"रामायणम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
कतिपयानि अप्रधानानि शोधनानि |
→रामायणस्य रचनाकालः: रामायणस्य विभिन्नकर्तृत्वं उल्ल्किहितम् |
||
पङ्क्तिः २६:
==रामायणस्य रचनाकालः==
वाल्मीकिरामायणमिति अस्माभि: उपलब्धम् ग्रन्थम् वास्तव्येन भाषाविज्ञानेन संशोधितं अत:परं विदुषां एष्: प्रत्ययो यद् तद्ग्रन्थम् प्रायेण वाल्मीकिना रचितमपि तद्ग्रन्थस्य विभिन्ना: रचयितार: अभिज्ञातुम् शक्यन्ते | बालकाण्डम् तथा उत्तरकाण्डम् वाल्मीकिना न रचिते स्त: यत: तयो: शब्दविन्यास: साहित्यविन्यासश्च मध्यवर्तिभ्य: पञ्चभ्य: काण्डेभ्यो विभिन्नौ स्त: तत्परं कतिपयानि वृत्तान्यपि वैपरीत्येन वर्णितान्यपि सन्ति ||
रामायणे महाभारतवर्णितस्य कस्यापि कथापात्रस्य नाम न श्रूयते । महाभारते तु रामस्य कथा वर्णिता अस्ति । महाभारतस्य सप्तमपर्वणि लङ्काकाण्डगतं पद्यद्वयं प्राप्तमस्ति । अतः रामायणं महाभारतात् प्राचीनं भवति । रामायणस्य बौद्धसाहित्यस्य च सम्बन्धः दृश्यते । रामायणीया कथा किञ्चित् परिवर्तनेन दशरथजातकनाम्ना पालिभाषया रचिता अस्ति । जातककथासु रामायणस्थलसाम्यम् अस्त्येव । बौद्धसाहित्यपण्डितः सिलवेनलेविमहाशयः स्पष्टयति यत् सद्धर्ममृत्युपस्थानस्य बौद्धग्रन्थस्य मूलम् अवश्यं वाल्मीकिरामायणम् इति तत्र विद्यमानं जम्बूद्वीपवर्णनं रामायणीयदिग्वर्णनस्य सदृशमस्ति इति । याकोबिमहाशयः भाषाविज्ञानदृष्ट्या बौद्धकालात् पूर्वमेव रामायणस्य कालः इति कथयति । एतैः सर्वैः अपि प्रमाणैः रामायणस्य बौद्धकालिकात् पूर्वत्वं सिद्धयति । रामायणे कोसलराजधानी अयोध्या इति प्रतिपादिता अस्ति । बौद्धैः यवनैः पतञ्जलिः कोसलराजधान्याः साकेतः इति नाम उच्यते । अतः साकेतनामकरणात् पूर्वमेव रामायणस्य रचनाकालः इति ज्ञायते ॥
|