"सदस्यः:Sharvani bhatt/प्रयोगपृष्ठम्2" इत्यस्य संस्करणे भेदः
Content deleted Content added
{{ infobox settlement | name = अनुक्रमणिकापर्व | image_skyline = Mahabharatha1.jpg | image_c... नवीनं पृष्ठं निर्मितमस्ति |
(भेदः नास्ति)
|
०८:२२, ९ सेप्टेम्बर् २०१६ इत्यस्य संस्करणं
अनुक्रमणिकापर्व | |
---|---|
आदिपर्व आदिपर्व |
अस्मिन् पर्वणि ग्रन्थे कथितानां विषयाणां संक्षिप्तविवरणं, पारायणस्य महिमा च वर्णितः अस्ति ।
कदाचित् नैमिषारण्ये कुलपतेः शौनकस्य द्वादशवार्षिके सत्रे संश्रितव्रतान्, सुखासीनान्, ब्रह्मर्षीन्, लोमहर्षणपुत्रः सौतिः उग्रश्रवाः अभ्यगच्छत् । आश्रममागतं तं तपस्विनः आवृत्य काञ्चित् कथां वक्तुम् ऊचुः । तदा सौतिः - पार्थिवेन्द्रस्य पारीक्षितस्य जनमेजयस्य सर्पसत्रे कृष्णद्वैपायनप्रोक्ताः याः कथाः तस्य शिष्येण वैशम्पायनेन उक्ताः ताः श्रुत्वा आगच्छन्नस्मि ताः श्रावयामि इत्यवदत् ।