"क्रोधाद्भवति सम्मोहः..." इत्यस्य संस्करणे भेदः

/* शाङ्करभाष्यम् <ref> श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्र using AWB
वास्तव्येन
पङ्क्तिः ९२:
 
== भावार्थः <ref>સાધકસંજીવની, ગીતાપ્રેસ</ref> ==
क्रोधे सति सम्मोहः (मूढता) भवति । सम्मोहात् स्मृतिभ्रष्टता जायते । स्मृतिभ्रष्टतायां सत्यां बुद्धिनाशः सञ्जायते । बुद्धिनाशात् मनुष्यस्य पतनं भवति । 'क्रोधाद्भवति सम्मोहः' – क्रोधात् सम्मोहः (मूढता) सञ्जायते, परन्तु वास्तव्येनवस्तुतः कामात्, क्रोधात्, लोभात्, ममतायाः च सम्मोहः समुद्भवति । यथा – कामनायाः यः सम्मोहः जायते, सः विवेकशक्तिं नाशयति । क्रोधात् यः सम्मोहः समुद्भवति सः वर्तनव्यवहारं नाशयति । लोभात् समुद्भूतः सम्मोहः सत्यासत्ययोः, धर्माधर्मयोः विचारं नाशयति । ममतायाः समुद्भूतात् सम्मोहात् पक्षपातः जायते ।
 
यदि काम-क्रोध-लोभ-ममताभ्यः सम्मोहः जायते, तर्हि भगवता किमर्थं केवलं क्रोधस्य एव उल्लेखः सम्मोहोद्भवस्य कारणत्वेन कृतः । यदि सर्वेषां कामादीनाम् अध्ययनं क्रियते, तर्हि ज्ञायते यत्, सर्वेषु स्वसुखोपभोस्य, स्वार्थवृत्तिः च प्रबलता भवति । अतः क्रोधात् यः सम्मोहः सञ्जायते सः काम-लोभ-ममतादिभ्यः समुद्भूतात् सम्मोहात् भयङ्करः भवति । अतः अत्र भगवता केवलं क्रोधस्यैव सम्मोहोद्भवकारणत्वेन उल्लेखः कृतः ।
"https://sa.wikipedia.org/wiki/क्रोधाद्भवति_सम्मोहः..." इत्यस्माद् प्रतिप्राप्तम्