स्यां प्रजायेयेति, इच्छामात्रं प्रभोस्सृष्टिः" इत्याद्युपनिषत्सूक्तयोऽपि कामस्यैव प्राधान्यं सूचयन्ति । धर्माविरुद्धावेव अर्थकामौ सेवेतेति ज्ञापयितुं धर्मस्य प्राधान्यं दत्तम् ।
==कर्ता==
कामसूत्राणि वात्स्यायननाम्ना[[वात्स्यायन]]नाम्ना प्रसिद्धानि । सः न कर्ता । मल्लनागाचार्य इति कश्चित् विद्वान् वत्सराजस्य पुत्रान् संस्कृतवानिति कारणतः तस्येव वात्स्यायन इति नामागतमिति कथ्यते । मल्लनागः स्वस्मात्प्राक् स्थितान् कामशास्त्रग्रन्थान् उत्सन्नप्रायान् सङ्गृहीतवानिति कथ्यते । दत्तकः बाभ्रव्यः चारायणः सुवर्णनाभः औद्दालकिः घोटकमुखः गोनर्दीयः गोणिकापुत्रः कूचुमारः इत्यादयः कामशास्त्रविस्तारकाः आसन् । एतेषां पुस्तकानि सर्वाण्यपि वात्स्यायनबिरुदभाक् मल्लनागाचार्यः सङ्गृहीतवान् । अतः मल्लनागाचार्योऽपि सङ्ग्रहकर्तेति सन्धातेति ज्ञातव्यं भवति । कामसूत्राणि तु वात्स्यायननाम्ना प्रसिद्धिङ्गतानि ।
 
== कालः ==
क्रीस्तोः प्राक् १५० वत्सरकालीनस्य पतञ्जलिमहर्षेः महाभाष्यस्थितव्याकरणशास्त्ररचनावश्यकतादिविषयाः वात्स्यायनकामसूत्रग्रन्थे त्रिवर्गप्रतिपत्त्यध्याये दृश्यन्ते । अतः वात्स्यायनोऽयं पतञ्जलिसमीपकालीनत्वेन क्रीस्तोः प्रागेव द्वितीयशताब्दीय इति निश्चीयते प्रसिद्धविद्वद्भिः श्री पञ्चाग्नुल आदिनारायणशास्त्रिमहोदयैः स्वकीये यशोधरीयजयमङ्गळव्याख्यानस्य आन्ध्रविवरणग्रन्थे ।
"https://sa.wikipedia.org/wiki/कामसूत्रम्" इत्यस्माद् प्रतिप्राप्तम्