"एषा तेऽभिहिता साङ्ख्ये..." इत्यस्य संस्करणे भेदः

/* शाङ्करभाष्यम् <ref> श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्र using AWB
परिष्कारः
पङ्क्तिः १४:
 
}}
'''एषा तेऽभिहिता साङ्ख्ये''' ({{IPA audio link|एषा तेऽभिहिता साङ्ख्ये.wav}}) इत्यनेन श्लोकेन भगवान् श्री[[कृष्णः]] समतायाः महिम्नंमहिमानं वदति । पूर्वस्मिन् श्लोके भगवान् यस्याः समतायाः उपस्थापनम् अकरोत्, तस्याः समतायाः महिम्नम्महिमानम् एतस्मिन् श्लोके, अग्रिमे श्लोके च करोति । सः कथयति यत्, हे पार्थ ! एषा समबुद्धिः साङ्ख्ययोग्या उक्ता, अधुना तु तां कर्मयोगानुगुणं शृणु । कर्मयोगसन्दर्भे समबुद्धियुक्तः त्वं कर्मबन्धनस्य त्यागं करिष्यसि इति ।
 
== श्लोकः ==
पङ्क्तिः १०८:
 
== भावार्थः <ref> श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८ </ref> ==
'एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु' – अत्र 'तु' इत्यस्य पदस्य सम्बन्धविद्च्छेदाय उपयोगः कृतः । अर्थाद्, पूर्वं साङ्ख्ययोगस्य चर्चायाम् एषः विषयः तु उक्तः एव । अधुना कर्मयोगानुगुणं शृणु । अत्र 'एषा' इत्यस्य पदस्य पूर्वश्लोके वर्णितां समबुद्धिं प्रति लक्ष्यम् । तस्याः समबुद्धेः वर्णनं पूर्वं साङ्ख्ययोगे <ref> गीता, अ. २, श्लो. ११-३० </ref> कृतमस्ति । देहदेहिनोः विवेके सति समतायां सत्यां स्वतःसिद्धायाः आत्मस्थितेः अनुभवः भवति । किञ्च देहे रागः एव विषमतां जनयति । एतादृशं वर्णनं साङ्ख्ययोगवर्णनावसरे तु कृतम् अस्ति । अधुना सातामेव एवसमबुद्धिं समबुद्धिः कर्मयोगानुगुमंकर्मयोगानुगुणं शृणु । 'इमाम्' इत्यस्य पदस्य उपयोगः किमर्थं चेद्, इतः परं एतस्याः समबुद्धेः कर्मयोगसन्दर्भे वर्णनं भविष्यति । सा समबुद्धिः कर्मयोगद्वारा कथं सुलभ्या ? तस्याः स्वरूपं किम् ? तस्याः महत्त्वं किम् इत्यादिषु विषयेषु भगवान् अर्जुनं श्रोतुम् आज्ञापयति ।
 
'बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि' – अर्जुनस्य मनसि युद्धे कृते पापं भविष्यति इति भयःभयम् आसीत् <ref> गीता, अ. १, श्लो. ३६, ४५ </ref> । परन्तु भगवतः कथनानुसारं कर्मसु विषमबुद्धिः (रागद्वेषौ) एव पापकारणं भवति इति । समबुद्धित्वाद् पापं न कदापि भवति । यथा अखिले संसारे पापपुण्ययोः अनेकाः क्रियाः भवन्ति, परन्तु तासां क्रियाणां प्रभावः अस्मत्सुअस्मासु न भवति । किञ्च तत्र अस्माकं समबुद्धिः अस्ति । अर्थाद् तत्र पक्षपातः, आग्रहः, रागद्वेषौ च न सन्ति । तथैव समबुद्धियुक्तो भविष्यसि चेद्, तुभ्यमपि एतानि कर्माणि बन्धनकारकाणि न भविष्यन्ति । कर्मयोगिनः लोकसङ्ग्रहार्थं सर्वाणि कर्माणि कुर्वन्ति <ref> लोकसङ्ग्रमेवापि सम्पश्यन्कृतमर्हसि, गीता, अ. ३, श्लो. २० </ref> । लोकसङ्ग्रहाय कर्मणि कृते सति अर्थात् निःस्वार्थभावेन लोकमर्यादायै कर्म क्रियते चेद्, समताप्राप्तिः सुगमा भवति । समताप्राप्त्योत्तरंसमताप्राप्त्युत्तरं कर्मयोगी कर्मबन्धनेभ्यः सुगमतापूर्वकं मुक्तः भवति ।
द्वितीयाध्याये येषां विषयाणाम् उपस्थापनम् अभवत्, तेषु किञ्चित् क्रमभङ्गः दृश्यते इति केचन वदन्ति । ते उदाहरणं यच्छति यद्, 'एषा तेऽभिहता साङ्ख्ये' इत्याख्यः एषः श्लोकः एकत्रिंशो अभविष्यच्चेद् क्रमभङ्गः नाभविष्यत् । एकादशात् श्लोकाद् त्रिंशं श्लोकं पर्यन्तंत्रिंशश्लोकपर्यन्तं साङ्ख्ययोगानुगुणं निष्ठा (समता) उक्ता । ततः कर्मयोगानुगुणं निष्ठायाः वर्णनम् उचितं भवेत् । एवम् एकत्रिंशाद् अष्टत्रिंशं पर्यन्तंअष्टत्रिंशपर्यन्तं ये श्लोकाः सन्ति, ते विषयेन सह असङ्गताः इति प्रतीयते । परन्तु तथा नास्ति । किञ्च कर्मयोगानुगुणं समतायाः ज्ञानं प्राप्तव्यं चेत्, कर्तव्याकर्तव्ययोः ज्ञानम् आवश्यकम् । अर्जुनाय युद्धं कर्तव्यम् आसीत्, युद्धत्यागः अकर्तव्यञ्चअकर्तव्यश्च । अतः भगवान् कर्तव्याकर्तव्ययोः वर्णनं कुर्वन् एकत्रिंशाद् अष्टत्रिंशपर्यन्तंअष्टत्रिंशपर्यन्तान् श्लोकान् कर्मयोगसन्दर्भे समतावर्णनात् प्राग् अवदत् । तात्पर्यम् अस्ति यद्, एकादशात् त्रिंशं श्लोकं पर्यन्तंयावत् वर्णिते विषये किमपि परिवर्तनं न शक्यते । सदसतोः ज्ञानेन समतासमतां प्रतिपादयन्प्रतिपादयता तयोः तत्त्वयोः वास्तविकं स्वरूपं वर्णितम् । ततः एकत्रिंशाद् अष्टत्रिंशं पर्यन्तंयावत् ये श्लोकाः सन्ति, तेषु कर्तव्याकर्तव्ययोः चर्चां कृत्वा एतस्माच्छ्लोकात् कर्म कुर्वन् सिद्धौ, असिद्धौ, फलप्राप्तौ, फलाप्राप्तौ च समतायाः वर्णनम् आरभते ।
 
== शाङ्करभाष्यम् <ref> श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6 </ref> ==
पङ्क्तिः १२१:
=== भाष्यार्थः ===
 
'स्वधर्ममपि चावेक्ष्य' – इत्यादिभिः श्लोकैः शोकः, मोहश्च दूरीकर्तुं लौकिकन्यायः उक्तः, परन्तु पारमार्थिकदृष्टा नोक्तः । अत्र परमार्थदर्शनस्य प्रकरणत्वाद् अधुना शास्त्रविषयस्य विभागं प्रदर्शयितुम् 'एषा तेऽभिहिता' इत्यनेन श्लोकेन तस्य परमार्थदर्शनस्य उपसंहारं करोति । यतो हि अत्र शास्त्रस्य विषयस्य विभागे प्रदर्शिते सति अग्रे 'ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्' इत्यादिना या द्विधा निष्ठोपस्थापकं शास्त्रम् अस्ति, तद् सुखपूर्वकम् अवगम्यं भविष्यति । श्रोतारः अपि विशेषविभागपूर्वकम् अनायासेन तां ग्रहितुंग्रहीतुं शक्ष्यन्ति । अतः वदति –
 
