"आन्ध्रप्रदेशराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) Shaan Lollywood (talk) द्वारा कृता 394640 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
(लघु)No edit summary
पङ्क्तिः ८२:

'''आन्ध्रप्रदेश:''' (Andhra Pradesh) दक्षिणभारतस्‍य कश्चन राज्यम् अस्‍ति । पूर्वम् आन्ध्रप्रदेशः [[तमिळनाडुराज्यम्|तमिलनाडुप्रदेश्च]] मिलित्वा आवर्तेताम् । ततः [[१९५६]] तमे वत्सरे नवम्बर्-मासस्य प्रथमदिनाङ्के स्वतन्त्रप्रतिपत्तिं प्राप्य आन्ध्रप्रदेशः इति जातः । आन्ध्रप्रदेशे त्रयोविंशतिः मण्डलानि सन्ति । अत्र अधिकसंख्याकैः '[[तेलुगु|तेलुगु'भाषा]] उपयुज्यते । [[हैदराबाद्|हैदराबाद्नगरम्]] आन्ध्रप्रदेशस्य राजधानी । राजधान्यां दर्शनीयानि स्थलानि बहूनि सन्ति । तेषु बिर्लामन्दिरं, सालार्जङ्ग्सङ्ग्रहालयः, [[चारमीनार्|चार्मिनार्भवनम्]] इत्यादयः प्रमुखाः । आन्ध्रप्रदेशस्य अन्यत् प्रसिद्धं नगरम् अस्ति विशाखपट्टणम् । अत्रत्यं समुद्रतीरम् अतीव रमणीयम् अस्ति । अत्र विद्यमानाः नौकानिर्माणागारं, तैलशुद्धिकर्मागारम् अयसः कर्मागारं च प्रसिद्धानि सन्ति ।

आन्ध्रप्रदेशे [[गोदावरीनदी|गोदावरी]], [[कृष्णा]], [[तुड्गभद्रा]], [[पिनाकिनी]], [[नागावली]], [[वंशधारा]] प्रभृतयः प्रसिद्धाः नद्यः प्रवहन्ति । 'नन्दिकोण्डा' इत्येतस्य स्थलस्य समीपे 'नागार्जुनसागरः' निर्मितः । एतेषां कारणतः आन्ध्रप्रदेशः समृद्धः जातः अस्ति । गोदावरीमण्डलं 'भारतदेशस्य धान्यागारम्' इति प्रसिद्धं जातमस्ति ।
देवालयेषु 'वरङ्गल्'उपमण्डले विद्यमानः रामप्पदेवालयः चारित्रिकदृष्ट्या अतीव प्राचीनः । अस्मिन् रामायणमहाभारतकथाः अवलम्ब्य चित्राणि निर्मितानि सन्ति ।
Line १०२ ⟶ १०३:

==नृत्यम्==
आन्ध्रप्रदेशे विद्यमानानां नृत्यप्रकाराणां विषये प्रप्रथमतया जयपसेनानि (जयप नायुडु)लिखितवान्। “देसि” तथा “मार्गि” नृत्यप्रकारयोः उल्लेखः “नृत्यरत्नावळि” इति प्रकरणसंस्कृतग्रन्थे दृश्यते। अस्मिन् ग्रन्थे ८ अध्यायाः सन्ति। पेरानि, प्रेंखन, शुद्धनर्तन, कार्करि, रासक, दण्डरासक, शिवप्रिय, कन्दुकनर्तनम्, भन्दिकानृत्यम्, करणनृत्यम्,चिन्दु, गोण्डालि,कोलाटम् इत्यादि जनपदनृत्यप्रकाराः अस्मिन् ग्रन्थे वर्णिताः। मार्गि तथा देसि नृत्ययोः, ताण्डवमं तथा लास्य नृत्ययोः, नाट्यनृत्ययोः प्रकारयोः भेदान् विचारयति प्रथमोऽध्याये। 'अङ्गिकाभिनयस्य', 'कारिणाम्', 'स्थानकानां' तथा 'मण्ड्लानां' विशये २,३ अध्याये लिखति। 'करणानि', 'अङ्गहाराः', रेचकादिनां विषये ४ अध्याये लिखति। अग्रिमेषु अध्यायेषु देसिनृत्यप्रकाराः वर्णिताः। अन्तिमे अध्याये कलायाः तथा नृत्याभ्यासस्य विषययोः लिखति। आन्ध्रप्रदेशे शास्त्रीयनृत्यं पुरुषाः तथा महिलाश्च कुर्वन्ति। “कूचिपुडि” नृत्यविशेषः राज्यस्य अत्यन्तं सुपरिचितणं शास्त्रीयनृत्यं भवति। ’चेञ्चु भागोतम्’, ’कूचिपुडि’’[[कूचिपुडी|कूचिपुडि]]<nowiki/>’, ’भामकलापम्’, ’बुर्र्कथा’, ’वीरनाट्यम्’, ’बुट्ट् बोम्मलु’, ’दप्पु’, ’तप्पेट गुल्लु’, ’लंबाडि’, ’बोनालु’, ’धिंस’, ’कोलाटं’ ताथा ’चिण्डु’ इत्यादि प्रकाराः अद्यापि दृश्यन्ते।
==साहित्यम्==
[[नन्नय्यः]], [[तिक्कनः]], ’यर्राप्रगदः’ त्रयः आन्ध्रीयश्रेष्ठाः कवयः। त्रयः अपि [[महाभारतम्|महाभारतं]] महाकाव्यं [[तेलुगु|तेलगुभाषायाम्]] अनुवादं कृतवन्तः। [[बम्मेरपोतनः]] कविषु अन्यतमः। अयं “श्रीमद् आन्ध्रमहाभागवतम्” अत्युत्कृष्टग्रन्थं रचितवान्। [[वेदव्यासः|वेदव्यासेन]] लिखितस्य “भागवतस्य” अनूदितग्रन्थः पूर्वोक्तः। [[नन्नय्यः]] आदिकविरिति प्रसिद्धिं प्राप्तवान् आसीत्। राजमहेन्द्रवरस्य साम्राज्यस्य शासकस्य राजनरेन्द्रस्य आश्रयं [[नन्नय्यः]] प्राप्तवान् आसीत्। [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यस्य]] चक्रवर्तिः [[कृष्णदेवरायः]] “अमुक्तमाल्याद्” इति ग्रन्थं रचितवानासीत्। तात्विकैः पद्यैः कडपप्रदेशस्य [[तेलुगु|तेलगुभाषाकविः]] [[वेमनः]] प्रसिद्धिं प्राप्तवान् आसीत्। ’कन्दकूरि वीरेशलिङ्गस्य’ अनन्तरसाहित्यस्य अधुनिकसाहित्यम् इति व्यवहारः अस्ति। “सत्यवतिचरितम्” इति कादम्बरीं सत्यवतिचरितं लिखितवान्। अधुनिकेषु साहित्यकारेषु “ज्ञानपीठप्रशस्तीम्” प्राप्तेषु ’श्री विश्वनाथः’, ’सत्यनारायणः’ तथा ’डा.सि. नारायणः रेड्डि’ इत्यादयः प्रसिद्धाः भवन्ति। श्री श्रीः [[तेलुगु]] साहित्याय नूतनस्य अभिव्यक्तिवादस्य परिचयं कारितवान्। ’श्री पुट्टपर्ति नारायणाचार्युलु’ कविषु अन्यतमः। ’शिवताण्डवम्’, ’पाण्डुरङ्गमाहात्म्यम्’ इत्यादि ग्रन्थान् रचितवान्।
Line ११२ ⟶ ११३:
अमरावती - शिवस्यक्षेत्रम्।

वाराङ्गल् - सहस्रस्तम्भाणाम् आलयम् अस्ति।

[[विजयवाडा]] - कनकदुर्गादेवस्थानम् ।

द्वारकातिरुमला –वेङ्कतेश्वरदेवस्थानम्।

[[श्रीकाकुलम्]] - सूर्यदेवस्थानम्।

अण्णावरम् - सत्यनारायणस्वामी मन्दिरम्।

राजधानी - [[भाग्यनगरम्]] भाषा - [[तेलुगु]]
"https://sa.wikipedia.org/wiki/आन्ध्रप्रदेशराज्यम्" इत्यस्माद् प्रतिप्राप्तम्