"रामायणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २६:
 
==रामायणस्य रचनाकालः==
अतिप्राचीना: अपि रामायणादिग्रन्थानाम् रचनाकालः एषः एव इति प्र्रायेण वक्तुं भाषाविद्ययाद्वाराभाषाविज्ञानद्वारेण शक्यते । वस्तुतः एतस्मिन् वर्षे एतस्मिन् मासे एतस्मिन् दिने एतस्मिन समये एषः ग्रन्थः रचितः इति कथनं अशक्यं । तथापि एतादृशग्रन्थानां रचनाकालविषये पण्डिताः भिन्नं भिन्नं मतं प्रकटयन्ति । तदनुसृत्य रामायणस्यापि कालस्य रामान्यनिर्णयः कृतः अस्ति ।।
रामायणे महाभारतवर्णितस्य कस्यापि कथापात्रस्य नाम न श्रूयते । महाभारते तु रामस्य कथा वर्णिता अस्ति । महाभारतस्य सप्तमपर्वणि लङ्काकाण्डगतं पद्यद्वयं प्राप्तमस्ति । अतः रामायणं महाभारतात् प्राचीनं भवति । रामायणस्य बौद्धसाहित्यस्य च सम्बन्धः दृश्यते । रामायणीया कथा किञ्चित् परिवर्तनेन दशरथजातकनाम्ना पालिभाषया रचिता अस्ति । जातककथासु रामायणस्थलसाम्यम् अस्त्येव । बौद्धसाहित्यपण्डितः सिलवेनलेविमहाशयः स्पष्टयति यत् सद्धर्ममृत्युपस्थानस्य बौद्धग्रन्थस्य मूलम् अवश्यं वाल्मीकिरामायणम् इति तत्र विद्यमानं जम्बूद्वीपवर्णनं रामायणीयदिग्वर्णनस्य सदृशमस्ति इति । याकोबिमहाशयः भाषाविज्ञानदृष्ट्या बौद्धकालात् पूर्वमेव रामायणस्य कालः इति कथयति । एतैः सर्वैः अपि प्रमाणैः रामायणस्य बौद्धकालिकात् पूर्वत्वं सिद्धयति । रामायणे कोसलराजधानी अयोध्या इति प्रतिपादिता अस्ति । बौद्धैः यवनैः पतञ्जलिः कोसलराजधान्याः साकेतः इति नाम उच्यते । अतः साकेतनामकरणात् पूर्वमेव रामायणस्य रचनाकालः इति ज्ञायते ॥
"https://sa.wikipedia.org/wiki/रामायणम्" इत्यस्माद् प्रतिप्राप्तम्