अहं साङ्ख्ययोगसन्दर्भे अर्थात् परमार्थवस्तूनाम् अभिज्ञाविषये बुद्धिम् अर्थात् ज्ञानम् उक्तवान् । तज्ज्ञानं ये संसारहेतवः अर्थात् शोक-मोहादयः दोषाः सन्ति, तेषां निवृत्तेः साक्षात्कारणम् अस्ति । तस्य ज्ञानस्य प्राप्तेः उपायत्वेन कर्मयोगसन्दर्भे अर्थात् आसक्तिरहिते सति सुखदुःखादीनां द्वन्द्वानां त्यागपूर्वकम् ईश्वराधनाय कृतस्य कर्मणः कर्मयोगसन्दर्भे, समाधियोगसन्दर्भे च तां बुद्धिं (ज्ञानं) वदामि इति । तां बुद्धिं शृणु – रुच्युत्पादनाय तस्याः बुद्धेः स्तुतिः क्रियते – हे अर्जुन ! यस्यईश्वरकृपया योगविषयकस्यप्राप्तेन बुद्धियुक्तःज्ञानेन योगविषयकबुद्ध्या युक्तः त्वं धर्माधर्मनामकं कर्मरूपं बन्धनम् ईश्वरकृपया प्राप्तेन ज्ञानेनबन्धनं नंक्ष्यसि इत्यभिप्रायः ।
 
== रामानुजभाष्यम् <ref> [https://archive.org/stream/HindiBookSrimadBhagavadGitaWithRamanujaBhasyaHindiGitaPress/Hindi%20Book-Srimad-Bhagavad-Gita-With-Ramanuja-Bhasya-Hindi-Gita-Press#page/n23/mode/2up रामानुजभाष्यम्] </ref> ==
पङ्क्तिः १३४:
=== भाष्यार्थः ===
 
बुद्धेः अपरं नाम ''सङ्ख्या'' अस्ति, अतः बुद्धेः धारकस्य आत्मतत्त्वस्य नाम ''साख्यम्साङ्ख्यम्'' इति । ज्ञातव्यस्य आत्मतत्त्वस्य विषये ज्ञातुं या बुद्धिः आवश्यकी, तस्याः विषये ''न त्वेवाहम्'' इत्यस्माद् आरभ्य 'तस्मात् सर्वाणि भूतानि' इत्येतं श्लोकं पर्यन्तम्श्लोकपर्यन्तम् उक्तम् अस्ति । इतः आत्मज्ञानसहिताय मोक्षसाधनभूताय कर्मानुष्ठानाय यः बुद्धियोगः उच्यमानः अस्ति, सः अत्र ''योगः'' इत्यनेन शब्देन उच्यते । यतो हि अग्रे गत्वा वक्ष्यते यद्, '''दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय'' ' तस्मिन् योगविषये या बुद्धिः वक्तव्या अस्ति, यया बुद्ध्या युक्तः सन् त्वं कर्मबन्धनस्य नाशं कर्तुं शक्ष्यसि, तां बुद्धिं त्वं शृणु । कर्मभिः जातानां बन्धनानां नाम एव 'कर्मबन्ध' इति । अतः कर्मबन्धनस्य अर्थः संसारबन्धनम् अस्ति ।
{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः = [[सुखदुःखे समे कृत्वा...]] |अग्रिमश्लोकः =[[नेहाभिक्रमनाशोऽस्ति...]]}}
 
"https://sa.wikipedia.org/wiki/एषा_तेऽभिहिता_साङ्ख्ये..." इत्यस्माद् प्रतिप्राप्तम्